नागद्वीपं तथा सौम्यं गान्धर्वं वारुणं गताः केचिन्म्लेच्छाः पुलिन्दाश् च नानाजातिसमुद्भवाः
पूर्वे किरातास्तस्यान्ते पश्चिमे यवनाः स्मृताः ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश् च सर्वशः
इज्यायुद्धवणिज्याभिर् वर्तयन्तो व्यवस्थिताः तेषां संव्यवहारो ऽयं वर्तते ऽत्र परस्परम्
धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु संकल्पश्चाभिमानश् च आश्रमाणां यथाविधि
इह स्वर्गापवर्गार्थं प्रवृत्तिर्यत्र मानुषी तेषां च युगकर्माणि नान्यत्र मुनिपुङ्गवाः
दशवर्षसहस्राणि स्थितिः किंपुरुषे नृणाम् सुवर्णवर्णाश् च नराः स्त्रियश्चाप्सरसोपमाः
अनामया ह्यशोकाश् च सर्वे ते शिवभाविताः शुद्धसत्त्वाश् च हेमाभाः सदाराः प्लक्षभोजनाः
महारजतसंकाशा हरिवर्षे ऽपि मानवाः देवलोकाच्च्युताः सर्वे देवाकाराश् च सर्वशः
हरं यजन्ति सर्वेशं पिबन्तीक्षुरसं शुभम् न जरा बाधते तेन न च जीर्यन्ति ते नराः
दशवर्षसहस्राणि तत्र जीवन्ति मानवाः मध्यमं यन्मया प्रोक्तं नाम्ना वर्षमिलावृतम्
न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः चन्द्रसूर्यौ न नक्षत्रं न प्रकाशम् इलावृते
पद्मप्रभाः पद्ममुखाः पद्मपत्त्रनिभेक्षणाः पद्मपत्त्रसुगन्धाश् च जायन्ते भवभाविताः
जम्बूफलरसाहारा अनिष्पन्दाः सुगन्धिनः देवलोकागतास्तत्र जायन्ते ह्यजरामराः
त्रयोदशसहस्राणि वर्षाणां ते नरोत्तमाः आयुःप्रमाणं जीवन्ति वर्षे दिव्ये त्विलावृते
जंबूफलरसं पीत्वा न जरा बाधते त्विमान् न क्षुधा न क्लमश्चापि न जनो मृत्युमांस् तथा
तत्र जाम्बूनदं नाम कनकं देवभूषणम् इन्द्रगोपप्रतीकाशं जायते भास्वरं तु तत्
एवं मया समाख्याता नववर्षानुवर्तिनः वर्णायुर्भोजनाद्यानि संक्षिप्य न तु विस्तरात्
हेमकूटे तु गन्धर्वा विज्ञेयाश्चाप्सरोगणाः सर्वे नागाश् च निषधे शेषवासुकितक्षकाः
महाबलास् त्रयस्त्रिंशद् रमन्ते याज्ञिकाः सुराः नीले तु वैडूर्यमये सिद्धा ब्रह्मर्षयो ऽमलाः
दैत्यानां दानवानां च श्वेतः पर्वत उच्यते शृङ्गवान् पर्वतश्चैव पितॄणां निलयः सदा
हिमवान् यक्षमुख्यानां भूतानाम् ईश्वरस्य च सर्वाद्रिषु महादेवो हरिणा ब्रह्मणांबया
नन्दिना च गणैश्चैव वर्षेषु च वनेषु च नीलश्वेतत्रिशृङ्गे च भगवान्नीललोहितः
सिद्धैर्देवैश् च पितृभिर् दृष्टो नित्यं विशेषतः नीलश् च वैडूर्यमयः श्वेतः शुक्लो हिरण्मयः
मयूरबर्हवर्णस्तु शातकुंभस् त्रिशृङ्गवान् एते पर्वतराजानो जंबूद्वीपे व्यवस्थिताः
प्लक्षद्वीपादिद्वीपेषु सप्त सप्तसु पर्वताः ऋज्वायताः प्रतिदिशं निविष्टा वर्षपर्वताः
प्लक्षद्वीपे तु वक्ष्यामि सप्त दिव्यान् महाचलान् गोमेदको ऽत्र प्रथमो द्वितीयश्चान्द्र उच्यते
तृतीयो नारदो नाम चतुर्थो दुन्दुभिः स्मृतः पञ्चमः सोमको नाम सुमनाः षष्ठ उच्यते
स एव वैभवः प्रोक्तो वैभ्राजः सप्तमः स्मृतः सप्तैते गिरयः प्रोक्ताः प्लक्षद्वीपे विशेषतः
सप्त वै शाल्मलिद्वीपे तांस्तु वक्ष्याम्यनुक्रमात् कुमुदश्चोत्तमश्चैव पर्वतश् च बलाहकः
द्रोणः कङ्कश् च महिषः ककुद्मान् सप्तमः स्मृतः कुशद्वीपे तु सप्तैव द्वीपाश् च कुलपर्वताः