स्थानाभिमानिनाम् एतत् स्थानं मन्वन्तरेषु वै अतीतानागतानां वै वर्तन्ते सांप्रतं च ये
एते वसन्ति वै सूर्ये सप्तकास्ते चतुर्दश चतुर्दशसु सर्वेषु गणा मन्वन्तरेष्विह
संक्षेपाद्विस्तराच्चैव यथावृत्तं यथाश्रुतम् कथितं मुनिशार्दूला देवदेवस्य धीमतः
एते देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः
इत्येष एकचक्रेण सूर्यस्तूर्णं रथेन तु हरितैरक्षरैरश्वैः सर्पते ऽसौ दिवाकरः
अहोरात्रं रथेनासाव् एकचक्रेण तु भ्रमन् सप्तद्वीपसमुद्राङ्गां सप्तभिः सर्पते दिवि
वीथ्याश्रयाणि चरति नक्षत्राणि निशाकरः त्रिचक्रोभयतो ऽश्वश् च विज्ञेयस्तस्य वै रथः
शतारैश् च त्रिभिश्चक्रैर् युक्तः शुक्लैर्हयोत्तमैः दशभिस्त्वकृशैर् दिव्यैर् असंगैस् तैर् मनोजवैः
रथेनानेन देवैश् च पितृभिश्चैव गच्छति सोमो ह्यम्बुमयैर् गोभिः शुक्लैः शुक्लगभस्तिमान्
क्रमते शुक्लपक्षादौ भास्करात्परमास्थितः आपूर्यते परस्यान्तः सततं दिवसक्रमात्
देवैः पीतं क्षये सोमम् आप्याययति नित्यशः पीतं पञ्चदशाहं तु रश्मिनैकेन भास्करः
आपूरयन् सुषुम्नेन भागं भागमनुक्रमात् इत्येषा सूर्यवीर्येण चन्द्रस्याप्यायिता तनुः
स पौर्णमास्यां दृश्येत शुक्लः सम्पूर्णमण्डलः एवमाप्यायितं सोमं शुक्लपक्षे दिनक्रमात्
ततो द्वितीयाप्रभृति बहुलस्य चतुर्दशीम् पिबन्त्यम्बुमयं देवा मधु सौम्यं सुधामृतम्
संभृतं त्वर्धमासेन ह्य् अमृतं सूर्यतेजसा पानार्थममृतं सोमं पौर्णमास्यामुपासते
एकरात्रिं सुराः सर्वे पितृभिस्त्वृषिभिः सह सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य च
प्रक्षीयन्ते परस्यान्तः पीयमानाः कलाः क्रमात् त्रयस्त्रिंशच्छताश्चैव त्रयस्त्रिंशत्तथैव च
त्रयस्त्रिंशत्सहस्राणि देवाः सोमं पिबन्ति वै एवं दिनक्रमात्पीते विबुधैस्तु निशाकरे
पीत्वार्धमासं गच्छन्ति अमावास्यां सुरोत्तमाः पितरश्चोपतिष्ठन्ति अमावास्यां निशाकरम्
ततः पञ्चदशे भागे किंचिच्छिष्टे कलात्मके अपराह्णे पितृगणा जघन्यं पर्युपासते
पिबन्ति द्विकलं कालं शिष्टा तस्य कला तु या निसृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम्
मासतृप्तिमवाप्याग्र्यां पीत्वा गच्छन्ति ते ऽमृतम् पितृभिः पीयमानस्य पञ्चदश्यां कला तु या
यावत्तु क्षीयते तस्य भागः पञ्चदशस्तु सः अमावास्यां ततस्तस्या अन्तरा पूर्यते पुनः
वृद्धिक्षयौ वै पक्षादौ षोडश्यां शशिनः स्मृतौ एवं सूर्यनिमित्तैषा पक्षवृद्धिर्निशाकरे
अष्टभिश् च हयैर्युक्तः सोमपुत्रस्य वै रथः वारितेजोमयश्चाथ पिशङ्गैश्चैव शोभनैः
दशभिश्चाकृशैरश्वैर् नानावर्णै रथः स्मृतः शुक्रस्य क्ष्मामयैर्युक्तो दैत्याचार्यस्य धीमतः
अष्टाश्वश्चाथ भौमस्य रथो हैमः सुशोभनः जीवस्य हैमश्चाष्टाश्वो मन्दस्यायसनिर्मितः
रथ आपोमयैरश्वैर् दशभिस्तु सितेतरैः स्वर्भानोर्भास्करारेश् च तथा चाष्टहयः स्मृतः
सर्वे ध्रुवनिबद्धा वै ग्रहास्ते वातरश्मिभिः एतेन भ्राम्यमाणाश् च यथायोगं व्रजन्ति वै
यावन्त्यश्चैव ताराश् च तावन्तश्चैव रश्मयः सर्वे ध्रुवनिबद्धाश् च भ्रमन्तो भ्रामयन्ति तम्