न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः चन्द्रसूर्यौ न नक्षत्रं न प्रकाशम् इलावृते
पद्मप्रभाः पद्ममुखाः पद्मपत्त्रनिभेक्षणाः पद्मपत्त्रसुगन्धाश् च जायन्ते भवभाविताः
जम्बूफलरसाहारा अनिष्पन्दाः सुगन्धिनः देवलोकागतास्तत्र जायन्ते ह्यजरामराः
त्रयोदशसहस्राणि वर्षाणां ते नरोत्तमाः आयुःप्रमाणं जीवन्ति वर्षे दिव्ये त्विलावृते
जंबूफलरसं पीत्वा न जरा बाधते त्विमान् न क्षुधा न क्लमश्चापि न जनो मृत्युमांस् तथा
तत्र जाम्बूनदं नाम कनकं देवभूषणम् इन्द्रगोपप्रतीकाशं जायते भास्वरं तु तत्
एवं मया समाख्याता नववर्षानुवर्तिनः वर्णायुर्भोजनाद्यानि संक्षिप्य न तु विस्तरात्
हेमकूटे तु गन्धर्वा विज्ञेयाश्चाप्सरोगणाः सर्वे नागाश् च निषधे शेषवासुकितक्षकाः
महाबलास् त्रयस्त्रिंशद् रमन्ते याज्ञिकाः सुराः नीले तु वैडूर्यमये सिद्धा ब्रह्मर्षयो ऽमलाः
दैत्यानां दानवानां च श्वेतः पर्वत उच्यते शृङ्गवान् पर्वतश्चैव पितॄणां निलयः सदा
हिमवान् यक्षमुख्यानां भूतानाम् ईश्वरस्य च सर्वाद्रिषु महादेवो हरिणा ब्रह्मणांबया
नन्दिना च गणैश्चैव वर्षेषु च वनेषु च नीलश्वेतत्रिशृङ्गे च भगवान्नीललोहितः
सिद्धैर्देवैश् च पितृभिर् दृष्टो नित्यं विशेषतः नीलश् च वैडूर्यमयः श्वेतः शुक्लो हिरण्मयः
मयूरबर्हवर्णस्तु शातकुंभस् त्रिशृङ्गवान् एते पर्वतराजानो जंबूद्वीपे व्यवस्थिताः
प्लक्षद्वीपादिद्वीपेषु सप्त सप्तसु पर्वताः ऋज्वायताः प्रतिदिशं निविष्टा वर्षपर्वताः
प्लक्षद्वीपे तु वक्ष्यामि सप्त दिव्यान् महाचलान् गोमेदको ऽत्र प्रथमो द्वितीयश्चान्द्र उच्यते
तृतीयो नारदो नाम चतुर्थो दुन्दुभिः स्मृतः पञ्चमः सोमको नाम सुमनाः षष्ठ उच्यते
स एव वैभवः प्रोक्तो वैभ्राजः सप्तमः स्मृतः सप्तैते गिरयः प्रोक्ताः प्लक्षद्वीपे विशेषतः
सप्त वै शाल्मलिद्वीपे तांस्तु वक्ष्याम्यनुक्रमात् कुमुदश्चोत्तमश्चैव पर्वतश् च बलाहकः
द्रोणः कङ्कश् च महिषः ककुद्मान् सप्तमः स्मृतः कुशद्वीपे तु सप्तैव द्वीपाश् च कुलपर्वताः
तांस्तु संक्षेपतो वक्ष्ये नाममात्रेण वै क्रमात् विद्रुमः प्रथमः प्रोक्तो द्वितीयो हेमपर्वतः
तृतीयो द्युतिमान्नाम चतुर्थः पुष्पितः स्मृतः कुशेशयः पञ्चमस्तु षष्ठो हरिगिरिः स्मृतः
सप्तमो मन्दरः श्रीमान् महादेवनिकेतनम् मन्दा इति ह्यपां नाम मन्दरो धारणाद् अपाम्
तत्र साक्षाद्वृषाङ्कस्तु विश्वेशो विमलः शिवः सोमः सनन्दी भगवान् आस्ते हेमगृहोत्तमे
तपसा तोषितः पूर्वं मन्दरेण महेश्वरः अविमुक्ते महाक्षेत्रे लेभे स परमं वरम्
प्रार्थितश् च महादेवो निवासार्थं सहांबया अविमुक्तादुपागम्य चक्रे वासं स मन्दरे
सनन्दी सगणः सोमस् तेनासौ तन्न मुञ्चति क्रौञ्चद्वीपे तु सप्तेह क्रौञ्चाद्याः कुलपर्वताः
क्रौञ्चो वामनकः पश्चात् तृतीयश्चान्धकारकः अन्धकारात्परश्चापि दिवावृन्नाम पर्वतः
दिवावृतः परश्चापि विविन्दो गिरिरुच्यते विविन्दात्परतश्चापि पुण्डरीको महागिरिः
पुण्डरीकात्परश्चापि प्रोच्यते दुन्दुभिस्वनः एते रत्नमयाः सप्त क्रौञ्चद्वीपस्य पर्वताः