सूर्यमाप्याययन्त्येते तेजसा तेज उत्तमम् ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ति मुनयो रविम्
गन्धर्वाप्सरसश्चैव नृत्यगेयैरुपासते ग्रामणीयक्षभूतानि कुर्वते ऽभीषुसंग्रहम्
सर्पा वहन्ति वै सूर्यं यातुधाना अनुयान्ति वै वालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम्
एतेषामेव देवानां यथा तेजो यथा तपः यथायोगं यथामन्त्रं यथाधर्मं यथाबलम्
तथा तपत्यसौ सूर्यस् तेषामिद्धस्तु तेजसा इत्येते वै वसन्तीह द्वौ द्वौ मासौ दिवाकरे
ऋषयो देवगन्धर्वपन्नगाप्सरसां गणाः ग्रामण्यश् च तथा यक्षा यातुधानाश् च मुख्यतः
एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च भूतानामशुभं कर्म व्यपोहन्तीह कीर्तिताः
मानवानां शुभं ह्येते हरन्ति च दुरात्मनाम् दुरितं सुप्रचाराणां व्यपोहन्ति क्वचित् क्वचित्
विमाने च स्थिता दिव्ये कामगे वातरंहसि एते सहैव सूर्येण भ्रमन्ति दिवसानुगाः
वर्षन्तश् च तपन्तश् च ह्लादयन्तश् च वै द्विजाः गोपायन्तीह भूतानि सर्वाणि द्यामनुक्षयात्
स्थानाभिमानिनाम् एतत् स्थानं मन्वन्तरेषु वै अतीतानागतानां वै वर्तन्ते सांप्रतं च ये
एते वसन्ति वै सूर्ये सप्तकास्ते चतुर्दश चतुर्दशसु सर्वेषु गणा मन्वन्तरेष्विह
संक्षेपाद्विस्तराच्चैव यथावृत्तं यथाश्रुतम् कथितं मुनिशार्दूला देवदेवस्य धीमतः
एते देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः
इत्येष एकचक्रेण सूर्यस्तूर्णं रथेन तु हरितैरक्षरैरश्वैः सर्पते ऽसौ दिवाकरः
अहोरात्रं रथेनासाव् एकचक्रेण तु भ्रमन् सप्तद्वीपसमुद्राङ्गां सप्तभिः सर्पते दिवि
वीथ्याश्रयाणि चरति नक्षत्राणि निशाकरः त्रिचक्रोभयतो ऽश्वश् च विज्ञेयस्तस्य वै रथः
शतारैश् च त्रिभिश्चक्रैर् युक्तः शुक्लैर्हयोत्तमैः दशभिस्त्वकृशैर् दिव्यैर् असंगैस् तैर् मनोजवैः
रथेनानेन देवैश् च पितृभिश्चैव गच्छति सोमो ह्यम्बुमयैर् गोभिः शुक्लैः शुक्लगभस्तिमान्
क्रमते शुक्लपक्षादौ भास्करात्परमास्थितः आपूर्यते परस्यान्तः सततं दिवसक्रमात्
देवैः पीतं क्षये सोमम् आप्याययति नित्यशः पीतं पञ्चदशाहं तु रश्मिनैकेन भास्करः
आपूरयन् सुषुम्नेन भागं भागमनुक्रमात् इत्येषा सूर्यवीर्येण चन्द्रस्याप्यायिता तनुः
स पौर्णमास्यां दृश्येत शुक्लः सम्पूर्णमण्डलः एवमाप्यायितं सोमं शुक्लपक्षे दिनक्रमात्
ततो द्वितीयाप्रभृति बहुलस्य चतुर्दशीम् पिबन्त्यम्बुमयं देवा मधु सौम्यं सुधामृतम्
संभृतं त्वर्धमासेन ह्य् अमृतं सूर्यतेजसा पानार्थममृतं सोमं पौर्णमास्यामुपासते
एकरात्रिं सुराः सर्वे पितृभिस्त्वृषिभिः सह सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य च
प्रक्षीयन्ते परस्यान्तः पीयमानाः कलाः क्रमात् त्रयस्त्रिंशच्छताश्चैव त्रयस्त्रिंशत्तथैव च
त्रयस्त्रिंशत्सहस्राणि देवाः सोमं पिबन्ति वै एवं दिनक्रमात्पीते विबुधैस्तु निशाकरे
पीत्वार्धमासं गच्छन्ति अमावास्यां सुरोत्तमाः पितरश्चोपतिष्ठन्ति अमावास्यां निशाकरम्
ततः पञ्चदशे भागे किंचिच्छिष्टे कलात्मके अपराह्णे पितृगणा जघन्यं पर्युपासते