उत्तमं मार्गमास्थाय रात्र्यहोभिर् इदं जगत् पार्श्वत ऊर्ध्वम् अधश् चैव तापयत्येष सर्वशः
यथा प्रभाकरो दीपो गृहमध्ये ऽवलम्बितः पार्श्वत ऊर्ध्वम् अधश्चैव तमो नाशयते समम्
तद्वत्सहस्रकिरणो ग्रहराजो जगत्प्रभुः सूर्यो गोभिर् जगत् सर्वम् आदीपयति सर्वतः
रवे रश्मिसहस्रं यत् प्राङ्मया समुदाहृतम् तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः
सुषुम्नो हरिकेशश् च विश्वकर्मा तथैव च विश्वव्यचाः पुनश्चाद्यः संनद्धश् च ततः परः
सर्वावसुः पुनश्चान्यः स्वराडन्यः प्रकीर्तितः सुषुम्नः सूर्यरश्मिस्तु दक्षिणां राशिम् ऐधयत्
न्यगूर्ध्वाधः प्रचारो ऽस्य सुषुम्नः परिकीर्तितः हरिकेशः पुरस्ताद् यो ऋक्षयोनिः प्रकीर्त्यते
दक्षिणे विश्वकर्मा च रश्मिर्वर्धयते बुधम् विश्वव्यचास्तु यः पश्चाच् छुक्रयोनिः स्मृतो बुधैः
संनद्धश् च तु यो रश्मिः स योनिर् लोहितस्य तु षष्ठः सर्वावसू रश्मिः स योनिस्तु बृहस्पतेः
शनैश्चरं पुनश् चापि रश्मिर् आप्यायते स्वराट् एवं सूर्यप्रभावेन नक्षत्रग्रहतारकाः
दृश्यन्ते दिवि ताः सर्वाः विश्वं चेदं पुनर्जगत् न क्षीयन्ते यतस्तानि तस्मान्नक्षत्रता स्मृता
क्षेत्राण्येतानि सर्वाणि आतपन्ति गभस्तिभिः तेषां क्षेत्राण्यथादत्ते सूर्यो नक्षत्रतारकाः
चीर्णेन सुकृतेनेह सुकृतान्ते ग्रहाश्रयाः तारणात्तारका ह्येताः शुक्लत्वाच्चैव तारकाः
दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः आदानान्नित्यमादित्यस् तेजसां तमसामपि
सवने स्यन्दने ऽर्थे च धातुर् एष विभाष्यते सवनात्तेजसो ऽपां च तेनासौ सविता मतः
बहुलश्चन्द्र इत्येष ह्लादने धातुरुच्यते शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते
सूर्याचन्द्रमसोर्दिव्ये मण्डले भास्वरे खगे जलतेजोमये शुक्ले वृत्तकुंभनिभे शुभे
घनतोयात्मकं तत्र मण्डलं शशिनः स्मृतम् घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु
वसन्ति सर्वदेवाश् च स्थानान्येतानि सर्वशः मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः
तेन ग्रहा गृहाण्येव तदाख्यास्ते भवन्ति च सौरं सूर्यो ऽविशत्स्थानं सौम्यं सोमस्तथैव च
शौक्रं शुक्रो ऽविशत्स्थानं षोडशार्चिः प्रतापवान् बृहद् बृहस्पतिश्चैव लोहितश्चैव लोहितम्
शनैश्चरं तथा स्थानं देवश्चापि शनैश्चरः बौधं बुधस्तु स्वर्भानुः स्वर्भानुस्थानमाश्रितः
नक्षत्राणि च सर्वाणि नक्षत्राणि विशन्ति च गृहाण्येतानि सर्वाणि ज्योतींषि सुकृतात्मनाम्
कल्पादौ सम्प्रवृत्तानि निर्मितानि स्वयंभुवा स्थानान्येतानि तिष्ठन्ति यावद् आभूतसंप्लवम्
मन्वन्तरेषु सर्वेषु देवस्थानानि तानि वै अभिमानिनो ऽवतिष्ठन्ते देवाः स्थानं पुनः पुनः
अतीतैस्तु सहैतानि भाव्याभाव्यैः सुरैः सह वर्तन्ते वर्तमानैश् च स्थानिभिस्तैः सुरैः सह
अस्मिन्मन्वन्तरे चैव ग्रहा वैमानिकाः स्मृताः विवस्वानदितेः पुत्रः सूर्यो वैवस्वते ऽन्तरे
द्युतिमानृषिपुत्रस्तु सोमो देवो वसुः स्मृतः शुक्रो देवस्तु विज्ञेयो भार्गवो ऽसुरयाजकः
बृहत्तेजाः स्मृतो देवो देवाचार्यो ऽङ्गिरःसुतः बुधो मनोहरश्चैव ऋषिपुत्रस्तु स स्मृतः
शनैश्चरो विरूपस्तु संज्ञापुत्रो विवस्वतः अग्निर्विकेश्यां जज्ञे तु युवासौ लोहितार्चिषः