ब्रह्मोपेतश् च रक्षेन्द्रो यज्ञोपेतस्तथैव च एते देवादयः सर्वे वसन्त्यर्के क्रमेण तु
स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः धात्रादिविष्णुपर्यन्ता देवा द्वादश कीर्तिताः
आदित्यं परमं भानुं भाभिराप्याययन्ति ते पुलस्त्याद्याः कौशिकान्ता मुनयो मुनिसत्तमाः
द्वादशैव स्तवैर्भानुं स्तुवन्ति च यथाक्रमम् नागाश्चाश्वतरान्तास्तु वासुकिप्रमुखाः शुभाः
द्वादशैव महादेवं वहन्त्येवं यथाक्रमम् क्रमेण सूर्यवर्चान्तास् तुम्बुरुप्रमुखाम्बुपम्
गीतैरेनमुपासन्ते गन्धर्वा द्वादशोत्तमाः कृतस्थलाद्या रंभान्ता दिव्याश्चाप्सरसो रविम्
ताण्डवैः सरसैः सर्वाश् चोपासन्ते यथाक्रमम् दिव्याः सत्यजिदन्ताश् च ग्रामण्यो रथकृन्मुखाः
द्वादशास्य क्रमेणैव कुर्वते ऽभीषुसंग्रहम् प्रयान्ति यज्ञोपेतान्ता रक्षोहेतिमुखाः सह
सायुधा द्वादशैवैते राक्षसाश्च यथाक्रमम् धातार्यमा पुलस्त्यश् च पुलहश् च प्रजापतिः
उरगो वासुकिश्चैव कङ्कणीकश् च तावुभौ तुम्बुरुर् नारदश्चैव गन्धर्वौ गायतां वरौ
कृतस्थलाप्सराश्चैव तथा वै पुञ्जिकस्थला ग्रामणी रथकृच्चैव रथौजाश्चैव तावुभौ
रक्षोहेतिः प्रहेतिश् च यातुधानावुदाहृतौ मधुमाधवयोरेष गणो वसति भास्करे
वसन्ति ग्रीष्मकौ मासौ मित्रश् च वरुणश् च ह ऋषिरत्रिर्वसिष्ठश् च तक्षको नाग एव च
मेनका सहजन्या च गन्धर्वौ च हाहाहूहूः सुबाहुनामा ग्रामण्यौ रथचित्रश् च तावुभौ
पौरुषेयो वधश्चैव यातुधानावुदाहृतौ एते वसन्ति वै सूर्ये मासयोः शुचिशुक्रयोः
ततः सूर्ये पुनश्चान्या निवसन्तीह देवताः इन्द्रश्चैव विवस्वांश् च अङ्गिरा भृगुरेव च
एलापत्रस् तथा सर्पः शङ्खपालश् च तावुभौ विश्वावसूग्रसेनौ च वरुणश् च रथस्वनः
प्रम्लोचा चैव विख्याता अनुम्लोचा च ते उभे यातुधानास् तथा सर्पो व्याघ्रश्चैव तु तावुभौ
नभोनभस्ययोरेष गणो वसति भास्करे पर्जन्यश्चैव पूषा च भरद्वाजो ऽथ गौतमः
धनञ्जय इरावांश् च सुरुचिः सपरावसुः घृताची चाप्सरःश्रेष्ठा विश्वाची चातिशोभना
सेनजिच्च सुषेणश् च सेनानीर् ग्रामणीश् च तौ आपो वातश् च तावेतौ यातुधानावुभौ स्मृतौ
वसन्त्येते तु वै सूर्ये मास ऊर्ज इषे च ह हैमन्तिकौ तु द्वौ मासौ वसन्ति च दिवाकरे
अंशुर्भगश् च द्वावेतौ कश्यपश् च क्रतुः सह भुजङ्गश् च महापद्मः सर्पः कर्कोटकस् तथा
चित्रसेनश् च गन्धर्व ऊर्णायुश्चैव तावुभौ उर्वशी पूर्वचित्तिश् च तथैवाप्सरसावुभे
तार्क्ष्यश्चारिष्टनेमिश् च सेनानीर् ग्रामणीश् च तौ विद्युद्दिवाकरश्चोभौ यातुधानावुदाहृतौ
सहे चैव सहस्ये च वसन्त्येते दिवाकरे ततः शैशिरयोश्चापि मासयोर् निवसन्ति वै
त्वष्टा विष्णुर्जमदग्निर् विश्वामित्रस्तथैव च काद्रवेयौ तथा नागौ कम्बलाश्वतरावुभौ
धृतराष्ट्रः सगन्धर्वः सूर्यवर्चास्तथैव च तिलोत्तमाप्सराश्चैव देवी रंभा मनोहरा
रथजित्सत्यजिच्चैव ग्रामण्यौ लोकविश्रुतौ ब्रह्मोपेतस् तथा रक्षो यज्ञोपेतश् च यः स्मृतः
एते देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः