एतेष्वेव ग्रहाः सर्वे नक्षत्रेषु समुत्थिताः विवस्वानदितेः पुत्रः सूर्यो वै मुनिसत्तमाः
विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः त्विषिमान् धर्मपुत्रस्तु सोमो देवो वसुस्तु सः
शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाकरः षोडशार्चिर्भृगोः पुत्रः शुक्रः सूर्यादनन्तरम्
ताराग्रहाणां प्रवरस् तिष्ये क्षेत्रे समुत्थितः ग्रहश्चाङ्गिरसः पुत्रो द्वादशार्चिर्बृहस्पतिः
फाल्गुनीषु समुत्पन्नः पूर्वाख्यासु जगद्गुरुः नवार्चिर्लोहिताङ्गश् च प्रजापतिसुतो ग्रहः
आषाढास्विह पूर्वासु समुत्पन्न इति स्मृतः रेवतीष्वेव सप्तार्चिःस्थाने सौरिः शनैश्चरः
सौम्यो बुधो धनिष्ठासु पञ्चार्चिर् उदितो ग्रहः तमोमयो मृत्युसुतः प्रजाक्षयकरः शिखी
आश्लेषासु समुत्पन्नः सर्वहारी महाग्रहः तथा स्वनामधेयेषु दाक्षायण्यः समुत्थिताः
तमोवीर्यमयो राहुः प्रकृत्या कृष्णमण्डलः भरणीषु समुत्पन्नो ग्रहश्चन्द्रार्कमर्दनः
एते तारा ग्रहाश्चापि बोद्धव्या भार्गवादयः जन्मनक्षत्रपीडासु यान्ति वैगुण्यतां यतः
मुच्यते तेन दोषेण ततस्तद्ग्रहभक्तितः सर्वग्रहाणामेतेषाम् आदिरादित्य उच्यते
ताराग्रहाणां शुक्रस्तु केतूनां चापि धूमवान् ध्रुवः किल ग्रहाणां तु विभक्तानां चतुर्दिशम्
नक्षत्राणां श्रविष्ठा स्याद् अयनानां तथोत्तरम् वर्षाणां चैव पञ्चानाम् आद्यः संवत्सरः स्मृतः
ऋतूनां शिशिरश्चापि मासानां माघ उच्यते पक्षाणां शुक्लपक्षस्तु तिथीनां प्रतिपत्तथा
अहोरात्रविभागानाम् अहश्चादिः प्रकीर्तितः मुहूर्तानां तथैवादिर् मुहूर्तो रुद्रदैवतः
क्षणश्चापि निमेषादिः कालः कालविदां वराः श्रवणान्तं धनिष्ठादि युगं स्यात्पञ्चवार्षिकम्
भानोर्गतिविशेषेण चक्रवत्परिवर्तते दिवाकरः स्मृतस्तस्मात् कालकृद्विभुरीश्वरः
चतुर्विधानां भूतानां प्रवर्तकनिवर्तकः तस्यापि भगवान् रुद्रः साक्षाद्देवः प्रवर्तकः
इत्येष ज्योतिषामेवं संनिवेशो ऽर्थनिश्चयः लोकसंव्यवहारार्थं महादेवेन निर्मितः
बुद्धिपूर्वं भगवता कल्पादौ सम्प्रवर्तितः स आश्रयो ऽभिमानी च सर्वस्य ज्योतिरात्मकः
एकरूपप्रधानस्य परिणामो ऽयमद्भुतः नैष शक्यः प्रसंख्यातुं याथातथ्येन केनचित्
गतागतं मनुष्येण ज्योतिषां मांसचक्षुषा आगमादनुमानाच्च प्रत्यक्षादुपपत्तितः
परीक्ष्य निपुणं बुद्ध्या श्रद्धातव्यं विपश्चिता चक्षुः शास्त्रं जलं लेख्यं गणितं मुनिसत्तमाः
पञ्चैते हेतवो ज्ञेया ज्योतिर्मानविनिर्णये
कथं विष्णोः प्रसादाद्वै ध्रुवो बुद्धिमतां वरः मेढीभूतो ग्राहाणां वै वक्तुमर्हसि सांप्रतम्
एतमर्थं मया पृष्टो नानाशास्त्रविशारदः मार्कण्डेयः पुरा प्राह मह्यं शुश्रूषवे द्विजाः
सार्वभौमो महातेजाः सर्वशस्त्रभृतां वरः उत्तानपादो राजा वै पालयामास मेदिनीम्
तस्य भार्याद्वयम् अभूत् सुनीतिः सुरुचिस् तथा अग्रजायामभूत्पुत्रः सुनीत्यां तु महायशाः
ध्रुवो नाम महाप्राज्ञः कुलदीपो महामतिः कदाचित् सप्तवर्षे ऽपि पितुरङ्कम् उपाविशत्
सुरुचिस्तं विनिर्धूय स्वपुत्रं प्रीतिमानसा न्यवेशयत्तं विप्रेन्द्रा ह्य् अङ्कं रूपेण मानिता