अलातचक्रवद्यान्ति वातचक्रेरितानि तु यस्माद्वहति ज्योतींषि प्रवहस्तेन स स्मृतः
नक्षत्रसूर्याश् च तथा ग्रहतारागणैः सह उन्मुखाभिमुखाः सर्वे चक्रभूताः श्रिता दिवि
ध्रुवेणाधिष्ठिताश्चैव ध्रुवमेव प्रदक्षिणम् प्रयान्ति चेश्वरं द्रष्टुं मेढीभूतं ध्रुवं दिवि
नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः त्रिगुणस्तस्य विस्तारो मण्डलस्य प्रमाणतः
द्विगुणः सूर्यविस्ताराद् विस्तारः शशिनः स्मृतः तुल्यस्तयोस्तु स्वर्भानुर् भूत्वाधस्तात्प्रसर्पति
उद्धृत्य पृथिवीछायां निर्मितां मण्डलाकृतिम् स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत् तमोमयम्
चन्द्रस्य षोडशो भागो भार्गवस्य विधीयते विष्कम्भान्मण्डलाच्चैव योजनाच्च प्रमाणतः
भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः पादहीनौ वक्रसौरी तथायामप्रमाणतः
विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै
बुधेन तानि तुल्यानि विस्तारान्मण्डलादपि प्रायशश्चन्द्रयोगीनि विद्यादृक्षाणि तत्त्ववित्
तारानक्षत्ररूपाणि हीनानि तु परस्परम् शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने
सर्वोपरि निकृष्टानि तारकामण्डलानि तु योजनद्वयमात्राणि तेभ्यो ह्रस्वं न विद्यते
उपरिष्टात्त्रयस्तेषां ग्रहा ये दूरसर्पिणः सौरो ऽङ्गिराश् च वक्रश् च ज्ञेया मन्दविचारिणः
तेभ्यो ऽधस्तात्तु चत्वारः पुनरन्ये महाग्रहाः सूर्यः सोमो बुधश्चैव भार्गवश्चैव शीघ्रगाः
तावन्त्यस्तारकाः कोट्यो यावन्त्यृक्षाणि सर्वशः ध्रुवात् तु नियमाच्चैषाम् ऋक्षमार्गे व्यवस्थितिः
सप्ताश्वस्यैव सूर्यस्य नीचोच्चत्वमनुक्रमात् उत्तरायणमार्गस्थो यदा पर्वसु चन्द्रमाः
उच्चत्वाद्दृश्यते शीघ्रं नातिव्यक्तैर्गभस्तिभिः तदा दक्षिणमार्गस्थो नीचां वीथिमुपाश्रितः
भूमिरेखावृतः सूर्यः पौर्णिमावास्ययोस् तदा ददृशे च यथाकालं शीघ्रमस्तमुपैति च
तस्मादुत्तरमार्गस्थो ह्य् अमावास्यां निशाकरः ददृशे दक्षिणे मार्गे नियमाद्दृश्यते न च
ज्योतिषां गतियोगेन सूर्यस्य तमसा वृतः समानकालास्तमयौ विषुवत्सु समोदयौ
उत्तरासु च वीथीषु व्यन्तरास्तमनोदयौ पौर्णिमावास्ययोर् ज्ञेयौ ज्योतिश्चक्रानुवर्तिनौ
दक्षिणायनमार्गस्थो यदा चरति रश्मिवान् ग्रहाणां चैव सर्वेषां सूर्यो ऽधस्तात् प्रसर्पति
विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं चरते शशी नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति
नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं तु भार्गवः वक्रस्तु भार्गवादूर्ध्वं वक्राद् ऊर्ध्वं बृहस्पतिः
तस्माच्छनैश्चरश्चोर्ध्वं तस्मात्सप्तर्षिमण्डलम् ऋषीणां चैव सप्तानां ध्रुवस्योर्ध्वं व्यवस्थितिः
तं विष्णुलोकं परमं ज्ञात्वा मुच्येत किल्बिषात् द्विगुणेषु सहस्रेषु योजनानां शतेषु च
ग्रहनक्षत्रतारासु उपरिष्टाद्यथाक्रमम् ग्रहाश् च चन्द्रसूर्यौ च युतौ दिव्येन तेजसा
नित्यमृक्षेषु युज्यन्ते गच्छन्तो ऽहर्निशं क्रमात् ग्रहनक्षत्रसूर्यास् ते नीचोच्चऋजुसंस्थिताः
समागमे च भेदे च पश्यन्ति युगपत्प्रजाः ऋतवः षट् स्मृताः सर्वे समागच्छन्ति पञ्चधा
परस्परास्थिता ह्येते युज्यन्ते च परस्परम् असंकरेण विज्ञेयस् तेषां योगस्तु वै बुधैः