श्रीकण्ठाधिष्ठितान्यत्र स्थानानि च समासतः मर्यादापर्वतेष्वद्य शृण्वन्तु प्रवदाम्य् अहम्
श्रीकण्ठाधिष्ठितं विश्वं चराचरमिदं जगत् कालाग्निशिवपर्यन्तं कथं वक्ष्ये सविस्तरम्
देवकूटे गिरौ मध्ये महाकूटे सुशोभने हेमवैडूर्यमाणिक्यनीलगोमेदकान्तिभिः
तथान्यैर्मणिमुख्यैश् च निर्मिते निर्मले शुभे शाखाशतसहस्राढ्ये सर्वद्रुमविभूषिते
चम्पकाशोकपुंनागवकुलासनमण्डिते पारिजातकसम्पूर्णे नानापक्षिगणान्विते
नैकधातुशतैश्चित्रे विचित्रकुसुमाकुले नितम्बपुष्पसालम्बेन्-ऐकसत्त्वगणान्विते
विमलस्वादुपानीयेन्-ऐकप्रस्रवणैर्युते निर्झरैः कुसुमाकीर्णैर् अनेकैश् च विभूषिते
पुष्पोडुपवहाभिश् च स्रवन्तीभिर् अलंकृते स्निग्धवर्णं महामूलम् अनेकस्कन्धपादपम्
रम्यं ह्यविरलच्छायं दशयोजनमण्डलम् तत्र भूतवनं नाम नानाभूतगणालयम्
महादेवस्य देवस्य शङ्करस्य महात्मनः दीप्तमायतनं तत्र महामणिविभूषितम्
हेमप्राकारसंयुक्तं मणितोरणमण्डितम् स्फाटिकैश् च विचित्रैश् च गोपुरैश् च समन्वितम्
सिंहासनैर्मणिमयैः शुभास्तरणसंयुतैः क्षितावितस्ततः सम्यक् शर्वेणाधिष्ठितैः शुभैः
अम्लानमालानिचितैर् नानावर्णैर् गृहोत्तमैः मण्डपैः सुविचित्रैस् तु स्फाटिकस्तम्भसंयुतैः
संयुतं सर्वभूतेन्द्रैर् ब्रह्मेन्द्रोपेन्द्रपूजितैः वराहगजसिंहर्क्षशार्दूलकरभाननैः
गृध्रोलूकमुखैश्चान्यैर् मृगोष्ट्राजमुखैरपि प्रमथैर्विविधैः स्थूलैर् गिरिकूटोपमैः शुभैः
करालैर्हरिकेशैश् च रोमशैश् च महाभुजैः नानावर्णाकृतिधरैर् नानासंस्थानसंस्थितैः
दीप्तास्यैर् दीप्तचरितैर् नन्दीश्वरमुखैः शुभैः ब्रह्मेन्द्रविष्णुसंकाशैर् अणिमादिगुणान्वितैः
अशून्यममरैर्नित्यं महापरिषदैस् तथा तत्र भूतपतेर्देवाः पूजां नित्यं प्रयुञ्जते
झर्झरैः शङ्खपटहैर् भेरीडिण्डिमगोमुखैः ललितावसितोद्गीतैर् वृत्तवल्गितगर्जितैः
पूजितो वै महादेवः प्रमथैः प्रमथेश्वरः सिद्धर्षिदेवगन्धर्वैर् ब्रह्मणा च महात्मना
उपेन्द्रप्रमुखैश्चान्यैः पूजितस्तत्र शंकरः विभक्तचारुशिखरं यत्र तच्छङ्खवर्चसम्
कैलासो यक्षराजस्य कुबेरस्य महात्मनः निवासः कोटियक्षाणां तथान्येषां महात्मनाम्
तत्रापि देवदेवस्य भवस्यायतनं महत् तस्मिन्नायतने सोमः सदास्ते सगणो हरः
यत्र मन्दाकिनी नाम नलिनी विपुलोदका सुवर्णमणिसोपाना कुबेरशिखरे शुभे
जांबूनदमयैः पद्मैर् गन्धस्पर्शगुणान्वितैः नीलवैडूर्यपत्रैश् च गन्धोपेतैर्महोत्पलैः
तथा कुमुदषण्डैश् च महापद्मैर् अलंकृता यक्षगन्धर्वनारीभिर् अप्सरोभिश् च सेविता
देवदानवगन्धर्वैर् यक्षराक्षसकिन्नरैः उपस्पृष्टजला पुण्या नदी मन्दाकिनी शुभा
तस्याश्चोत्तरपार्श्वे तु भवस्यायतनं शुभम् वैडूर्यमणिसम्पन्नं तत्रास्ते शङ्करो ऽव्ययः
द्विजाः कनकनन्दायास् तीरे वै प्राचि दक्षिणे वनं द्विजसहस्राढ्यं मृगपक्षिसमाकुलम्
तत्रापि सगणः साम्बः क्रीडते ऽद्रिसमे गृहे नन्दायाः पश्चिमे तीरे किंचिद् वै दक्षिणाश्रिते