चतुर्वर्णः ससौवर्णो मेरुश्चोर्ध्वायतः स्मृतः वृत्ताकृतिपरीणाहश् चतुरस्रः समुत्थितः
नीलश् च वैडूर्यमयः श्वेतः शुक्लो हिरण्मयः मयूरबर्हवर्णस्तु शातकुंभस् त्रिशृङ्गवान्
एवं संक्षेपतः प्रोक्ताः पुनः शृणु गिरीश्वरान् मन्दरो देवकूटश् च पूर्वस्यां दिशि पर्वतौ
कैलासो गन्धमादश् च हेमवांश्चैव पर्वतौ पूर्वतश् चायतावेताव् अर्णवान्तर्व्यवस्थितौ
निषधः पारियात्रश् च द्वावेतौ वरपर्वतौ यथा पूर्वौ तथा याम्याव् एतौ पश्चिमतः श्रितौ
त्रिशृङ्गो जारुचिश्चैव उत्तरौ वरपर्वतौ पूर्वतश् चायतावेताव् अर्णवान्तर्व्यवस्थितौ
मर्यादापर्वतान् एतान् अष्टावाहुर्मनीषिणः यो ऽसौ मेरुर्द्विजश्रेष्ठाः प्रांशुः कनकपर्वतः
तस्य पादास्तु चत्वारश् चतुर्दिक्षु नगोत्तमाः यैर्विष्टब्धा न चलति सप्तद्वीपवती मही
दशयोजनसाहस्रम् आयामस् तेषु पठ्यते पूर्वे तु मन्दरो नाम दक्षिणे गन्धमादनः
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः महावृक्षाः समुत्पन्नाश् चत्वारो द्वीपकेतवः
मन्दरस्य गिरेः शृङ्गे महावृक्षः सकेतुराट् प्रलम्बशाखाशिखरः कदम्बश् चैत्यपादपः
दक्षिणस्यापि शैलस्य शिखरे देवसेविता जम्बूः सदा पुण्यफला सदा माल्योपशोभिता
सकेतुर् दक्षिणे द्वीपे जम्बूर्लोकेषु विश्रुता विपुलस्यापि शैलस्य पश्चिमे च महात्मनः
संजातः शिखरे ऽश्वत्थः स महान् चैत्यपादपः सुपार्श्वस्योत्तरस्यापि शृङ्गे जातो महाद्रुमः
न्यग्रोधो विपुलस्कन्धो ऽनेकयोजनमण्डलः तेषां चतुर्णां वक्ष्यामि शैलेन्द्राणां यथाक्रमम्
अमानुष्याणि रम्याणि सर्वकालर्तुकानि च मनोहराणि चत्वारि देवक्रीडनकानि च
वनानि वै चतुर्दिक्षु नामतस्तु निबोधत पूर्वे चैत्ररथं नाम दक्षिणे गन्धमादनम्
वैभ्राजं पश्चिमे विद्याद् उत्तरे सवितुर्वनम् मित्रेश्वरं तु पूर्वे तु षष्ठेश्वरम् अतः परम्
वर्येश्वरं पश्चिमे तु उत्तरे चाम्रकेश्वरम् महासरांसि च तथा चत्वारि मुनिपुङ्गवाः
यत्र क्रीडन्ति मुनयः पर्वतेषु वनेषु च अरुणोदं सरः पूर्वं दक्षिणं मानसं स्मृतम्
सितोदं पश्चिमसरो महाभद्रं तथोत्तरम् शाखस्य दक्षिणे क्षेत्रं विशाखस्य च पश्चिमे
उत्तरे नैगमेयस्य कुमारस्य च पूर्वतः अरुणोदस्य पूर्वेण शैलेन्द्रा नामतः स्मृताः
तांस्तु संक्षेपतो वक्ष्ये न शक्यं विस्तरेण तु सितान्तश् च कुरण्डश् च कुररश्चाचलोत्तमः
विकरो मणिशैलश् च वृक्षवांश्चाचलोत्तमः महानीलो ऽथ रुचकः सबिन्दुर्दर्दुरस् तथा
वेणुमांश् च समेघश् च निषधो देवपर्वतः इत्येते पर्वतवरा ह्य् अन्ये च गिरयस् तथा
पूर्वेण मन्दरस्यैते सिद्धावासा उदाहृताः तेषु तेषु गिरीन्द्रेषु गुहासु च वनेषु च
रुद्रक्षेत्राणि दिव्यानि विष्णोर्नारायणस्य च सरसो मानसस्येह दक्षिणेन महाचलाः
ये कीर्त्यमानास्तान्सर्वान् संक्षिप्य प्रवदाम्यहम् शैलश् च विशिराश्चैव शिखरश्चाचलोत्तमः
एकशृङ्गो महाशूलो गजशैलः पिशाचकः पञ्चशैलो ऽथ कैलासो हिमवांश्चाचलोत्तमः
इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः तेषु तेषु च सर्वेषु पर्वतेषु वनेषु च