स्वरात्मानः समाख्याताश् चान्तरेशाः समासतः वैवस्वत ऋकारस्तु मनुः कृष्णः सुरेश्वरः
सप्तमस्तस्य वक्ष्यामि युगावर्तेषु योगिनः समतीतेषु कल्पेषु तथा चानागतेषु वै
वाराहः साम्प्रतं ज्ञेयः सप्तमान्तरतः क्रमात् योगावतारांश् च विभोः शिष्याणां संततिस् तथा
सम्प्रेक्ष्य सर्वकालेषु तथावर्तेषु योगिनाम् आद्ये श्वेतः कलौ रुद्रः सुतारो मदनस् तथा
सुहोत्रः कङ्कणश्चैव लोकाक्षिर् मुनिसत्तमाः जैगीषव्यो महातेजा भगवान् दधिवाहनः
ऋषभश् च मुनिर्धीमान् उग्रश्चात्रिः सुबालकः गौतमश्चाथ भगवान् सर्वदेवनमस्कृतः
वेदशीर्षश् च गोकर्णो गुहावासी शिखण्डभृत् जटामाल्यट्टहासश् च दारुको लाङ्गली तथा
महाकायमुनिः शूली दण्डी मुण्डीश्वरः स्वयम् सहिष्णुः सोमशर्मा च नकुलीशो जगद्गुरुः
वैवस्वते ऽन्तरे सम्यक् प्रोक्ता हि परमात्मनः योगाचार्यावतारा ये सर्वावर्तेषु सुव्रताः
व्यासाश्चैवं मुनिश्रेष्ठा द्वापरे द्वापरे त्विमे योगेश्वराणां चत्वारः शिष्याः प्रत्येकमव्ययाः
श्वेतः श्वेतशिखण्डी च श्वेताश्वः श्वेतलोहितः दुन्दुभिः शतरूपश् च ऋचीकः केतुमांस् तथा
विशोकश्च विकेशश् च विपाशः पापनाशनः सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः
सनकश् च सनन्दश् च प्रभुर्यश् च सनातनः ऋभुः सनत्कुमारश् च सुधामा विरजास् तथा
शङ्खपाद् वैरजश्चैव मेघः सारस्वतस् तथा सुवाहनो मुनिश्रेष्ठो मेघवाहो महाद्युतिः
कपिलश्चासुरिश्चैव तथा पञ्चशिखो मुनिः वाल्कलश् च महायोगी धर्मात्मानो महौजसः
पराशरश् च गर्गश् च भार्गवश्चाङ्गिरास् तथा बलबन्धुर् निरामित्रः केतुशृङ्गस्तपोधनः
लम्बोदरश् च लम्बश्च लम्बाक्षो लम्बकेशकः सर्वज्ञः समबुद्धिश् च साध्यः सर्वस्तथैव च
सुधामा काश्यपश्चैव वासिष्ठो विरजास् तथा अत्रिर् देवसदश्चैव श्रवणो ऽथ श्रविष्ठकः कुणिश् च कुणिबाहुश् च कुशरीरः कुनेत्रकः
कश्यपो ऽप्युशनाश्चैव च्यवनो ऽथ बृहस्पतिः उतथ्यो वामदेवश् च महायोगो महाबलः
वाचश्रवाः सुधीकश्च श्यावाश्वश् च यतीश्वरः हिरण्यनाभः कौशल्यो लोगाक्षिः कुथुमिस् तथा
सुमन्तुर्बर्बरी विद्वान् कबन्धः कुशिकंधरः प्लक्षो दाल्भ्यायणिश्चैव केतुमान् गोपनस् तथा
भल्लावी मधुपिङ्गश्च श्वेतकेतुस्तपोनिधिः उशिको बृहदश्वश् च देवलः कविरेव च
शालिहोत्रो ऽग्निवेशश्च युवनाश्वः शरद्वसुः छगलः कुण्डकर्णश् च कुम्भश्चैव प्रवाहकः
उलूको विद्युतश्चैव मण्डूको ह्याश्वलायनः अक्षपादः कुमारश् च उलूको वत्स एव च
कुशिकश्चैव गर्भश् च मित्रः कौरुष्य एव च शिष्यास्त्वेते महात्मानः सर्वावर्तेषु योगिनाम्
विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः एते पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः
शिष्याः प्रशिष्याश्चैतेषां शतशो ऽथ सहस्रशः प्राप्य पाशुपतं योगं रुद्रलोकाय संस्थिताः
देवादयः पिशाचान्ताः पशवः परिकीर्तिताः तेषां पतित्वात्सर्वेशो भवः पशुपतिः स्मृतः
तेन प्रणीतो रुद्रेण पशूनां पतिना द्विजाः योगः पाशुपतो ज्ञेयः परावरविभूतये
संक्षेपतः प्रवक्ष्यामि योगस्थानानि साम्प्रतम् कल्पितानि शिवेनैव हिताय जगतां द्विजाः