एवंविधैस्तटाकैश् च नदीभिश् च नदैर्युता विराजते पुरी शुभ्रा तयासौ पर्वतः शुभः
तेजस्विनी नाम पुरी आग्नेय्यां पावकस्य तु अमरावतीसमा दिव्या सर्वभोगसमन्विता
वैवस्वती दक्षिणे तु यमस्य यमिनां वराः भवनैरावृता दिव्यैर् जांबूनदमयैः शुभैः
नैरृते कृष्णवर्णा च तथा शुद्धवती शुभा तादृशी गन्धवन्ती च वायव्यां दिशि शोभना
महोदया चोत्तरे च ऐशान्यां तु यशोवती पर्वतस्य दिगन्तेषु शोभते दिवि सर्वदा
ब्रह्मविष्णुमहेशानां तथान्येषां निकेतनम् सर्वभोगयुतं पुण्यं दीर्घिकाभिर्नगोत्तमम्
सिद्धैर्यक्षैस्तु सम्पूर्णं गन्धर्वैर्मुनिपुङ्गवैः तथान्यैर्विविधाकारैर् भूतसंघैश् चतुर्विधैः
गिरेरुपरि विप्रेन्द्राः शुद्धस्फटिकसन्निभम् सहस्रभौमं विस्तीर्णं विमानं वामतः स्थितम्
तस्मिन्महाभुजः शर्वः सोमसूर्याग्निलोचनः सिंहासने मणिमये देव्यास्ते षण्मुखेन च
हरेस्तदर्धं विस्तीर्णं विमानं तत्र सो ऽपि च पद्मरागमयं दिव्यं पद्मजस्य च दक्षिणे
तस्मिन् शक्रस्य विपुलं पुरं रम्यं यमस्य च सोमस्य वरुणस्याथ निरृतेः पावकस्य च
वायोश्चैव तु रुद्रस्य शर्वालयसमन्ततः तेषां तेषां विमानेषु दिव्येषु विविधेषु च
ईशान्यामीश्वरक्षेत्रे नित्यार्चा च व्यवस्थिता सिद्धेश्वरैश् च भगवाञ् छैलादिः शिष्यसंमतः
सनत्कुमारः सिद्धैस्तु सुखासीनः सुरेश्वरः सनकश् च सनन्दश् च सदृशाश् च सहस्रशः
योगभूमिः क्वचित्तस्मिन् भोगभूमिः क्वचित्क्वचित् बालसूर्यप्रतीकाशं विमानं तत्र शोभनम्
शैलादिनः शुभं चास्ति तस्मिन्नास्ते गणेश्वरः षण्मुखस्य गणेशस्य गणानां तु सहस्रशः
सुयशायाः सुनेत्रायाः मातॄणां मदनस्य च तस्य जम्बूनदी नाम मूलमावेष्ट्य संस्थिता
तस्य दक्षिणपार्श्वे तु जम्बूवृक्षः सुशोभनः अत्युच्छ्रितः सुविस्तीर्णः सर्वकालफलप्रदः
मेरोः समन्ताद्विस्तीर्णं शुभं वर्षमिलावृतम् तत्र जम्बूफलाहाराः केचिच्चामृतभोजनाः
जांबूनदसमप्रख्या नानावर्णाश् च भोगिनः मेरुपादाश्रितो विप्रा द्वीपो ऽयं मध्यमः शुभः
नववर्षान्वितश्चैव नदीनदगिरीश्वरैः नववर्षं तु वक्ष्यामि जंबूद्वीपं यथातथम्
विस्तारान्मण्डलाच्चैव योजनैश् च निबोधत
शतमेकं सहस्राणां योजनानां स तु स्मृतः अनु द्वीपं सहस्राणां द्विगुणं द्विगुणोत्तरम्
पञ्चाशत्कोटिविस्तीर्णा ससमुद्रा धरा स्मृता द्वीपैश् च सप्तभिर् युक्ता लोकालोकावृता शुभा
नीलस्तथोत्तरे मेरोः श्वेतस्तस्योत्तरे पुनः शृङ्गी तस्योत्तरे विप्रास् त्रयस्ते वर्षपर्वताः
जठरो देवकूटश् च पूर्वस्यां दिशि पर्वतौ निषधो दक्षिणे मेरोस् तस्य दक्षिणतो गिरिः हेमकूट इति ख्यातो हिमवांस्तस्य दक्षिणे
मेरोः पश्चिमतश्चैव पर्वतौ द्वौ धराधरौ माल्यवान्गन्धमादश् च द्वावेतावुदगायतौ
एते पर्वतराजानः सिद्धचारणसेविताः तेषाम् अन्तरविष्कम्भो नवसाहस्रमेकशः
इदं हैमवतं वर्षं भारतं नाम विश्रुतम् हेमकूटं परं तस्मान् नाम्ना किंपुरुषं स्मृतम्
नैषधं हेमकूटात्तु हरिवर्षं तदुच्यते हरिवर्षात्परं चैव मेरोः शुभमिलावृतम्