एवं संक्षेपतः प्रोक्ता वनेषु वनवासिनः असंख्याता मयाप्यत्र वक्तुं नो विस्तरेण तु
शितान्तशिखरे शक्रः पारिजातवने शुभे तस्य प्राच्यां कुमुदाद्रिकूटो ऽसौ बहुविस्तरः
अष्टौ पुराण्युदीर्णानि दानवानां द्विजोत्तमाः सुवर्णकोटरे पुण्ये राक्षसानां महात्मनाम्
नीलकानां पुराण्याहुर् अष्टषष्टिर्द्विजोत्तमाः महानीले ऽपि शैलेन्द्रे पुराणि दश पञ्च च
हयाननानां मुख्यानां किन्नराणां च सुव्रताः वेणुसौधे महाशैले विद्याधरपुरत्रयम्
वैकुण्ठे गरुडः श्रीमान् करञ्जे नीललोहितः वसुधारे वसूनां तु निवासः परिकीर्तितः
रत्नधारे गिरिवरे सप्तर्षीणां महात्मनाम् सप्तस्थानानि पुण्यानि सिद्धावासयुतानि च
महत्प्रजापतेः स्थानम् एकशृङ्गे नगोत्तमे गजशैले तु दुर्गाद्याः सुमेधे वसवस् तथा
आदित्याश् च तथा रुद्राः कृतावासास्तथाश्विनौ अशीतिर्देवपुर्यस्तु हेमकक्षे नगोत्तमे
सुनीले रक्षसां वासाः पञ्चकोटिशतानि च पञ्चकूटे पुराण्यासन् पञ्चकोटिप्रमाणतः
शतशृङ्गे पुरशतं यक्षाणाममितौजसाम् ताम्राभे काद्रवेयाणां विशाखे तु गुहस्य वै
श्वेतोदरे मुनिश्रेष्ठाः सुपर्णस्य महात्मनः पिशाचके कुबेरस्य हरिकूटे हरेर्गृहम्
कुमुदे किंनरावासस् त्व् अञ्जने चारणालयः कृष्णे गन्धर्वनिलयः पाण्डुरे पुरसप्तकम्
विद्याधराणां विप्रेन्द्रा विश्वभोगसमन्वितम् सहस्रशिखरे शैले दैत्यानामुग्रकर्मणाम्
पुराणां तु सहस्राणि सप्त शक्रारिणां द्विजाः मुकुटे पन्नगावासः पुष्पकेतौ मुनीश्वराः
वैवस्वतस्य सोमस्य वायोर्नागाधिपस्य च तक्षके चैव शैलेन्द्रे चत्वार्यायतनानि च
ब्रह्मेन्द्रविष्णुरुद्राणां गुहस्य च महात्मनः कुबेरस्य च सोमस्य तथान्येषां महात्मनाम्
सन्त्यायतनमुख्यानि मर्यादापर्वतेष्वपि श्रीकण्ठाद्रिगुहावासी सर्वावासः सहोमया
श्रीकण्ठस्याधिपत्यं वै सर्वदेवेश्वरस्य च अण्डस्यास्य प्रवृत्तिस्तु श्रीकण्ठेन न संशयः
अनन्तेशादयस्त्वेवं प्रत्येकं चाण्डपालकाः चक्रवर्तिन इत्युक्तास् ततो विद्येश्वरास्त्विह
श्रीकण्ठाधिष्ठितान्यत्र स्थानानि च समासतः मर्यादापर्वतेष्वद्य शृण्वन्तु प्रवदाम्य् अहम्
श्रीकण्ठाधिष्ठितं विश्वं चराचरमिदं जगत् कालाग्निशिवपर्यन्तं कथं वक्ष्ये सविस्तरम्
देवकूटे गिरौ मध्ये महाकूटे सुशोभने हेमवैडूर्यमाणिक्यनीलगोमेदकान्तिभिः
तथान्यैर्मणिमुख्यैश् च निर्मिते निर्मले शुभे शाखाशतसहस्राढ्ये सर्वद्रुमविभूषिते
चम्पकाशोकपुंनागवकुलासनमण्डिते पारिजातकसम्पूर्णे नानापक्षिगणान्विते
नैकधातुशतैश्चित्रे विचित्रकुसुमाकुले नितम्बपुष्पसालम्बेन्-ऐकसत्त्वगणान्विते
विमलस्वादुपानीयेन्-ऐकप्रस्रवणैर्युते निर्झरैः कुसुमाकीर्णैर् अनेकैश् च विभूषिते
पुष्पोडुपवहाभिश् च स्रवन्तीभिर् अलंकृते स्निग्धवर्णं महामूलम् अनेकस्कन्धपादपम्
रम्यं ह्यविरलच्छायं दशयोजनमण्डलम् तत्र भूतवनं नाम नानाभूतगणालयम्
महादेवस्य देवस्य शङ्करस्य महात्मनः दीप्तमायतनं तत्र महामणिविभूषितम्