पुरं रुद्रपुरी नाम नानाप्रासादसंकुलम् तत्रापि शतधा कृत्वा ह्य् आत्मानं चाम्बया सह
क्रीडते सगणः साम्बस् तच्छिवालयम् उच्यते एवं शतसहस्राणि शर्वस्यायतनानि तु
प्रतिद्वीपे मुनिश्रेष्ठाः पर्वतेषु वनेषु च नदीनदतटाकानां तीरेष्वर्णवसंधिषु
नद्यश् च बहवः प्रोक्ताः सदा बहुजलाः शुभाः सरोवरेभ्यः सम्भूतास् त्व् असंख्याता द्विजोत्तमाः
प्राङ्मुखा दक्षिणास्यास्तु चोत्तरप्रभवाः शुभाः पश्चिमाग्राः पवित्राश् च प्रतिवर्षं प्रकीर्तिताः
आकाशांभोनिधिर् यो ऽसौ सोम इत्यभिधीयते आधारः सर्वभूतानां देवानाममृताकरः
अस्मात्प्रवृत्ता पुण्योदा नदी त्वाकाशगामिनी सप्तमेनानिलपथा प्रवृत्ता चामृतोदका
सा ज्योतींष्यनुवर्तन्ती ज्योतिर्गणनिषेविता ताराकोटिसहस्राणां नभसश् च समायुता
परिवर्तत्यहरहो यथा सोमस्तथैव सा चत्वार्यशीतिश् च तथा सहस्राणां समुच्छ्रितः
योजनानां महामेरुः श्रीकण्ठाक्रीडकोमलः तत्रासीनो यतः शर्वः साम्बः सह गणेश्वरैः
क्रीडते सुचिरं कालं तस्मात्पुण्यजला शिवा गिरिं मेरुं नदी पुण्या सा प्रयाति प्रदक्षिणम्
विभज्यमानसलिला सा जवेनानिलेन च मेरोरन्तरकूटेषु निपपात चतुर्ष्वपि
समन्तात्समतिक्रम्य सर्वाद्रीन्प्रविभागशः नियोगाद्देवदेवस्य प्रविष्टा सा महार्णवम्
अस्या विनिर्गता नद्यः शतशो ऽथ सहस्रशः सर्वद्वीपाद्रिवर्षेषु बहवः परिकीर्तिताः
क्षुद्रनद्यस्त्वसंख्याता गङ्गा यद्गाङ्गताम्बरात् केतुमाले नराः कालाः सर्वे पनसभोजनाः
स्त्रियश्चोत्पलवर्णाभा जीवितं चायुतं स्मृतम् भद्राश्वे शुक्लवर्णाश् च स्त्रियश्चन्द्रांशुसंनिभाः
कालाम्रभोजनाः सर्वे निरातङ्का रतिप्रियाः दशवर्षसहस्राणि जीवन्ति शिवभाविताः
हिरण्मया इवात्यर्थम् ईश्वरार्पितचेतसः तथा रमणके जीवा न्यग्रोधफलभोजनाः
दशवर्षसहस्राणि शतानि दशपञ्च च जीवन्ति शुक्लास्ते सर्वे शिवध्यानपरायणाः
हैरण्मया महाभागा हिरण्मयवनाश्रयाः एकादश सहस्राणि शतानि दशपञ्च च
वर्षाणां तत्र जीवन्ति अश्वत्थाशनजीवनाः हैरण्मया इवात्यर्थम् ईश्वरार्पितमानसाः
कुरुवर्षे तु कुरवः स्वर्गलोकात् परिच्युताः सर्वे मैथुनजाताश् च क्षीरिणः क्षीरभोजनाः
अन्योन्यमनुरक्ताश् च चक्रवाकसधर्मिणः अनामया ह्यशोकाश् च नित्यं सुखनिषेविणः
त्रयोदशसहस्राणि शतानि दशपञ्च च जीवन्ति ते महावीर्या न चान्यस्त्रीनिषेविणः
सहैव मरणं तेषां कुरूणां स्वर्गवासिनाम् हृष्टानां सुप्रवृद्धानां सर्वान्नामृतभोजिनाम्
सदा तु चन्द्रकान्तानां सदा यौवनशालिनाम् श्यामाङ्गानां सदा सर्वभूषणास्पददेहिनाम्
जंबूद्वीपे तु तत्रापि कुरुवर्षं सुशोभनम् तत्र चन्द्रप्रभं शम्भोर् विमानं चन्द्रमौलिनः
वर्षे तु भारते मर्त्याः पुण्याः कर्मवशायुषः शतायुषः समाख्याता नानावर्णाल्पदेहिनः
नानादेवार्चने युक्ता नानाकर्मफलाशिनः नानाज्ञानार्थसम्पन्ना दुर्बलाश्चाल्पभोगिनः
इन्द्रद्वीपे तथा केचित् तथैव च कसेरुके ताम्रद्वीपं गताः केचित् केचिद्देशं गभस्तिमत्