एतच्छ्रुत्वा तु मुनयः पुनस्तं संशयान्विताः पप्रच्छुरुत्तरं भूयस् तदा ते रोमहर्षणम्
यदेतदुक्तं भवता सूतेह वदतां वर एतद्विस्तरतो ब्रूहि ज्योतिषां च विनिर्णयम्
श्रुत्वा तु वचनं तेषां तदा सूतः समाहितः उवाच परमं वाक्यं तेषां संशयनिर्णये
अस्मिन्नर्थे महाप्राज्ञैर् यदुक्तं शान्तबुद्धिभिः एतद्वो ऽहं प्रवक्ष्यामि सूर्यचन्द्रमसोर्गतिम्
यथा देवगृहाणीह सूर्यचन्द्रादयो ग्रहाः अतः परं तु त्रिविधम् अग्नेर्वक्ष्ये समुद्भवम्
दिव्यस्य भौतिकस्याग्नेर् अथो ऽग्नेः पार्थिवस्य च व्युष्टायां तु रजन्यां च ब्रह्मणो ऽव्यक्तजन्मनः
अव्याकृतमिदं त्वासीन् नैशेन तमसा वृतम् चतुर्भागावशिष्टे ऽस्मिन् लोके नष्टे विशेषतः
स्वयंभूर्भगवांस्तत्र लोकसर्वार्थसाधकः खद्योतवत्स व्यचरद् आविर्भावचिकीर्षया
सो ऽग्निं सृष्ट्वाथ लोकादौ पृथिवीजलसंश्रितः संहृत्य तत्प्रकाशार्थं त्रिधा व्यभजदीश्वरः
पवनो यस्तु लोके ऽस्मिन् पार्थिवो वह्निरुच्यते यश्चासौ लोकादौ सूर्ये शुचिरग्निस्तु स स्मृतः
वैद्युतो ऽब्जस्तु विज्ञेयस् तेषां वक्ष्ये तु लक्षणम् वैद्युतो जाठरः सौरो वारिगर्भास्त्रयो ऽग्नयः
तस्मादपः पिबन्सूर्यो गोभिर् दीप्यत्यसौ विभुः जले चाब्जः समाविष्टो नाद्भिर् अग्निः प्रशाम्यति
मानवानां च कुक्षिस्थो नाग्निः शाम्यति पावकः अर्चिष्मान्पवनः सो ऽग्निर् निष्प्रभो जाठरः स्मृतः
यश्चायं मण्डली शुक्ली निरूष्मा सम्प्रजायते प्रभा सौरी तु पादेन ह्य् अस्तं याते दिवाकरे
अग्निमाविशते रात्रौ तस्माद्दूरात्प्रकाशते उद्यन्तं च पुनः सूर्यम् औष्ण्यम् अग्नेः समाविशेत्
पादेन पार्थिवस्याग्नेस् तस्मादग्निस्तपत्यसौ प्रकाशोष्णस्वरूपे च सौराग्नेये तु तेजसी
परस्परानुप्रवेशाद् आप्यायेते परस्परम् उत्तरे चैव भूम्यर्धे तथा ह्यग्निश् च दक्षिणे
उत्तिष्ठति पुनः सूर्यः पुनर्वै प्रविशत्य् अपः तस्मात्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात्
अस्तं याति पुनः सूर्यो ऽहर्वै प्रविशत्य् अपः तस्मान्नक्तं पुनः शुक्ला आपो दृश्यन्ति भास्वराः
एतेन क्रमयोगेन भूम्यर्धे दक्षिणोत्तरे उदयास्तमने नित्यम् अहोरात्रं विशत्य् अपः
यश्चासौ तपते सूर्यः पिबन्नंभो गभस्तिभिः पार्थिवाग्निविमिश्रो ऽसौ दिव्यः शुचिरिति स्मृतः
सहस्रपादसौ वह्निर् वृत्तकुम्भनिभः स्मृतः आदत्ते स तु नाडीनां सहस्रेण समन्ततः
नादेयीश्चैव सामुद्रीः कूपाश्चैव तथा घनाः स्थावरा जङ्गमाश्चैव वापीकुल्यादिका अपः
तस्य रश्मिसहस्रं तच् छीतवर्षोष्णनिःस्रवम् तासां चतुःशता नाड्यो वर्षन्ते चित्रमूर्तयः
भजनाश्चैव माल्याश् च केतनाः पतनास् तथा अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः
हिमोद्वहाश् च ता नाड्यो रश्मयस् त्रिशताः पुनः रेशा मेघाश् च वात्स्याश् च ह्लादिन्यो हिमसर्जनाः
चन्द्रभा नामतः सर्वा पीताभाश् च गभस्तयः शुक्लाश् च ककुभाश्चैव गावो विश्वभृतस् तथा
शुक्लास्ता नामतः सर्वास् त्रिशतीर्घर्मसर्जनाः सोमो बिभर्ति ताभिस्तु मनुष्यपितृदेवताः
मनुष्यानौषधेनेह स्वधया च पितॄनपि अमृतेन सुरान् सर्वांस् तिसृभिस् तर्पयत्यसौ
वसन्ते चैव ग्रीष्मे च शतैः स तपते त्रिभिः वर्षास्वथो शरदि च चतुर्भिः संप्रवर्षति