रुद्रक्षेत्राणि दिव्यानि स्थापितानि सुरोत्तमैः दिग्भागे दक्षिणे प्रोक्ताः पश्चिमे च वदामि वः
अपरेण सितोदश् च सुरपश् च महाबलः कुमुदो मधुमांश्चैव ह्य् अञ्जनो मुकुटस् तथा
कृष्णश् च पाण्डुरश्चैव सहस्रशिखरश् च यः पारिजातश् च शैलेन्द्रः श्रीशृङ्गश्चाचलोत्तमः
इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः सर्वे पश्चिमदिग्भागे रुद्रक्षेत्रसमन्विताः
महाभद्रस्य सरसश् चोत्तरे च महाबलाः ये स्थिताः कीर्त्यमानांस्तान् संक्षिप्येह निबोधत
शङ्खकूटो महाशैलो वृषभो हंसपर्वतः नागश् च कपिलश्चैव इन्द्रशैलश् च सानुमान्
नीलः कण्टकशृङ्गश् च शतशृङ्गश् च पर्वतः पुष्पकोशः प्रशैलश् च विरजश्चाचलोत्तमः
वराहपर्वतश्चैव मयूरश्चाचलोत्तमः जारुधिश्चैव शैलेन्द्र एत उत्तरसंस्थिताः
तेषु शैलेषु दिव्येषु देवदेवस्य शूलिनः असंख्यातानि दिव्यानि विमानानि सहस्रशः
एतेषां शैलमुख्यानाम् अन्तरेषु यथाक्रमम् सन्ति चैवान्तरद्रोण्यः सरांस्युपवनानि च
वसन्ति देवा मुनयः सिद्धाश् च शिवभाविताः कृतवासाः सपत्नीकाः प्रसादात्परमेष्ठिनः
लक्ष्म्याद्यानां बिल्ववने ककुभे कश्यपादयः तथा तालवने प्रोक्तम् इन्द्रोपेन्द्रोरगात्मनाम्
उदुंबरे कर्दमस्य तथान्येषां महात्मनाम् विद्याधराणां सिद्धानां पुण्ये त्वाम्रवने शुभे
नागानां सिद्धसंघानां तथा निंबवने स्थितिः सूर्यस्य किंशुकवने तथा रुद्रगणस्य च
बीजपूरवने पुण्ये देवाचार्यो व्यवस्थितः कौमुदे तु वने विष्णुप्रमुखानां महात्मनाम्
स्थलपद्मवनान्तस्थन्यग्रोधे ऽशेषभोगिनः शेषस्त्वशेषजगतां पतिरास्ते ऽतिगर्वितः
स एव जगतां कालः पाताले च व्यवस्थितः विष्णोर्विश्वगुरोर्मूर्तिर् दिव्यः साक्षाद्धलायुधः
शयनं देवदेवस्य स हरेः कङ्कणं विभोः वने पनसवृक्षाणां सशुक्रा दानवादयः
किन्नरैरुरगाश्चैव विशाखकवने स्थिताः मनोहरवने वृक्षाः सर्वकोटिसमन्विताः
नन्दीश्वरो गणवरैः स्तूयमानो व्यवस्थितः संतानकस्थलीमध्ये साक्षाद्देवी सरस्वती
एवं संक्षेपतः प्रोक्ता वनेषु वनवासिनः असंख्याता मयाप्यत्र वक्तुं नो विस्तरेण तु
शितान्तशिखरे शक्रः पारिजातवने शुभे तस्य प्राच्यां कुमुदाद्रिकूटो ऽसौ बहुविस्तरः
अष्टौ पुराण्युदीर्णानि दानवानां द्विजोत्तमाः सुवर्णकोटरे पुण्ये राक्षसानां महात्मनाम्
नीलकानां पुराण्याहुर् अष्टषष्टिर्द्विजोत्तमाः महानीले ऽपि शैलेन्द्रे पुराणि दश पञ्च च
हयाननानां मुख्यानां किन्नराणां च सुव्रताः वेणुसौधे महाशैले विद्याधरपुरत्रयम्
वैकुण्ठे गरुडः श्रीमान् करञ्जे नीललोहितः वसुधारे वसूनां तु निवासः परिकीर्तितः
रत्नधारे गिरिवरे सप्तर्षीणां महात्मनाम् सप्तस्थानानि पुण्यानि सिद्धावासयुतानि च
महत्प्रजापतेः स्थानम् एकशृङ्गे नगोत्तमे गजशैले तु दुर्गाद्याः सुमेधे वसवस् तथा
आदित्याश् च तथा रुद्राः कृतावासास्तथाश्विनौ अशीतिर्देवपुर्यस्तु हेमकक्षे नगोत्तमे
सुनीले रक्षसां वासाः पञ्चकोटिशतानि च पञ्चकूटे पुराण्यासन् पञ्चकोटिप्रमाणतः