स्तनितं चेह वायव्यं वैद्युतं पावकोद्भवम् त्रिधा तेषामिहोत्पत्तिर् अभ्राणां मुनिपुङ्गवाः
न भ्रश्यन्ति यतो ऽभ्राणि मेहनान्मेघ उच्यते काष्ठावाहाश् च वैरिञ्च्याः पक्षाश्चैव पृथग्विधाः
आज्यानां काष्ठसंयोगाद् अग्नेर्धूमः प्रवर्तितः द्वितीयानां च संभूतिर् विरिञ्चोच्छ्वासवायुना
भूभृतां त्वथ पक्षैस्तु मघवच्छेदितैस्ततः वाह्नेयास्त्वथ जीमूतास् त्व् आवहस्थानगाः शुभाः
विरिञ्चोच्छ्वासजाः सर्वे प्रवहस्कन्धजास्ततः पक्षजाः पुष्कराद्याश् च वर्षन्ति च यदा जलम्
मूकाः सशब्ददुष्टाशास् त्व् एतैः कृत्यं यथाक्रमम् क्षामवृष्टिप्रदा दीर्घकालं शीतसमीरिणः
जीवकाश् च तथा क्षीणा विद्युद्ध्वनिविवर्जिताः तिष्ठन्त्याक्रोशमात्रे तु धरापृष्ठादितस्ततः
अर्धक्रोशे तु सर्वे वै जीमूता गिरिवासिनः मेघा योजनमात्रं तु साध्यत्वाद् बहुतोयदाः
धरापृष्ठाद्द्विजाः क्ष्मायां विद्युद्गुणसमन्विताः तेषां तेषां वृष्टिसर्गं त्रेधा कथितमत्र तु
पक्षजाः कल्पजाः सर्वे पर्वतानां महत्तमाः कल्पान्ते ते च वर्षन्ति रात्रौ नाशाय शारदाः
पक्षजाः पुष्कराद्याश् च वर्षन्ति च यदा जलम् तदार्णवमभूत्सर्वं तत्र शेते निशीश्वरः
आग्नेयानां श्वासजानां पक्षजानां द्विजर्षभाः जलदानां सदा धूमो ह्य् आप्यायन इति स्मृतः
पौण्ड्रास्तु वृष्टयः सर्वा वैद्युताः शीतशस्यदाः पुण्ड्रदेशेषु पतिता नागानां शीकरा हिमाः
गाङ्गा गङ्गाम्बुसम्भूता पर्जन्येन परावहैः नगानां च नदीनां च दिग्गजानां समाकुलम्
मेघानां च पृथग्भूतं जलं प्रायादगादगम् परावहो यः श्वसनश् चानयत्यम्बिकागुरुम्
मेनापतिमतिक्रम्य वृष्टिशेषं द्विजाः परम् अभ्येति भारते वर्षे त्व् अपरान्तविवृद्धये
वृष्टयः कथिता ह्यद्य द्विधा वस्तु विवृद्धये सस्यद्वयस्य संक्षेपात् प्रब्रवीमि यथामति
स्रष्टा भानुर्महातेजा वृष्टीनां विश्वदृग् विभुः सो ऽपि साक्षाद्द्विजश्रेष्ठाश् चेशानः परमः शिवः
स एव तेजस्त्वोजस्तु बलं विप्रा यशः स्वयम् चक्षुः श्रोत्रं मनो मृत्युर् आत्मा मन्युर् विदिग् दिशः
सत्यं ऋतं तथा वायुर् अंबरं खचरश् च सः लोकपालो हरिर्ब्रह्मा रुद्रः साक्षान्महेश्वरः
सहस्रकिरणः श्रीमान् अष्टहस्तः सुमङ्गलः अर्धनारिवपुः साक्षात् त्रिनेत्रस् त्रिदशाधिपः
अस्यैवेह प्रसादात्तु वृष्टिर्नानाभवद्द्विजाः सहस्रगुणमुत्स्रष्टुम् आदत्ते किरणैर्जलम्
जलस्य नाशो वृद्धिर्वा नास्त्येवास्य विचारतः ध्रुवेणाधिष्ठितो वायुर् वृष्टिं संहरते पुनः
ग्रहान् निःसृत्य सूर्यात् तु कृत्स्ने नक्षत्रमण्डले चारस्यान्ते विशत्यर्के ध्रुवेण समधिष्ठिता
सौरं संक्षेपतो वक्ष्ये रथं शशिन एव च ग्रहाणाम् इतरेषां च यथा गच्छति चाम्बुपः
सौरस्तु ब्रह्मणा सृष्टो रथस्त्वर्थवशेन सः संवत्सरस्यावयवैः कल्पितश् च द्विजर्षभाः
त्रिनाभिना तु चक्रेण पञ्चारेण समन्वितः सौवर्णः सर्वदेवानाम् आवासो भास्करस्य तु
नवयोजनसाहस्रो विस्तारायामतः स्मृतः द्विगुणो ऽपि रथोपस्थाद् ईषादण्डः प्रमाणतः
असङ्गैस्तु हयैर्युक्तो यतश्चक्रं ततः स्थितैः वाजिनस्तस्य वै सप्त छन्दोभिर् निर्मितास्तु ते
चक्रपक्षे निबद्धास्तु ध्रुवे चाक्षः समर्पितः सहाश्वचक्रो भ्रमते सहाक्षो भ्रमते ध्रुवः