हिरण्यगर्भसर्गश् च प्रसंगाद्बहुविस्तरात् अण्डानामीदृशानां तु कोट्यो ज्ञेयाः सहस्रशः
सर्वगत्वात् प्रधानस्य तिर्यग् ऊर्ध्वम् अधस् तथा अण्डेष्वेतेषु सर्वेषु भुवनानि चतुर्दश
प्रत्यण्डं द्विजशार्दूलास् तेषां हेतुर्महेश्वरः अण्डेषु चाण्डबाह्येषु तथाण्डावरणेषु च
तमो ऽन्ते च तमःपारे चाष्टमूर्तिर्व्यवस्थितः अस्यात्मनो महेशस्य महादेवस्य धीमतः
अदेहिनस् त्वहो देहम् अखिलं परमात्मनः अस्याष्टमूर्तेः शर्वस्य शिवस्य गृहमेधिनः
गृहिणी प्रकृतिर्दिव्या प्रजाश् च महदादयः पशवः किङ्करास्तस्य सर्वे देहाभिमानिनः
आद्यन्तहीनो भगवान् अनन्तः पुमान्प्रधानप्रमुखाश् च सप्त प्रधानमूर्तिस्त्वथ षोडशाङ्गो महेश्वरश्चाष्टतनुः स एव
आज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः ज्योतिर्गणः शक्रमुखाः सुराश् च वैमानिकाः स्थावरजङ्गमाश् च
दृष्ट्वा यक्षं लक्षणैर्हीनमीशं दृष्ट्वा सेन्द्रास्ते किमेतत्त्विहेति यक्षं गत्वा निश्चयात्पावकाद्याः शक्तिक्षीणाश्चाभवन् यत्ततो ऽपि
दग्धुं तृणं वापि समक्षमस्य यक्षस्य वह्निर्न शशाक विप्राः वायुस्तृणं चालयितुं तथान्ये स्वान्स्वान्प्रभावान् सकलामरेन्द्राः
तदा स्वयं वृत्ररिपुः सुरेन्द्रैः सुरेश्वरः सर्वसमृद्धिहेतुः सुरेश्वरं यक्षमुवाच को वा भवानितीत्थं स कुतूहलात्मा
तदा ह्यदृश्यं गत एव यक्षस् तदांबिका हैमवती शुभास्या उमा शुभैराभरणैरनेकैः सुशोभमाना त्वनु चाविरासीत्
किमेतदीशे बहुशोभमाने वांबिके यक्षवपुश्चकास्ति
प्रणेमुरेनां मृगराजगामिनीमुमामजां लोहितशुक्लकृष्णाम्
संभाविता सा सकलामरेन्द्रैः सर्वप्रवृत्तिस्तु सुरासुराणाम् अहं पुरासं प्रकृतिश् च पुंसो यक्षस्य चाज्ञावशगेत्यथाह
तस्माद्द्विजाः सर्वमजस्य तस्य नियोगतश्चाण्डमभूदजाद्वै अजश् च अण्डादखिलं च तस्माज् ज्योतिर्गणैर्लोकमजात्मकं तत्
ज्योतिर्गणप्रचारं वै संक्षिप्याण्डे ब्रवीम्यहम् देवक्षेत्राणि चालोक्य ग्रहचारप्रसिद्धये
मानसोपरि माहेन्द्री प्राच्यां मेरोः पुरी स्थिता दक्षिणे भानुपुत्रस्य वरुणस्य च वारुणी
सौम्ये सोमस्य विपुला तासु दिग्देवताः स्थिताः अमरावती संयमनी सुखा चैव विभा क्रमात्
लोकपालोपरिष्टात् तु सर्वतो दक्षिणायने काष्ठां गतस्य सूर्यस्य गतिर् या तां निबोधत
दक्षिणप्रक्रमे भानुः क्षिप्तेषुरिव धावति ज्योतिषां चक्रमादाय सततं परिगच्छति
पुरान्तगो यदा भानुः शक्रस्य भवति प्रभुः सर्वैः सायमनैः सौरो ह्य् उदयो दृश्यते द्विजाः
स एव सुखवत्यां तु निशान्तस्थः प्रदृश्यते अस्तमेति पुनः सूर्यो विभायां विश्वदृग् विभुः
मया प्रोक्तो ऽमरावत्यां यथासौ वारितस्करः तथा संयमनीं प्राप्य सुखां चैव विभां खगः
यदापराह्णस्त्वाग्नेय्यां पूर्वाह्णो नैरृते द्विजाः तदा त्वपररात्रश् च वायुभागे सुदारुणः
ईशान्यां पूर्वरात्रस्तु गतिरेषा च सर्वतः एवं पुष्करमध्ये तु यदा सर्पति वारिपः
त्रिंशांशकं तु मेदिन्यां मुहूर्तेनैव गच्छति योजनानां मुहूर्तस्य इमां संख्यां निबोधत
पूर्णा शतसहस्राणाम् एकत्रिंशत्तु सा स्मृता पञ्चाशच्च तथान्यानि सहस्राण्यधिकानि तु
मौहूर्तिकी गतिर्ह्येषा भास्करस्य महात्मनः एतेन गतियोगेन यदा काष्ठां तु दक्षिणाम्
पर्यपृच्छेत् पतङ्गो ऽपि सौम्याशां चोत्तरे ऽहनि मध्ये तु पुष्करस्याथ भ्रमते दक्षिणायने