अलब्ध्वा स पितुर्धीमान् अङ्कं दुःखितमानसः मातुः समीपमागम्य रुरोद स पुनः पुनः
रुदन्तं पुत्रमाहेदं माता शोकपरिप्लुता सुरुचिर्दयिता भर्तुस् तस्याः पुत्रो ऽपि तादृशः
मम त्वं मन्दभाग्याया जातः पुत्रो ऽप्यभाग्यवान् किं शोचसि किमर्थं त्वं रोदमानः पुनः पुनः
संतप्तहृदयो भूत्वा मम शोकं करिष्यसि स्वस्थस्थानं ध्रुवं पुत्र स्वशक्त्या त्वं समाप्नुयाः
इत्युक्तः स तु मात्रा वै निर्जगाम तदा वनम् विश्वामित्रं ततो दृष्ट्वा प्रणिपत्य यथाविधि
उवाच प्राञ्जलिर्भूत्वा भगवन् वक्तुमर्हसि सर्वेषामुपरिस्थानं केन प्राप्स्यामि सत्तम
पितुरङ्के समासीनं माता मां सुरुचिर्मुने व्यधूनयत्स तं राजा पिता नोवाच किंचन
एतस्मात् कारणाद् ब्रह्मंस् त्रस्तो ऽहं मातरं गतः सुनीतिराह मे माता मा कृथाः शोकमुत्तमम्
स्वकर्मणा परं स्थानं प्राप्तुमर्हसि पुत्रक तस्या हि वचनं श्रुत्वा स्थानं तव महामुने
प्राप्तो वनमिदं ब्रह्मन्न् अद्य त्वां दृष्टवान्प्रभो तव प्रसादात् प्राप्स्ये ऽहं स्थानमद्भुतमुत्तमम्
इत्युक्तः स मुनिः श्रीमान् प्रहसन्न् इदम् अब्रवीत् राजपुत्र शृणुष्वेदं स्थानमुत्तममाप्स्यसि
आराध्य जगतामीशं केशवं क्लेशनाशनम् दक्षिणाङ्गभवं शंभोर् महादेवस्य धीमतः
जप नित्यं महाप्राज्ञ सर्वपापविनाशनम् इष्टदं परमं शुद्धं पवित्रममलं परम्
ब्रूहि मन्त्रमिमं दिव्यं प्रणवेन समन्वितम् नमो ऽस्तु वासुदेवाय इत्येवं नियतेन्द्रियः
ध्यायन्सनातनं विष्णुं जपहोमपरायणः इत्युक्तः प्रणिपत्यैनं विश्वामित्रं महायशाः
प्राङ्मुखो नियतो भूत्वा जजाप प्रीतमानसः शाकमूलफलाहारः संवत्सरमतन्द्रितः
जजाप मन्त्रमनिशम् अजस्रं स पुनः पुनः वेताला राक्षसा घोराः सिंहाद्याश् च महामृगाः
तमभ्ययुर्महात्मानं बुद्धिमोहाय भीषणाः जपन् स वासुदेवेति न किंचित् प्रत्यपद्यत
सुनीतिर् अस्य या माता तस्या रूपेण संवृता पिशाचि समनुप्राप्ता रुरोद भृशदुःखिता
मम त्वमेकः पुत्रो ऽसि किमर्थं क्लिश्यते भवान् मामनाथामपहाय तप आस्थितवानसि
एवमादीनि वाक्यानि भाषमाणां महातपाः अनिरीक्ष्यैव हृष्टात्मा हरेर्नाम जजाप सः
ततः प्रशेमुः सर्वत्र विघ्नरूपाणि तत्र वै ततो गरुडमारुह्य कालमेघसमद्युतिः
सर्वदेवैः परिवृतः स्तूयमानो महर्षिभिः आययौ भगवान्विष्णुः ध्रुवान्तिकम् अरातिहा
समागतं विलोक्याथ को ऽसावित्येव चिन्तयन् पिबन्निव हृषीकेशं नयनाभ्यां जगत्पतिम्
जपन् स वासुदेवेति ध्रुवस्तस्थौ महाद्युतिः शङ्खप्रान्तेन गोविन्दः पस्पर्शास्यं हि तस्य वै
ततः स परमं ज्ञानम् अवाप्य पुरुषोत्तमम् तुष्टाव प्राञ्जलिर्भूत्वा सर्वलोकेश्वरं हरिम्
प्रसीद देवदेवेश शङ्खचक्रगदाधर लोकात्मन् वेदगुह्यात्मन् त्वां प्रपन्नो ऽस्मि केशव
न विदुस्त्वां महात्मानं सनकाद्या महर्षयः तत्कथं त्वामहं विद्यां नमस्ते भुवनेश्वर
तमाह प्रहसन्विष्णुर् एहि वत्स ध्रुवो भवान् स्थानं ध्रुवं समासाद्य ज्योतिषाम् अग्रभुग् भव
मात्रा त्वं सहितस्तत्र ज्योतिषां स्थानमाप्नुहि मत्स्थानमेतत्परमं ध्रुवं नित्यं सुशोभनम्