वाचश्रवा मुनिः साक्षात् तथा शुष्मायणिः शुचिः तृणबिन्दुर् मुनी रूक्षः शक्तिः शाक्तेय उत्तरः
जातूकर्ण्यो हरिः साक्षात् कृष्णद्वैपायनो मुनिः व्यासास्त्वेते च शृण्वन्तु कलौ योगेश्वरान् क्रमात्
असंख्याता हि कल्पेषु विभोः सर्वान्तरेषु च कलौ रुद्रावताराणां व्यासानां किल गौरवात्
वैवस्वतान्तरे कल्पे वाराहे ये च तान् पुनः अवतारान् प्रवक्ष्यामि तथा सर्वान्तरेषु वै
मन्वन्तराणि वाराहे वक्तुमर्हसि साम्प्रतम् तथैव चोर्ध्वकल्पेषु सिद्धान्वैवस्वतान्तरे
मनुः स्वायम्भुवस्त्वाद्यस् ततः स्वारोचिषो द्विजाः उत्तमस्तामसश्चैव रैवताश्चाक्षुषस् तथा
वैवस्वतश् च सावर्णिर् धर्मः सावर्णिकः पुनः पिशङ्गश्चापिशङ्गाभः शबलो वर्णकस् तथा
औकारान्ता अकाराद्या मनवः परिकीर्तिताः श्वेतः पाण्डुस् तथा रक्तस् ताम्रः पीतश्च कापिलः
कृष्णः श्यामस् तथा धूम्रः सुधूम्रश् च द्विजोत्तमाः अपिशङ्गः पिशङ्गश् च त्रिवर्णः शबलस् तथा
कालंधुरस्तु कथिता वर्णतो मनवः शुभाः नामतो वर्णतश्चैव वर्णतः पुनरेव च
स्वरात्मानः समाख्याताश् चान्तरेशाः समासतः वैवस्वत ऋकारस्तु मनुः कृष्णः सुरेश्वरः
सप्तमस्तस्य वक्ष्यामि युगावर्तेषु योगिनः समतीतेषु कल्पेषु तथा चानागतेषु वै
वाराहः साम्प्रतं ज्ञेयः सप्तमान्तरतः क्रमात् योगावतारांश् च विभोः शिष्याणां संततिस् तथा
सम्प्रेक्ष्य सर्वकालेषु तथावर्तेषु योगिनाम् आद्ये श्वेतः कलौ रुद्रः सुतारो मदनस् तथा
सुहोत्रः कङ्कणश्चैव लोकाक्षिर् मुनिसत्तमाः जैगीषव्यो महातेजा भगवान् दधिवाहनः
ऋषभश् च मुनिर्धीमान् उग्रश्चात्रिः सुबालकः गौतमश्चाथ भगवान् सर्वदेवनमस्कृतः
वेदशीर्षश् च गोकर्णो गुहावासी शिखण्डभृत् जटामाल्यट्टहासश् च दारुको लाङ्गली तथा
महाकायमुनिः शूली दण्डी मुण्डीश्वरः स्वयम् सहिष्णुः सोमशर्मा च नकुलीशो जगद्गुरुः
वैवस्वते ऽन्तरे सम्यक् प्रोक्ता हि परमात्मनः योगाचार्यावतारा ये सर्वावर्तेषु सुव्रताः
व्यासाश्चैवं मुनिश्रेष्ठा द्वापरे द्वापरे त्विमे योगेश्वराणां चत्वारः शिष्याः प्रत्येकमव्ययाः
श्वेतः श्वेतशिखण्डी च श्वेताश्वः श्वेतलोहितः दुन्दुभिः शतरूपश् च ऋचीकः केतुमांस् तथा
विशोकश्च विकेशश् च विपाशः पापनाशनः सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः
सनकश् च सनन्दश् च प्रभुर्यश् च सनातनः ऋभुः सनत्कुमारश् च सुधामा विरजास् तथा
शङ्खपाद् वैरजश्चैव मेघः सारस्वतस् तथा सुवाहनो मुनिश्रेष्ठो मेघवाहो महाद्युतिः
कपिलश्चासुरिश्चैव तथा पञ्चशिखो मुनिः वाल्कलश् च महायोगी धर्मात्मानो महौजसः
पराशरश् च गर्गश् च भार्गवश्चाङ्गिरास् तथा बलबन्धुर् निरामित्रः केतुशृङ्गस्तपोधनः
लम्बोदरश् च लम्बश्च लम्बाक्षो लम्बकेशकः सर्वज्ञः समबुद्धिश् च साध्यः सर्वस्तथैव च
सुधामा काश्यपश्चैव वासिष्ठो विरजास् तथा अत्रिर् देवसदश्चैव श्रवणो ऽथ श्रविष्ठकः कुणिश् च कुणिबाहुश् च कुशरीरः कुनेत्रकः
कश्यपो ऽप्युशनाश्चैव च्यवनो ऽथ बृहस्पतिः उतथ्यो वामदेवश् च महायोगो महाबलः
वाचश्रवाः सुधीकश्च श्यावाश्वश् च यतीश्वरः हिरण्यनाभः कौशल्यो लोगाक्षिः कुथुमिस् तथा