तस्मिन् शक्रस्य विपुलं पुरं रम्यं यमस्य च सोमस्य वरुणस्याथ निरृतेः पावकस्य च
वायोश्चैव तु रुद्रस्य शर्वालयसमन्ततः तेषां तेषां विमानेषु दिव्येषु विविधेषु च
ईशान्यामीश्वरक्षेत्रे नित्यार्चा च व्यवस्थिता सिद्धेश्वरैश् च भगवाञ् छैलादिः शिष्यसंमतः
सनत्कुमारः सिद्धैस्तु सुखासीनः सुरेश्वरः सनकश् च सनन्दश् च सदृशाश् च सहस्रशः
योगभूमिः क्वचित्तस्मिन् भोगभूमिः क्वचित्क्वचित् बालसूर्यप्रतीकाशं विमानं तत्र शोभनम्
शैलादिनः शुभं चास्ति तस्मिन्नास्ते गणेश्वरः षण्मुखस्य गणेशस्य गणानां तु सहस्रशः
सुयशायाः सुनेत्रायाः मातॄणां मदनस्य च तस्य जम्बूनदी नाम मूलमावेष्ट्य संस्थिता
तस्य दक्षिणपार्श्वे तु जम्बूवृक्षः सुशोभनः अत्युच्छ्रितः सुविस्तीर्णः सर्वकालफलप्रदः
मेरोः समन्ताद्विस्तीर्णं शुभं वर्षमिलावृतम् तत्र जम्बूफलाहाराः केचिच्चामृतभोजनाः
जांबूनदसमप्रख्या नानावर्णाश् च भोगिनः मेरुपादाश्रितो विप्रा द्वीपो ऽयं मध्यमः शुभः
नववर्षान्वितश्चैव नदीनदगिरीश्वरैः नववर्षं तु वक्ष्यामि जंबूद्वीपं यथातथम्
विस्तारान्मण्डलाच्चैव योजनैश् च निबोधत
शतमेकं सहस्राणां योजनानां स तु स्मृतः अनु द्वीपं सहस्राणां द्विगुणं द्विगुणोत्तरम्
पञ्चाशत्कोटिविस्तीर्णा ससमुद्रा धरा स्मृता द्वीपैश् च सप्तभिर् युक्ता लोकालोकावृता शुभा
नीलस्तथोत्तरे मेरोः श्वेतस्तस्योत्तरे पुनः शृङ्गी तस्योत्तरे विप्रास् त्रयस्ते वर्षपर्वताः
जठरो देवकूटश् च पूर्वस्यां दिशि पर्वतौ निषधो दक्षिणे मेरोस् तस्य दक्षिणतो गिरिः हेमकूट इति ख्यातो हिमवांस्तस्य दक्षिणे
मेरोः पश्चिमतश्चैव पर्वतौ द्वौ धराधरौ माल्यवान्गन्धमादश् च द्वावेतावुदगायतौ
एते पर्वतराजानः सिद्धचारणसेविताः तेषाम् अन्तरविष्कम्भो नवसाहस्रमेकशः
इदं हैमवतं वर्षं भारतं नाम विश्रुतम् हेमकूटं परं तस्मान् नाम्ना किंपुरुषं स्मृतम्
नैषधं हेमकूटात्तु हरिवर्षं तदुच्यते हरिवर्षात्परं चैव मेरोः शुभमिलावृतम्
इलावृतात्परं नीलं रम्यकं नाम विश्रुतम् रम्यात्परतरं श्वेतं विख्यातं तद्धिरण्मयम्
हिरण्मयात्परं चापि शृङ्गी चैव कुरुः स्मृतः धनुःसंस्थे तु विज्ञेये द्वे वर्षे दक्षिणोत्तरे
दीर्घाणि तत्र चत्वारि मध्यतस्तदिलावृतम् मेरोः पश्चिमपूर्वेण द्वे तु दीर्घेतरे स्मृते
अर्वाक्तु निषधस्याथ वेद्यर्धं चोत्तरं स्मृतम् वेद्यर्धे दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे
तयोर्मध्ये च विज्ञेयं मेरुमध्यमिलावृतम् दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
उदगायतो महाशैलो माल्यवान्नाम पर्वतः योजनानां सहस्रे द्वे उपरिष्टात्तु विस्तृतः
आयामतश्चतुस्त्रिंशत् सहस्राणि प्रकीर्तितः तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः
आयामतः स विज्ञेयो माल्यवानिव विस्तृतः जम्बूद्वीपस्य विस्तारात् समेन तु समन्ततः
प्रागायताः सुपर्वाणः षडेते वर्षपर्वताः अवगाढाश्चोभयतः समुद्रौ पूर्वपश्चिमौ
हिमप्रायस्तु हिमवान् हेमकूटस्तु हेमवान् तरुणादित्यसंकाशो हैरण्यो निषधः स्मृतः