अहर्भवति तच्चापि चरते मन्दविक्रमः त्रयोदशार्धम् ऋक्षाणि नक्तं द्वादशभी रविः मुहूर्तैस् तावद् ऋक्षाणि दिवाष्टादशभिश्चरन्
ततो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा
त्रिंशन्मुहूर्तैर् एवाहुर् अहोरात्रं पुराविदः उभयोः काष्ठयोर्मध्ये भ्रमतो मण्डलानि तु
कुलालचक्रनाभिस्तु यथा तत्रैव वर्तते औत्तानपादो भ्रमति ग्रहैः सार्धं ग्रहाग्रणीः
गणो मुनिज्योतिषां तु मनसा तस्य सर्पति अधिष्ठितः पुनस्तेन भानुस्त्वादाय तिष्ठति
किरणैः सर्वतस्तोयं देवो वै ससमीरणः औत्तानपादस्य सदा ध्रुवत्वं वै प्रसादतः
विष्णोरौत्तानपादेन चाप्तं तातस्य हेतुना आपः पीतास्तु सूर्येण क्रमन्ते शशिनः क्रमात्
निशाकरान्निस्रवन्ते जीमूतान्प्रत्यपः क्रमात् वृन्दं जलमुचां चैव श्वसनेनाभिताडितम्
क्ष्मायां सृष्टिं विसृजते ऽभासयत्तेन भास्करः तोयस्य नास्ति वै नाशः तदैव परिवर्तते
हिताय सर्वजन्तूनां गतिः शर्वेण निर्मिता भूर्भुवः स्वस् तथा ह्यापो ह्य् अन्नं चामृतमेव च
प्राणा वै जगतामापो भूतानि भुवनानि च बहुनात्र किमुक्तेन चराचरमिदं जगत्
अपां शिवस्य भगवान् आधिपत्ये व्यवस्थितः अपां त्वधिपतिर्देवो भव इत्येव कीर्तितः
भवात्मकं जगत्सर्वम् इति किं चेह चाद्भुतम् नारायणत्वं देवस्य हरेश्चाद्भिः कृतं विभोः जगतामालयो विष्णुस् त्व् आपस्तस्यालयानि तु
दन्दह्यमानेषु चराचरेषु गोधूमभूतास् त्वथनिष्क्रमन्ति या या ऊर्ध्वं मारुतेनेरिता वै तास्तास्त्वभ्राण्यग्निना वायुना च
अतो धूमाग्निवातानां संयोगस्त्वभ्रमुच्यते वारीणि वर्षतीत्यभ्रम् अभ्रस्येशः सहस्रदृक्
यज्ञधूमोद्भवं चापि द्विजानां हितकृत्सदा दावाग्निधूमसम्भूतम् अभ्रं वनहितं स्मृतम्
मृतधूमोद्भवं त्वभ्रम् अशुभाय भविष्यति अभिचाराग्निधूमोत्थं भूतनाशाय वै द्विजाः
एवं धूमविशेषेण जगतां वै हिताहितम् तस्मादाच्छादयेद्धूमम् अभिचारकृतं नरः
अनाछाद्य द्विजः कुर्याद् धूमं यश्चाभिचारिकम् एवमुद्दिश्य लोकस्य क्षयकृच्च भविष्यति
अपां निधानं जीमूताः षण्मासानिह सुव्रताः वर्षयन्त्येव जगतां हिताय पवनाज्ञया
स्तनितं चेह वायव्यं वैद्युतं पावकोद्भवम् त्रिधा तेषामिहोत्पत्तिर् अभ्राणां मुनिपुङ्गवाः
न भ्रश्यन्ति यतो ऽभ्राणि मेहनान्मेघ उच्यते काष्ठावाहाश् च वैरिञ्च्याः पक्षाश्चैव पृथग्विधाः
आज्यानां काष्ठसंयोगाद् अग्नेर्धूमः प्रवर्तितः द्वितीयानां च संभूतिर् विरिञ्चोच्छ्वासवायुना
भूभृतां त्वथ पक्षैस्तु मघवच्छेदितैस्ततः वाह्नेयास्त्वथ जीमूतास् त्व् आवहस्थानगाः शुभाः
विरिञ्चोच्छ्वासजाः सर्वे प्रवहस्कन्धजास्ततः पक्षजाः पुष्कराद्याश् च वर्षन्ति च यदा जलम्
मूकाः सशब्ददुष्टाशास् त्व् एतैः कृत्यं यथाक्रमम् क्षामवृष्टिप्रदा दीर्घकालं शीतसमीरिणः
जीवकाश् च तथा क्षीणा विद्युद्ध्वनिविवर्जिताः तिष्ठन्त्याक्रोशमात्रे तु धरापृष्ठादितस्ततः
अर्धक्रोशे तु सर्वे वै जीमूता गिरिवासिनः मेघा योजनमात्रं तु साध्यत्वाद् बहुतोयदाः
धरापृष्ठाद्द्विजाः क्ष्मायां विद्युद्गुणसमन्विताः तेषां तेषां वृष्टिसर्गं त्रेधा कथितमत्र तु
पक्षजाः कल्पजाः सर्वे पर्वतानां महत्तमाः कल्पान्ते ते च वर्षन्ति रात्रौ नाशाय शारदाः