लब्ध्वा ससर्ज सकलं शंकराच्चतुराननः जरामरणसंयुक्तं जगदेतच्चराचरम्
शंकरो ऽपि तदा रुद्रैर् निवृत्तात्मा ह्यधिष्ठितः स्थाणुत्वं तस्य वै विप्राः शंकरस्य महात्मनः
निष्कलस्यात्मनः शम्भोः स्वेच्छाधृतशरीरिणः शं रुद्रः सर्वभूतानां करोति घृणया यतः
शंकरश्चाप्रयत्नेन तदात्मा योगविद्यया वैराग्यस्थं विरक्तस्य विमुक्तिर्यच्छमुच्यते
अणोस्तु विषयत्यागः संसारभयतः क्रमात् वैराग्याज्जायते पुंसो विरागो दर्शनान्तरे
विमुख्यो विगुणत्यागो विज्ञानस्याविचारतः तस्य चास्य च संधानं प्रसादात्परमेष्ठिनः
धर्मो ज्ञानं च वैराग्यम् ऐश्वर्यं शंकरादिह स एव शंकरः साक्षात् पिनाकी नीललोहितः
ये शंकराश्रिताः सर्वे मुच्यन्ते ते न संशयः न गच्छन्त्येव नरकं पापिष्ठा अपि दारुणम्
आश्रिताः शंकरं तस्मात् प्राप्नुवन्ति च शाश्वतम् मायान्ताश्चैव घोराद्या ह्य् अष्टविंशतिरेव च
कोटयो नरकाणां तु पच्यन्ते तासु पापिनः अनाश्रिताः शिवं रुद्रं शंकरं नीललोहितम्
आश्रयं सर्वभूतानाम् अव्ययं जगतां पतिम् पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम्
तमसा कालरुद्राख्यं रजसा कनकाण्डजम् सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम्
केन गच्छन्ति नरकं नराः केन महामते कर्मणाकर्मणा वापि श्रोतुं कौतूहलं हि नः
रहस्यं वः प्रवक्ष्यामि भवस्यामिततेजसः प्रभावं शंकरस्याद्यं संक्षेपात्सर्वदर्शिनः
योगिनः सर्वतत्त्वज्ञाः परं वैराग्यमास्थिताः
प्राणायामादिभिश्चाष्टसाधनैः सहचारिणः
करुणादिगुणोपेताः कृत्वापि विविधानि ते कर्माणि नरकं स्वर्गं गच्छन्त्येव स्वकर्मणा
प्रसादाज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते योगेन जायते मुक्तिः प्रसादादखिलं ततः
प्रसादाद् यदि विज्ञानं स्वरूपं वक्तुमर्हसि दिव्यं माहेश्वरं चैव योगं योगविदां वर
कथं करोति भगवान् चिन्तया रहितः शिवः प्रसादं योगमार्गेण कस्मिन्काले नृणां विभुः
देवानां च ऋषीणां च पितॄणां संनिधौ पुरा शैलादिना तु कथितं शृण्वन्तु ब्रह्मसूनवे
व्यासावताराणि तथा द्वापरान्ते च सुव्रताः योगाचार्यावताराणि तथा तिष्ये तु शूलिनः
तत्रतत्र विभोः शिष्याश् चत्वारः शमभाजनाः प्रशिष्या बहवस्तेषां प्रसीदत्येवमीश्वरः
एवं क्रमागतं ज्ञानं मुखादेव नृणां विभोः वैश्यान्तं ब्राह्मणाद्यं हि घृणया चानुरूपतः
द्वापरे द्वापरे व्यासाः के वै कुत्रान्तरेषु वै कल्पेषु कस्मिन्कल्पे नो वक्तुमर्हसि चात्र तान्
शृण्वन्तु कल्पे वाराहे द्विजा वैवस्वतान्तरे व्यासांश् च साम्प्रतं रुद्रांस् तथा सर्वान्तरेषु वै
वेदानां च पुराणानां तथा ज्ञानप्रदर्शकान् यथाक्रमं प्रवक्ष्यामि सर्वावर्तेषु साम्प्रतम्
क्रतुः सत्यो भार्गवश् च अङ्गिराः सविता द्विजाः मृत्युः शतक्रतुर्धीमान् वसिष्ठो मुनिपुंगवः
सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुंगवः शततेजाः स्वयंधर्मो नारायण इति श्रुतः
तरक्षुश्चारुणिर्धीमांस् तथा देवः कृतंजयः ऋतंजयो भरद्वाजो गौतमः कविसत्तमः