दृश्यन्ते दिवि ताः सर्वाः विश्वं चेदं पुनर्जगत् न क्षीयन्ते यतस्तानि तस्मान्नक्षत्रता स्मृता
क्षेत्राण्येतानि सर्वाणि आतपन्ति गभस्तिभिः तेषां क्षेत्राण्यथादत्ते सूर्यो नक्षत्रतारकाः
चीर्णेन सुकृतेनेह सुकृतान्ते ग्रहाश्रयाः तारणात्तारका ह्येताः शुक्लत्वाच्चैव तारकाः
दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः आदानान्नित्यमादित्यस् तेजसां तमसामपि
सवने स्यन्दने ऽर्थे च धातुर् एष विभाष्यते सवनात्तेजसो ऽपां च तेनासौ सविता मतः
बहुलश्चन्द्र इत्येष ह्लादने धातुरुच्यते शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते
सूर्याचन्द्रमसोर्दिव्ये मण्डले भास्वरे खगे जलतेजोमये शुक्ले वृत्तकुंभनिभे शुभे
घनतोयात्मकं तत्र मण्डलं शशिनः स्मृतम् घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु
वसन्ति सर्वदेवाश् च स्थानान्येतानि सर्वशः मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः
तेन ग्रहा गृहाण्येव तदाख्यास्ते भवन्ति च सौरं सूर्यो ऽविशत्स्थानं सौम्यं सोमस्तथैव च
शौक्रं शुक्रो ऽविशत्स्थानं षोडशार्चिः प्रतापवान् बृहद् बृहस्पतिश्चैव लोहितश्चैव लोहितम्
शनैश्चरं तथा स्थानं देवश्चापि शनैश्चरः बौधं बुधस्तु स्वर्भानुः स्वर्भानुस्थानमाश्रितः
नक्षत्राणि च सर्वाणि नक्षत्राणि विशन्ति च गृहाण्येतानि सर्वाणि ज्योतींषि सुकृतात्मनाम्
कल्पादौ सम्प्रवृत्तानि निर्मितानि स्वयंभुवा स्थानान्येतानि तिष्ठन्ति यावद् आभूतसंप्लवम्
मन्वन्तरेषु सर्वेषु देवस्थानानि तानि वै अभिमानिनो ऽवतिष्ठन्ते देवाः स्थानं पुनः पुनः
अतीतैस्तु सहैतानि भाव्याभाव्यैः सुरैः सह वर्तन्ते वर्तमानैश् च स्थानिभिस्तैः सुरैः सह
अस्मिन्मन्वन्तरे चैव ग्रहा वैमानिकाः स्मृताः विवस्वानदितेः पुत्रः सूर्यो वैवस्वते ऽन्तरे
द्युतिमानृषिपुत्रस्तु सोमो देवो वसुः स्मृतः शुक्रो देवस्तु विज्ञेयो भार्गवो ऽसुरयाजकः
बृहत्तेजाः स्मृतो देवो देवाचार्यो ऽङ्गिरःसुतः बुधो मनोहरश्चैव ऋषिपुत्रस्तु स स्मृतः
शनैश्चरो विरूपस्तु संज्ञापुत्रो विवस्वतः अग्निर्विकेश्यां जज्ञे तु युवासौ लोहितार्चिषः
नक्षत्रऋक्षनामिन्यो दाक्षायण्यस्तु ताः स्मृताः स्वर्भानुः सिंहिकापुत्रो भूतसंतापनो ऽसुरः
सोमर्क्षग्रहसूर्येषु कीर्तितास्त्वभिमानिनः स्थानान्येतान्यथोक्तानि स्थानिन्यश्चैव देवताः
सौरम् अग्निमयं स्थानं सहस्रांशोर्विवस्वतः हिमांशोस्तु स्मृतं स्थानम् अम्मयं शुक्लमेव च
आप्यं श्यामं मनोज्ञं च बुधरश्मिगृहं स्मृतम् शुक्लस्याप्यम्मयं शुक्लं पदं षोडशरश्मिवत्
नवरश्मि तु भौमस्य लोहितं स्थानम् उत्तमम् हरिद्राभं बृहच्चापि षोडशार्चिर्बृहस्पतेः
अष्टरश्मिगृहं चापि प्रोक्तं कृष्णं शनैश्चरे स्वर्भानोस्तामसं स्थानं भूतसंतापनालयम्
विज्ञेयास्तारकाः सर्वास् त्व् ऋषयस्त्वेकरश्मयः आश्रयाः पुण्यकीर्तीनां शुक्लाश्चापि स्ववर्णतः
घनतोयात्मिका ज्ञेयाः कल्पादावेव निर्मिताः आदित्यरश्मिसंयोगात् संप्रकाशात्मिकाः स्मृताः
नवयोजनसाहस्रो विष्कंभः सवितुः स्मृतः त्रिगुणस्तस्य विस्तारो मण्डलस्य प्रमाणतः
द्विगुणः सूर्यविस्ताराद् विस्तारः शशिनः स्मृतः तुल्यस्तयोस्तु स्वर्भानुर् भूत्वाधस्तात्प्रसर्पति