अक्षः सहैकचक्रेण भ्रमते ऽसौ ध्रुवेरितः प्रेरको ज्योतिषां धीमान् ध्रुवो वै वातरश्मिभिः
युगाक्षकोटिसम्बद्धौ द्वौ रश्मी स्यन्दनस्य तु ध्रुवेण भ्रमते रश्मिनिबद्धः स युगाक्षयोः
भ्रमतो मण्डलानि स्युः खेचरस्य रथस्य तु युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य हि
ध्रुवेण प्रगृहीते वै विचक्राश्वे च रज्जुभिः भ्रमन्तमनुगच्छन्ति ध्रुवं रश्मी च तावुभौ
युगाक्षकोटिस्त्वेतस्य वातोर्मिस्यन्दनस्य तु कीले सक्ता यथा रज्जुर् भ्रमते सर्वतोदिशम्
भ्राम्यतस्तस्य रश्मी तु मण्डलेषूत्तरायणे वर्धेते दक्षिणे चैव भ्रमता मण्डलानि तु
आकृष्येते यदा ते वै ध्रुवेणाधिष्ठिते तदा आभ्यन्तरस्थः सूर्यो ऽथ भ्रमते मण्डलानि तु
अशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः ध्रुवेण मुच्यमानाभ्यां रश्मिभ्यां पुनरेव तु
तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि तु उद्वेष्टयन् स वेगेन मण्डलानि तु गच्छति
देवाश्चैव तथा नित्यं मुनयश् च दिवानिशम् यजन्ति सततं देवं भास्करं भवमीश्वरम्
सरथो ऽधिष्ठितो देवैर् आदित्यैर्मुनिभिस् तथा गन्धर्वैरप्सरोभिश् च ग्रामणीसर्पराक्षसैः
एते वसन्ति वै सूर्ये द्वौ द्वौ मासौ क्रमेण तु आप्याययन्ति चादित्यं तेजोभिर् भास्करं शिवम्
ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ति मुनयो रविम् गन्धर्वाप्सरसश्चैव नृत्यगेयैरुपासते
ग्रामणीयक्षभूतानि कुर्वते ऽभीषुसंग्रहम् सर्पा वहन्ति वै सूर्यं यातुधाना अनुयान्ति च
वालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम् इत्येते वै वसन्तीह द्वौ द्वौ मासौ दिवाकरे
मधुश् च माधवश्चैव शुक्रश् च शुचिरेव च नभोनभस्यौ विप्रेन्द्रा इषश्चोर्जस्तथैव च
सहःसहस्यौ च तथा तपस्यश् च तपः पुनः एते द्वादश मासास्तु वर्षं वै मानुषं द्विजाः
वासन्तिकस् तथा ग्रैष्मः शुभो वै वार्षिकस् तथा शारदश् च हिमश्चैव शैशिर ऋतवः स्मृताः
धातार्यमाथ मित्रश् च वरुणश्चेन्द्र एव च विवस्वांश्चैव पूषा च पर्जन्यो ऽंशुर् भगस् तथा
त्वष्टा विष्णुः पुलस्त्यश् च पुलहश्चात्रिरेव च वसिष्ठश्चाङ्गिराश्चैव भृगुर्बुद्धिमतां वरः
भारद्वाजो गौतमश् च कश्यपश् च क्रतुस् तथा जमदग्निः कौशिकश् च वासुकिः कङ्कणीकरः
तक्षकश् च तथा नाग एलापत्रस् तथा द्विजाः शङ्खपालस् तथा चान्यस् त्व् ऐरावत इति स्मृतः
धनञ्जयो महापद्मस् तथा कर्कोटकः स्मृतः कम्बलो ऽश्वतरश्चैव तुम्बुरुर्नारदस् तथा
हाहा हूहूर्मुनिश्रेष्ठा विश्वावसुरनुत्तमः उग्रसेनो ऽथ सुरुचिर् अन्यश्चैव परावसुः
चित्रसेनो महातेजाश् चोर्णायुश्चैव सुव्रताः धृतराष्ट्रः सूर्यवर्चा देवी साक्षात् कृतस्थला
शुभानना शुभश्रोणिर् दिव्या वै पुञ्जिकस्थला मेनका सहजन्या च प्रम्लोचाथ शुचिस्मिता
अनुम्लोचा घृताची च विश्वाची चोर्वशी तथा पूर्वचित्तिरिति ख्याता देवी साक्षात्तिलोत्तमा
रंभा चाम्भोजवदना रथकृद् ग्रामणीः शुभः रथौजा रथचित्रश् च सुबाहुर्वै रथस्वनः
वरुणश् च तथैवान्यः सुषेणः सेनजिच्छुभः तार्क्ष्यश्चारिष्टनेमिश् च क्षतजित् सत्यजित्तथा
रक्षोहेतिः प्रहेतिश् च पौरुषेयो वधस् तथा सर्पो व्याघ्रः पुनश्चापो वातो विद्युद्दिवाकरः