पितरो ऽमृतपाः प्रोक्तास् तेषां चैवेह विस्तरः ऋषीणां च कुलं सर्वं शृणुध्वं तत्सुविस्तरम्
वदामि पृथगध्यायसंस्थितं वस्तदूर्ध्वतः दाक्षायणी सती याता पार्श्वं रुद्रस्य पार्वती
पश्चाद्दक्षं विनिन्द्यैषा पतिं लेभे भवं तथा तां ध्यात्वा व्यसृजद्रुद्रान् अनेकान्नीललोहितः
आत्मनस्तु समान्सर्वान् सर्वलोकनमस्कृतान् याचितो मुनिशार्दूला ब्रह्मणा प्रहसन् क्षणात्
तैस्तु संछादितं सर्वं चतुर्दशविधं जगत् तान्दृष्ट्वा विविधान् रुद्रान् निर्मलान्नीललोहितान्
जरामरणनिर्मुक्तान् प्राह रुद्रान्पितामहः नमो ऽस्तु वो महादेवास् त्रिनेत्रा नीललोहिताः
सर्वज्ञाः सर्वगा दीर्घा ह्रस्वा वामनकाः शुभाः हिरण्यकेशा दृष्टिघ्ना नित्या बुद्धाश् च निर्मलाः
निर्द्वंद्वा वीतरागाश् च विश्वात्मानो भवात्मजाः एवं स्तुत्वा तदा रुद्रान् रुद्रं चाह भवं शिवम् प्रदक्षिणीकृत्य तदा भगवान्कनकाण्डजः
नमो ऽस्तु ते महादेव प्रजा नार्हसि शंकर मृत्युहीना विभो स्रष्टुं मृत्युयुक्ताः सृज प्रभो
ततस्तमाह भगवान् न हि मे तादृशी स्थितिः स त्वं सृज यथाकामं मृत्युयुक्ताः प्रजाः प्रभो
लब्ध्वा ससर्ज सकलं शंकराच्चतुराननः जरामरणसंयुक्तं जगदेतच्चराचरम्
शंकरो ऽपि तदा रुद्रैर् निवृत्तात्मा ह्यधिष्ठितः स्थाणुत्वं तस्य वै विप्राः शंकरस्य महात्मनः
निष्कलस्यात्मनः शम्भोः स्वेच्छाधृतशरीरिणः शं रुद्रः सर्वभूतानां करोति घृणया यतः
शंकरश्चाप्रयत्नेन तदात्मा योगविद्यया वैराग्यस्थं विरक्तस्य विमुक्तिर्यच्छमुच्यते
अणोस्तु विषयत्यागः संसारभयतः क्रमात् वैराग्याज्जायते पुंसो विरागो दर्शनान्तरे
विमुख्यो विगुणत्यागो विज्ञानस्याविचारतः तस्य चास्य च संधानं प्रसादात्परमेष्ठिनः
धर्मो ज्ञानं च वैराग्यम् ऐश्वर्यं शंकरादिह स एव शंकरः साक्षात् पिनाकी नीललोहितः
ये शंकराश्रिताः सर्वे मुच्यन्ते ते न संशयः न गच्छन्त्येव नरकं पापिष्ठा अपि दारुणम्
आश्रिताः शंकरं तस्मात् प्राप्नुवन्ति च शाश्वतम् मायान्ताश्चैव घोराद्या ह्य् अष्टविंशतिरेव च
कोटयो नरकाणां तु पच्यन्ते तासु पापिनः अनाश्रिताः शिवं रुद्रं शंकरं नीललोहितम्
आश्रयं सर्वभूतानाम् अव्ययं जगतां पतिम् पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम्
तमसा कालरुद्राख्यं रजसा कनकाण्डजम् सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम्
केन गच्छन्ति नरकं नराः केन महामते कर्मणाकर्मणा वापि श्रोतुं कौतूहलं हि नः
रहस्यं वः प्रवक्ष्यामि भवस्यामिततेजसः प्रभावं शंकरस्याद्यं संक्षेपात्सर्वदर्शिनः
योगिनः सर्वतत्त्वज्ञाः परं वैराग्यमास्थिताः
प्राणायामादिभिश्चाष्टसाधनैः सहचारिणः
करुणादिगुणोपेताः कृत्वापि विविधानि ते कर्माणि नरकं स्वर्गं गच्छन्त्येव स्वकर्मणा
प्रसादाज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते योगेन जायते मुक्तिः प्रसादादखिलं ततः
प्रसादाद् यदि विज्ञानं स्वरूपं वक्तुमर्हसि दिव्यं माहेश्वरं चैव योगं योगविदां वर
कथं करोति भगवान् चिन्तया रहितः शिवः प्रसादं योगमार्गेण कस्मिन्काले नृणां विभुः