शङ्कुकर्णेन संभिन्नं तथा नमुचिपूर्वकैः तथान्यैर् विविधैर् वीरैस् तलं चैव सुशोभितम्
तलेषु तेषु सर्वेषु चाम्बया परमेश्वरः स्कन्देन नन्दिना सार्धं गणपैः सर्वतो वृतः
तलानां चैव सर्वेषाम् ऊर्ध्वतः सप्तसप्तमाः क्ष्मातलानि धरा चापि सप्तधा कथयामि वः
सप्तद्वीपा तथा पृथ्वी नदीपर्वतसंकुला समुद्रैः सप्तभिश्चैव सर्वतः समलंकृता
जम्बूः प्लक्षः शाल्मलिश् च कुशः क्रौञ्चस्तथैव च शाकः पुष्करनामा च द्वीपास्त्वभ्यन्तरे क्रमात्
सप्तद्वीपेषु सर्वेषु साम्बः सर्वगणैर्वृतः नानावेषधरो भूत्वा सान्निध्यं कुरुते हरः
क्षारोदेक्षुरसोदश् च सुरोदश् च घृतोदधिः दध्यर्णवश् च क्षीरोदः स्वादूदश्चाप्यनुक्रमात्
समुद्रेष्विह सर्वेषु सर्वदा सगणः शिवः जलरूपी भवः श्रीमान् क्रीडते चोर्मिबाहुभिः
क्षीरार्णवामृतमिव सदा क्षीरार्णवे हरिः शेते शिवज्ञानधिया साक्षाद्वै योगनिद्रया
यदा प्रबुद्धो भगवान् प्रबुद्धमखिलं जगत् यदा सुप्तस्तदा सुप्तं तन्मयं च चराचरम्
तेनैव सृष्टमखिलं धृतं रक्षितमेव च संहृतं देवदेवस्य प्रसादात्परमेष्ठिनः
सुषेणा इति विख्याता यजन्ते पुरुषर्षभम् अनिरुद्धं मुनिश्रेष्ठाः शङ्खचक्रगदाधरम्
ये चानिरुद्धं पुरुषं ध्यायन्त्यात्मविदां वराः नारायणसमाः सर्वे सर्वसंपत्समन्विताः
सनन्दनश् च भगवान् सनकश् च सनातनः वालखिल्याश् च सिद्धाश् च मित्रावरुणकौ तथा
यजन्ति सततं तत्र विश्वस्य प्रभवं हरिम् सप्तद्वीपेषु तिष्ठन्ति नानाशृङ्गा महोदयाः
आसमुद्रायताः केचिद् गिरयो गह्वरैस् तथा धरायाः पतयश्चासन् बहवः कालगौरवात्
सामर्थ्यात्परमेशानाः क्रौञ्चारेर्जनकात्प्रभोः मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह
प्रवक्ष्यामि धरेशान् वो वक्ष्ये स्वायंभुवे ऽन्तरे मन्वन्तरेषु सर्वेषु अतीतानागतेषु च
तुल्याभिमानिनश्चैव सर्वे तुल्यप्रयोजनाः स्वायंभुवस्य च मनोः पौत्रास्त्वासन्महाबलाः
प्रियव्रतात्मजा वीरास् ते दशेह प्रकीर्तिताः आग्नीध्रश्चाग्निबाहुश् च मेधा मेधातिथिर्वसुः
ज्योतिष्मान्द्युतिमान् हव्यः सवनः पुत्र एव च प्रियव्रतो ऽभ्यषिञ्चत्तान् सप्त सप्तसु पार्थिवान्
जम्बूद्वीपेश्वरं चक्रे आग्नीध्रं सुमहाबलम् प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः
शाल्मलेश् च वपुष्मन्तं राजानमभिषिक्तवान् ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान्नृपः
द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः
पुष्कराधिपतिं चक्रे सवनं चापि सुव्रताः पुष्करे सवनस्यापि महावीतः सुतो ऽभवत्
धातकी चैव द्वावेतौ पुत्रौ पुत्रवतां वरौ महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः
नाम्ना तु धातकेश्चैव धातकीखण्डमुच्यते हव्यो ऽप्यजनयत् पुत्राञ् छाकद्वीपेश्वरः प्रभुः
जलदं च कुमारं च सुकुमारं मणीचकम् कुसुमोत्तरमोदाकी सप्तमस्तु महाद्रुमः
अलदं जलदस्याथ वर्षं प्रथममुच्यते कुमारस्य तु कौमारं द्वितीयं परिकीर्तितम्
सुकुमारं तृतीयं तु सुकुमारस्य कीर्त्यते मणीचकं चतुर्थं तु माणीचकमिहोच्यते