मन्दरस्य गिरेः शृङ्गे महावृक्षः सकेतुराट् प्रलम्बशाखाशिखरः कदम्बश् चैत्यपादपः
दक्षिणस्यापि शैलस्य शिखरे देवसेविता जम्बूः सदा पुण्यफला सदा माल्योपशोभिता
सकेतुर् दक्षिणे द्वीपे जम्बूर्लोकेषु विश्रुता विपुलस्यापि शैलस्य पश्चिमे च महात्मनः
संजातः शिखरे ऽश्वत्थः स महान् चैत्यपादपः सुपार्श्वस्योत्तरस्यापि शृङ्गे जातो महाद्रुमः
न्यग्रोधो विपुलस्कन्धो ऽनेकयोजनमण्डलः तेषां चतुर्णां वक्ष्यामि शैलेन्द्राणां यथाक्रमम्
अमानुष्याणि रम्याणि सर्वकालर्तुकानि च मनोहराणि चत्वारि देवक्रीडनकानि च
वनानि वै चतुर्दिक्षु नामतस्तु निबोधत पूर्वे चैत्ररथं नाम दक्षिणे गन्धमादनम्
वैभ्राजं पश्चिमे विद्याद् उत्तरे सवितुर्वनम् मित्रेश्वरं तु पूर्वे तु षष्ठेश्वरम् अतः परम्
वर्येश्वरं पश्चिमे तु उत्तरे चाम्रकेश्वरम् महासरांसि च तथा चत्वारि मुनिपुङ्गवाः
यत्र क्रीडन्ति मुनयः पर्वतेषु वनेषु च अरुणोदं सरः पूर्वं दक्षिणं मानसं स्मृतम्
सितोदं पश्चिमसरो महाभद्रं तथोत्तरम् शाखस्य दक्षिणे क्षेत्रं विशाखस्य च पश्चिमे
उत्तरे नैगमेयस्य कुमारस्य च पूर्वतः अरुणोदस्य पूर्वेण शैलेन्द्रा नामतः स्मृताः
तांस्तु संक्षेपतो वक्ष्ये न शक्यं विस्तरेण तु सितान्तश् च कुरण्डश् च कुररश्चाचलोत्तमः
विकरो मणिशैलश् च वृक्षवांश्चाचलोत्तमः महानीलो ऽथ रुचकः सबिन्दुर्दर्दुरस् तथा
वेणुमांश् च समेघश् च निषधो देवपर्वतः इत्येते पर्वतवरा ह्य् अन्ये च गिरयस् तथा
पूर्वेण मन्दरस्यैते सिद्धावासा उदाहृताः तेषु तेषु गिरीन्द्रेषु गुहासु च वनेषु च
रुद्रक्षेत्राणि दिव्यानि विष्णोर्नारायणस्य च सरसो मानसस्येह दक्षिणेन महाचलाः
ये कीर्त्यमानास्तान्सर्वान् संक्षिप्य प्रवदाम्यहम् शैलश् च विशिराश्चैव शिखरश्चाचलोत्तमः
एकशृङ्गो महाशूलो गजशैलः पिशाचकः पञ्चशैलो ऽथ कैलासो हिमवांश्चाचलोत्तमः
इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः तेषु तेषु च सर्वेषु पर्वतेषु वनेषु च
रुद्रक्षेत्राणि दिव्यानि स्थापितानि सुरोत्तमैः दिग्भागे दक्षिणे प्रोक्ताः पश्चिमे च वदामि वः
अपरेण सितोदश् च सुरपश् च महाबलः कुमुदो मधुमांश्चैव ह्य् अञ्जनो मुकुटस् तथा
कृष्णश् च पाण्डुरश्चैव सहस्रशिखरश् च यः पारिजातश् च शैलेन्द्रः श्रीशृङ्गश्चाचलोत्तमः
इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः सर्वे पश्चिमदिग्भागे रुद्रक्षेत्रसमन्विताः
महाभद्रस्य सरसश् चोत्तरे च महाबलाः ये स्थिताः कीर्त्यमानांस्तान् संक्षिप्येह निबोधत
शङ्खकूटो महाशैलो वृषभो हंसपर्वतः नागश् च कपिलश्चैव इन्द्रशैलश् च सानुमान्
नीलः कण्टकशृङ्गश् च शतशृङ्गश् च पर्वतः पुष्पकोशः प्रशैलश् च विरजश्चाचलोत्तमः
वराहपर्वतश्चैव मयूरश्चाचलोत्तमः जारुधिश्चैव शैलेन्द्र एत उत्तरसंस्थिताः
तेषु शैलेषु दिव्येषु देवदेवस्य शूलिनः असंख्यातानि दिव्यानि विमानानि सहस्रशः
एतेषां शैलमुख्यानाम् अन्तरेषु यथाक्रमम् सन्ति चैवान्तरद्रोण्यः सरांस्युपवनानि च