कृतस्थलाप्सराश्चैव तथा वै पुञ्जिकस्थला ग्रामणी रथकृच्चैव रथौजाश्चैव तावुभौ
रक्षोहेतिः प्रहेतिश् च यातुधानावुदाहृतौ मधुमाधवयोरेष गणो वसति भास्करे
वसन्ति ग्रीष्मकौ मासौ मित्रश् च वरुणश् च ह ऋषिरत्रिर्वसिष्ठश् च तक्षको नाग एव च
मेनका सहजन्या च गन्धर्वौ च हाहाहूहूः सुबाहुनामा ग्रामण्यौ रथचित्रश् च तावुभौ
पौरुषेयो वधश्चैव यातुधानावुदाहृतौ एते वसन्ति वै सूर्ये मासयोः शुचिशुक्रयोः
ततः सूर्ये पुनश्चान्या निवसन्तीह देवताः इन्द्रश्चैव विवस्वांश् च अङ्गिरा भृगुरेव च
एलापत्रस् तथा सर्पः शङ्खपालश् च तावुभौ विश्वावसूग्रसेनौ च वरुणश् च रथस्वनः
प्रम्लोचा चैव विख्याता अनुम्लोचा च ते उभे यातुधानास् तथा सर्पो व्याघ्रश्चैव तु तावुभौ
नभोनभस्ययोरेष गणो वसति भास्करे पर्जन्यश्चैव पूषा च भरद्वाजो ऽथ गौतमः
धनञ्जय इरावांश् च सुरुचिः सपरावसुः घृताची चाप्सरःश्रेष्ठा विश्वाची चातिशोभना
सेनजिच्च सुषेणश् च सेनानीर् ग्रामणीश् च तौ आपो वातश् च तावेतौ यातुधानावुभौ स्मृतौ
वसन्त्येते तु वै सूर्ये मास ऊर्ज इषे च ह हैमन्तिकौ तु द्वौ मासौ वसन्ति च दिवाकरे
अंशुर्भगश् च द्वावेतौ कश्यपश् च क्रतुः सह भुजङ्गश् च महापद्मः सर्पः कर्कोटकस् तथा
चित्रसेनश् च गन्धर्व ऊर्णायुश्चैव तावुभौ उर्वशी पूर्वचित्तिश् च तथैवाप्सरसावुभे
तार्क्ष्यश्चारिष्टनेमिश् च सेनानीर् ग्रामणीश् च तौ विद्युद्दिवाकरश्चोभौ यातुधानावुदाहृतौ
सहे चैव सहस्ये च वसन्त्येते दिवाकरे ततः शैशिरयोश्चापि मासयोर् निवसन्ति वै
त्वष्टा विष्णुर्जमदग्निर् विश्वामित्रस्तथैव च काद्रवेयौ तथा नागौ कम्बलाश्वतरावुभौ
धृतराष्ट्रः सगन्धर्वः सूर्यवर्चास्तथैव च तिलोत्तमाप्सराश्चैव देवी रंभा मनोहरा
रथजित्सत्यजिच्चैव ग्रामण्यौ लोकविश्रुतौ ब्रह्मोपेतस् तथा रक्षो यज्ञोपेतश् च यः स्मृतः
एते देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः
सूर्यमाप्याययन्त्येते तेजसा तेज उत्तमम् ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ति मुनयो रविम्
गन्धर्वाप्सरसश्चैव नृत्यगेयैरुपासते ग्रामणीयक्षभूतानि कुर्वते ऽभीषुसंग्रहम्
सर्पा वहन्ति वै सूर्यं यातुधाना अनुयान्ति वै वालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम्
एतेषामेव देवानां यथा तेजो यथा तपः यथायोगं यथामन्त्रं यथाधर्मं यथाबलम्
तथा तपत्यसौ सूर्यस् तेषामिद्धस्तु तेजसा इत्येते वै वसन्तीह द्वौ द्वौ मासौ दिवाकरे
ऋषयो देवगन्धर्वपन्नगाप्सरसां गणाः ग्रामण्यश् च तथा यक्षा यातुधानाश् च मुख्यतः
एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च भूतानामशुभं कर्म व्यपोहन्तीह कीर्तिताः
मानवानां शुभं ह्येते हरन्ति च दुरात्मनाम् दुरितं सुप्रचाराणां व्यपोहन्ति क्वचित् क्वचित्
विमाने च स्थिता दिव्ये कामगे वातरंहसि एते सहैव सूर्येण भ्रमन्ति दिवसानुगाः
वर्षन्तश् च तपन्तश् च ह्लादयन्तश् च वै द्विजाः गोपायन्तीह भूतानि सर्वाणि द्यामनुक्षयात्