उद्धृत्य पृथिवीछायां निर्मितां मण्डलाकृतिम् स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम्
आदित्यात्तच्च निष्क्रम्य समं गच्छति पर्वसु आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु
स्वर्भानुं नुदते यस्मात् तस्मात्स्वर्भानुरुच्यते चन्द्रस्य षोडशो भागो भार्गवस्य विधीयते
विष्कंभान्मण्डलाच्चैव योजनाग्रात्प्रमाणतः भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः
बृहस्पतेः पादहीनौ वक्रसौरी उभौ स्मृतौ विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः
तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै बुधेन तानि तुल्यानि विस्तारान्मण्डलाच्च वै
प्रायशश्चन्द्रयोगीनि विद्यादृक्षाणि तत्त्ववित् तारानक्षत्ररूपाणि हीनानि तु परस्परम्
शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने सर्वोपरि निकृष्टानि तारकामण्डलानि तु
योजनान्यर्धमात्राणि तेभ्यो ह्रस्वं न विद्यते उपरिष्टात्त्रयस्तेषां ग्रहास्ते दूरसर्पिणः
सौरो ऽङ्गिराश् च वक्रश् च ज्ञेया मन्दविचारिणः पूर्वमेव समाख्याता गतिस्तेषां यथाक्रमम्
एतेष्वेव ग्रहाः सर्वे नक्षत्रेषु समुत्थिताः विवस्वानदितेः पुत्रः सूर्यो वै मुनिसत्तमाः
विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः त्विषिमान् धर्मपुत्रस्तु सोमो देवो वसुस्तु सः
शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाकरः षोडशार्चिर्भृगोः पुत्रः शुक्रः सूर्यादनन्तरम्
ताराग्रहाणां प्रवरस् तिष्ये क्षेत्रे समुत्थितः ग्रहश्चाङ्गिरसः पुत्रो द्वादशार्चिर्बृहस्पतिः
फाल्गुनीषु समुत्पन्नः पूर्वाख्यासु जगद्गुरुः नवार्चिर्लोहिताङ्गश् च प्रजापतिसुतो ग्रहः
आषाढास्विह पूर्वासु समुत्पन्न इति स्मृतः रेवतीष्वेव सप्तार्चिःस्थाने सौरिः शनैश्चरः
सौम्यो बुधो धनिष्ठासु पञ्चार्चिर् उदितो ग्रहः तमोमयो मृत्युसुतः प्रजाक्षयकरः शिखी
आश्लेषासु समुत्पन्नः सर्वहारी महाग्रहः तथा स्वनामधेयेषु दाक्षायण्यः समुत्थिताः
तमोवीर्यमयो राहुः प्रकृत्या कृष्णमण्डलः भरणीषु समुत्पन्नो ग्रहश्चन्द्रार्कमर्दनः
एते तारा ग्रहाश्चापि बोद्धव्या भार्गवादयः जन्मनक्षत्रपीडासु यान्ति वैगुण्यतां यतः
मुच्यते तेन दोषेण ततस्तद्ग्रहभक्तितः सर्वग्रहाणामेतेषाम् आदिरादित्य उच्यते
ताराग्रहाणां शुक्रस्तु केतूनां चापि धूमवान् ध्रुवः किल ग्रहाणां तु विभक्तानां चतुर्दिशम्
नक्षत्राणां श्रविष्ठा स्याद् अयनानां तथोत्तरम् वर्षाणां चैव पञ्चानाम् आद्यः संवत्सरः स्मृतः
ऋतूनां शिशिरश्चापि मासानां माघ उच्यते पक्षाणां शुक्लपक्षस्तु तिथीनां प्रतिपत्तथा
अहोरात्रविभागानाम् अहश्चादिः प्रकीर्तितः मुहूर्तानां तथैवादिर् मुहूर्तो रुद्रदैवतः
क्षणश्चापि निमेषादिः कालः कालविदां वराः श्रवणान्तं धनिष्ठादि युगं स्यात्पञ्चवार्षिकम्
भानोर्गतिविशेषेण चक्रवत्परिवर्तते दिवाकरः स्मृतस्तस्मात् कालकृद्विभुरीश्वरः
चतुर्विधानां भूतानां प्रवर्तकनिवर्तकः तस्यापि भगवान् रुद्रः साक्षाद्देवः प्रवर्तकः
इत्येष ज्योतिषामेवं संनिवेशो ऽर्थनिश्चयः लोकसंव्यवहारार्थं महादेवेन निर्मितः
बुद्धिपूर्वं भगवता कल्पादौ सम्प्रवर्तितः स आश्रयो ऽभिमानी च सर्वस्य ज्योतिरात्मकः