हैमीकृतो महेशस्य शुभाङ्गस्पर्शनेन च धत्तूरपुष्पसंकाशः सर्वदेवनिकेतनः
क्रीडाभूमिश् च देवानाम् अनेकाश्चर्यसंयुतः लक्षयोजन आयामस् तस्यैवं तु महागिरेः
ततः षोडशसाहस्रं योजनानि क्षितेरधः शेषं चोपरि विप्रेन्द्रा धरायास्तस्य शृङ्गिणः
मूलायामप्रमाणं तु विस्तारान् मूलतो गिरेः ऊचुर्विस्तारमस्यैव द्विगुणं मूलतो गिरेः
पूर्वतः पद्मरागाभो दक्षिणे हेमसन्निभः पश्चिमे नीलसंकाश उत्तरे विद्रुमप्रभः
अमरावती पूर्वभागे नानाप्रासादसंकुला नानादेवगणैः कीर्णा मणिजालसमावृता
गोपुरैर्विविधाकारैर् हेमरत्नविभूषितैः तोरणैर् हेमचित्रैस्तु मणिकॢप्तैः पथि स्थितैः
संलापालापकुशलैः सर्वाभरणभूषितैः स्तनभारविनम्रैश् च मदघूर्णितलोचनैः
स्त्रीसहस्रैः समाकीर्णा चाप्सरोभिः समन्ततः दीर्घिकाभिर्विचित्राभिः फुल्लाम्भोरुहसंकुलैः
हेमसोपानसंयुक्तैर् हेमसैकतराशिभिः नीलोत्पलैश्चोत्पलैश् च हैमैश्चापि सुगन्धिभिः
एवंविधैस्तटाकैश् च नदीभिश् च नदैर्युता विराजते पुरी शुभ्रा तयासौ पर्वतः शुभः
तेजस्विनी नाम पुरी आग्नेय्यां पावकस्य तु अमरावतीसमा दिव्या सर्वभोगसमन्विता
वैवस्वती दक्षिणे तु यमस्य यमिनां वराः भवनैरावृता दिव्यैर् जांबूनदमयैः शुभैः
नैरृते कृष्णवर्णा च तथा शुद्धवती शुभा तादृशी गन्धवन्ती च वायव्यां दिशि शोभना
महोदया चोत्तरे च ऐशान्यां तु यशोवती पर्वतस्य दिगन्तेषु शोभते दिवि सर्वदा
ब्रह्मविष्णुमहेशानां तथान्येषां निकेतनम् सर्वभोगयुतं पुण्यं दीर्घिकाभिर्नगोत्तमम्
सिद्धैर्यक्षैस्तु सम्पूर्णं गन्धर्वैर्मुनिपुङ्गवैः तथान्यैर्विविधाकारैर् भूतसंघैश् चतुर्विधैः
गिरेरुपरि विप्रेन्द्राः शुद्धस्फटिकसन्निभम् सहस्रभौमं विस्तीर्णं विमानं वामतः स्थितम्
तस्मिन्महाभुजः शर्वः सोमसूर्याग्निलोचनः सिंहासने मणिमये देव्यास्ते षण्मुखेन च
हरेस्तदर्धं विस्तीर्णं विमानं तत्र सो ऽपि च पद्मरागमयं दिव्यं पद्मजस्य च दक्षिणे
तस्मिन् शक्रस्य विपुलं पुरं रम्यं यमस्य च सोमस्य वरुणस्याथ निरृतेः पावकस्य च
वायोश्चैव तु रुद्रस्य शर्वालयसमन्ततः तेषां तेषां विमानेषु दिव्येषु विविधेषु च
ईशान्यामीश्वरक्षेत्रे नित्यार्चा च व्यवस्थिता सिद्धेश्वरैश् च भगवाञ् छैलादिः शिष्यसंमतः
सनत्कुमारः सिद्धैस्तु सुखासीनः सुरेश्वरः सनकश् च सनन्दश् च सदृशाश् च सहस्रशः
योगभूमिः क्वचित्तस्मिन् भोगभूमिः क्वचित्क्वचित् बालसूर्यप्रतीकाशं विमानं तत्र शोभनम्
शैलादिनः शुभं चास्ति तस्मिन्नास्ते गणेश्वरः षण्मुखस्य गणेशस्य गणानां तु सहस्रशः
सुयशायाः सुनेत्रायाः मातॄणां मदनस्य च तस्य जम्बूनदी नाम मूलमावेष्ट्य संस्थिता
तस्य दक्षिणपार्श्वे तु जम्बूवृक्षः सुशोभनः अत्युच्छ्रितः सुविस्तीर्णः सर्वकालफलप्रदः
मेरोः समन्ताद्विस्तीर्णं शुभं वर्षमिलावृतम् तत्र जम्बूफलाहाराः केचिच्चामृतभोजनाः
जांबूनदसमप्रख्या नानावर्णाश् च भोगिनः मेरुपादाश्रितो विप्रा द्वीपो ऽयं मध्यमः शुभः