शाकद्वीपे च गिरयः सप्त तांस्तु निबोधत उदयो रैवतश्चापि श्यामको मुनिसत्तमाः
राजतश्च गिरिः श्रीमान् आंबिकेयः सुशोभनः आंबिकेयात्परो रम्यः सर्वौषधिसमन्वितः
तथैव केसरीत्युक्तो यतो वायुः प्रजायते पुष्करे पर्वतः श्रीमान् एक एव महाशिलः
चित्रैर्मणिमयैः कूटैः शिलाजालैः समुच्छ्रितैः द्वीपस्य तस्य पूर्वार्धे चित्रसानुस्थितो महान्
योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः अधश्चैव चतुस्त्रिंशत् सहस्राणि महाचलः
द्वीपस्यार्धे परिक्षिप्तः पर्वतो मानसोत्तरः स्थितो वेलासमीपे तु नवचन्द्र इवोदितः
योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः तावदेव तु विस्तीर्णः पार्श्वतः परिमण्डलः
स एव द्वीपपश्चार्धे मानसः पृथिवीधरः एक एव महासानुः संनिवेशाद्द्विधा कृतः
तस्मिन्द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ राजतौ मानसस्याथ पर्वतस्यानुमण्डलौ
महावीतं तु यद्वर्षं बाह्यतो मानसस्य तु तस्यैवाभ्यन्तरो यस्तु धातकीखण्ड उच्यते
स्वादूदकेनोदधिना पुष्करः परिवारितः पुष्करद्वीपविस्तारविस्तीर्णो ऽसौ समन्ततः
विस्तारान्मण्डलाच्चैव पुष्करस्य समेन तु एवं द्वीपाः समुद्रैस्तु सप्तसप्तभिर् आवृताः
द्वीपस्यानन्तरो यस्तु समुद्रः सप्तमस्तु वै एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परम्
परेण पुष्करस्याथ अनुवृत्य स्थितो महान् स्वादूदकसमुद्रस्तु समन्तात्परिवेष्ट्य च
परेण तस्य महती दृश्यते लोकसंस्थितिः काञ्चनी द्विगुणा भूमिः सर्वा चैकशिलोपमा
तस्याः परेण शैलस्तु मर्यादापारमण्डलः प्रकाशश्चाप्रकाशश् च लोकालोकः स उच्यते
दृश्यादृश्यगिरिर् यावत् तावदेषा धरा द्विजाः योजनानां सहस्राणि दश तस्योच्छ्रयः स्मृतः
तावांश् च विस्तरस्तस्य लोकालोकमहागिरेः अर्वाचीने तु तस्यार्धे चरन्ति रविरश्मयः
परार्धे तु तमो नित्यं लोकालोकस्ततः स्मृतः एवं संक्षेपतः प्रोक्तो भूर्लोकस्य च विस्तरः
आ भानोर्वै भुवः स्वस्तु आ ध्रुवान्मुनिसत्तमाः आवहाद्या निविष्टास्तु वायोर्वै सप्त नेमयः
आवहः प्रवहश्चैव ततश्चानुवहस् तथा संवहो विवहश्चाथ ततश्चोर्ध्वं परावहः
द्विजाः परिवहश्चेति वायोर्वै सप्त नेमयः बलाहकास् तथा भानुश् चन्द्रो नक्षत्रराशयः
ग्रहाणि ऋषयः सप्त ध्रुवो विप्राः क्रमादिह योजनानां महीपृष्ठाद् ऊर्ध्वं पञ्चदश आ ध्रुवात्
नियुतान्येकनियुतं भूपृष्ठाद्भानुमण्डलम् रथः षोडशसाहस्रो भास्करस्य तथोपरि
चतुरशीतिसाहस्रो मेरुश्चोपरि भूतलात् कोटियोजनमाक्रम्य महर्लोको ध्रुवाद्ध्रुवः
जनलोको महर्लोकात् तथा कोटिद्वयं द्विजाः जनलोकात्तपोलोकश् चतस्रः कोटयो मतः
प्राजापत्याद्ब्रह्मलोकः कोटिषट्कं विसृज्य तु पुण्यलोकास्तु सप्तैते ह्य् अण्डे ऽस्मिन्कथिता द्विजाः
अधः सप्ततलानां तु नरकाणां हि कोटयः मायान्ताश्चैव घोराद्या अष्टाविंशतिरेव तु
पापिनस्तेषु पच्यन्ते स्वस्वकर्मानुरूपतः अवीच्यन्तानि सर्वाणि रौरवाद्यानि तेषु च
प्रत्येकं पञ्चकान्याहुर् नरकाणि विशेषतः अण्डमादौ मया प्रोक्तम् अण्डस्यावरणानि च