यश्चासौ तपते सूर्यः पिबन्नंभो गभस्तिभिः पार्थिवाग्निविमिश्रो ऽसौ दिव्यः शुचिरिति स्मृतः
सहस्रपादसौ वह्निर् वृत्तकुम्भनिभः स्मृतः आदत्ते स तु नाडीनां सहस्रेण समन्ततः
नादेयीश्चैव सामुद्रीः कूपाश्चैव तथा घनाः स्थावरा जङ्गमाश्चैव वापीकुल्यादिका अपः
तस्य रश्मिसहस्रं तच् छीतवर्षोष्णनिःस्रवम् तासां चतुःशता नाड्यो वर्षन्ते चित्रमूर्तयः
भजनाश्चैव माल्याश् च केतनाः पतनास् तथा अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः
हिमोद्वहाश् च ता नाड्यो रश्मयस् त्रिशताः पुनः रेशा मेघाश् च वात्स्याश् च ह्लादिन्यो हिमसर्जनाः
चन्द्रभा नामतः सर्वा पीताभाश् च गभस्तयः शुक्लाश् च ककुभाश्चैव गावो विश्वभृतस् तथा
शुक्लास्ता नामतः सर्वास् त्रिशतीर्घर्मसर्जनाः सोमो बिभर्ति ताभिस्तु मनुष्यपितृदेवताः
मनुष्यानौषधेनेह स्वधया च पितॄनपि अमृतेन सुरान् सर्वांस् तिसृभिस् तर्पयत्यसौ
वसन्ते चैव ग्रीष्मे च शतैः स तपते त्रिभिः वर्षास्वथो शरदि च चतुर्भिः संप्रवर्षति
हेमन्ते शिशिरे चैव हिममुत्सृजते त्रिभिः इन्द्रो धाता भगः पूषा मित्रो ऽथ वरुणो ऽर्यमा
अंशुर् विवस्वांस्त्वष्टा च पर्जन्यो विष्णुरेव च वरुणो माघमासे तु सूर्य एव तु फाल्गुने
चैत्रे मासि भवेदंशुर् धाता वैशाखतापनः ज्येष्ठे मासि भवेदिन्द्र आषाढे चार्यमा रविः
विवस्वान् श्रावणे मासि प्रौष्ठपदे भगः स्मृतः पर्जन्यो ऽश्वयुजे मासि त्वष्टा वै कार्तिके रविः
मार्गशीर्षे भवेन्मित्रः पौषे विष्णुः सनातनः पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्मणि
षड्भिः सहस्रैः पूषा तु देवो ऽंशुः सप्तभिस् तथा धाताष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः
विवस्वान् दशभिर् याति यात्येकादशभिर् भगः सप्तभिस्तपते मित्रस् त्वष्टा चैवाष्टभिः स्मृतः
अर्यमा दशभिर् याति पर्जन्यो नवभिस् तथा षड्भी रश्मिसहस्रैस्तु विष्णुस्तपति मेदिनीम्
वसंते कपिलः सूर्यो ग्रीष्मे काञ्चनसप्रभः श्वेतो वर्षासु वर्णेन पाण्डुः शरदि भास्करः
हेमन्ते ताम्रवर्णस्तु शिशिरे लोहितो रविः इति वर्णाः समाख्याता मया सूर्यसमुद्भवाः
ओषधीषु बलं धत्ते स्वधया च पितृष्वपि सूर्यो ऽमरेष्वप्यमृतं त्रयं त्रिषु नियच्छति
एवं रश्मिसहस्रं तत् सौरं लोकार्थसाधकम् भिद्यते लोकमासाद्य जलशीतोष्णनिःस्रवम्
इत्येतन्मण्डलं शुक्लं भास्वरं सूर्यसंज्ञितम् नक्षत्रग्रहसोमानां प्रतिष्ठायोनिरेव च
चन्द्रऋक्षग्रहाः सर्वे विज्ञेयाः सूर्यसंभवाः नक्षत्राधिपतिः सोमो नयनं वाममीशितुः
नयनं चैवम् ईशस्य दक्षिणं भास्करः स्वयम् तेषां जनानां लोके ऽस्मिन् नयनं नयते यतः
शेषाः पञ्च ग्रहा ज्ञेया ईश्वराः कामचारिणः पठ्यते चाग्निरादित्य उदकं चन्द्रमाः स्मृतः
शेषाणां प्रकृतिं सम्यग् वक्ष्यमाणां निबोधत सुरसेनापतिः स्कन्दः पठ्यते ऽङ्गारको ग्रहः
नारायणं बुधं प्राहुर् देवं ज्ञानविदो जनाः सर्वलोकप्रभुः साक्षाद् यमो लोकप्रभुः स्वयम्
महाग्रहो द्विजश्रेष्ठा मन्दगामी शनैश्चरः देवासुरगुरू द्वौ तु भानुमन्तौ महाग्रहौ
प्रजापतिसुतावुक्तौ ततः शुक्रबृहस्पती आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः