एवं संक्षिप्य कथितं ग्रहाणां गमनं द्विजाः भास्करप्रमुखानां च यथादृष्टं यथाश्रुतम्
ग्रहाधिपत्ये भगवान् ब्रह्मणा पद्मयोनिना अभिषिक्तः सहस्रांशू रुद्रेण तु यथा गुहः
तस्माद्ग्रहार्चना कार्या अग्नौ चोद्यं यथाविधि आदित्यग्रहपीडायां सद्भिः कार्यार्थसिद्धये
अभ्यषिञ्चत्कथं ब्रह्मा चाधिपत्ये प्रजापतिः देवदैत्यमुखान् सर्वान् सर्वात्मा वद सांप्रतम्
ग्रहाधिपत्ये भगवान् अभ्यषिञ्चद्दिवाकरम् ऋक्षाणामोषधीनां च सोमं ब्रह्मा प्रजापतिः
अपां च वरुणं देवं धनानां यक्षपुङ्गवम् आदित्यानां तथा विष्णुं वसूनां पावकं तथा
प्रजापतीनां दक्षं च मरुतां शक्रमेव च दैत्यानां दानवानां च प्रह्लादं दैत्यपुङ्गवम्
धर्मं पितॄणाम् अधिपं निरृतिं पिशिताशिनाम् रुद्रं पशूनां भूतानां नन्दिनं गणनायकम्
वीराणां वीरभद्रं च पिशाचानां भयंकरम् मातॄणां चैव चामुण्डां सर्वदेवनमस्कृताम्
रुद्राणां देवदेवेशं नीललोहितमीश्वरम् विघ्नानां व्योमजं देवं गजास्यं तु विनायकम्
स्त्रीणां देवीमुमां देवीं वचसां च सरस्वतीम् विष्णुं मायाविनां चैव स्वात्मानं जगतां तथा
हिमवन्तं गिरीणां तु नदीनां चैव जाह्नवीम् समुद्राणां च सर्वेषाम् अधिपं पयसां निधिम्
वृक्षाणां चैव चाश्वत्थं प्लक्षं च प्रपितामहः
गन्धर्वविद्याधरकिन्नराणाम् ईशं पुनश् चित्ररथं चकार नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमुग्रवीर्यम्
सुपर्णमीशं पततामथाश्वराजानमुच्चैःश्रवसं चकार
सिंहं मृगाणां वृषभं गवां च मृगाधिपानां शरभं चकार सेनाधिपानां गुहमप्रमेयं श्रुतिस्मृतीनां लकुलीशमीशम्
अभ्यषिञ्चत्सुधर्माणं तथा शङ्खपदं दिशाम् केतुमन्तं क्रमेणैव हेमरोमाणमेव च
पृथिव्यां पृथुमीशानं सर्वेषां तु महेश्वरम् चतुर्मूर्तिषु सर्वज्ञं शङ्करं वृषभध्वजम्
प्रसादाद्भगवाञ्छम्भोश् चाभ्यषिञ्चद्यथाक्रमम् पुराभिषिच्य पुण्यात्मा रराज भुवनेश्वरः
एतद्वो विस्तरेणैव कथितं मुनिपुङ्गवाः अभिषिक्तास्ततस्त्वेते विशिष्टा विश्वयोनिना
एतच्छ्रुत्वा तु मुनयः पुनस्तं संशयान्विताः पप्रच्छुरुत्तरं भूयस् तदा ते रोमहर्षणम्
यदेतदुक्तं भवता सूतेह वदतां वर एतद्विस्तरतो ब्रूहि ज्योतिषां च विनिर्णयम्
श्रुत्वा तु वचनं तेषां तदा सूतः समाहितः उवाच परमं वाक्यं तेषां संशयनिर्णये
अस्मिन्नर्थे महाप्राज्ञैर् यदुक्तं शान्तबुद्धिभिः एतद्वो ऽहं प्रवक्ष्यामि सूर्यचन्द्रमसोर्गतिम्
यथा देवगृहाणीह सूर्यचन्द्रादयो ग्रहाः अतः परं तु त्रिविधम् अग्नेर्वक्ष्ये समुद्भवम्
दिव्यस्य भौतिकस्याग्नेर् अथो ऽग्नेः पार्थिवस्य च व्युष्टायां तु रजन्यां च ब्रह्मणो ऽव्यक्तजन्मनः
अव्याकृतमिदं त्वासीन् नैशेन तमसा वृतम् चतुर्भागावशिष्टे ऽस्मिन् लोके नष्टे विशेषतः
स्वयंभूर्भगवांस्तत्र लोकसर्वार्थसाधकः खद्योतवत्स व्यचरद् आविर्भावचिकीर्षया
सो ऽग्निं सृष्ट्वाथ लोकादौ पृथिवीजलसंश्रितः संहृत्य तत्प्रकाशार्थं त्रिधा व्यभजदीश्वरः
पवनो यस्तु लोके ऽस्मिन् पार्थिवो वह्निरुच्यते यश्चासौ लोकादौ सूर्ये शुचिरग्निस्तु स स्मृतः