लब्धं शशिप्रभं छत्रं तया तत्र विभूषितम् चामरे चामरासक्तहस्ताग्रैः स्त्रीगणैर्युता
सिंहासनं च परमं तया चाधिष्ठितं मया अलंकृता महालक्ष्म्या मुकुटाद्यैः सुभूषणैः
लब्धो हारश् च परमो देव्याः कण्ठगतस् तथा वृषेन्द्रश् च सितो नागः सिंहः सिंहध्वजस् तथा
रथश् च हेमच्छत्रं च चन्द्रबिंबसमप्रभम् अद्यापि सदृशः कश्चिन् मया नास्ति विभुः क्वचित्
सान्वयं च गृहीत्वेशस् तथा संबन्धिबान्धवैः आरुह्य वृषमीशानो मया देव्या गतः शिवः
तदा देवीं भवं दृष्ट्वा मया च प्रार्थयन् गणैः मुनिदेवर्षयः सिद्धा आज्ञां पाशुपतीं द्विजाः
अथाज्ञां प्रददौ तेषाम् अर्हाणाम् आज्ञया विभोः नन्दिको नगजाभर्तुस् तेषां पाशुपतीं शुभाम्
तस्माद्धि मुनयो लब्ध्वा तदाज्ञां मुनिपुङ्गवात् भवभक्तास्तदा चासंस् तस्मादेवं समर्चयेत्
नमस्कारविहीनस्तु नाम उद्गिरयेद्भवे ब्रह्मघ्नदशसंतुल्यं तस्य पापं गरीयसम्
तस्मात्सर्वप्रकारेण नमस्कारादिमुच्चरेत् आदौ कुर्यान्नमस्कारं तदन्ते शिवतां व्रजेत्
सूत सुव्यक्तमखिलं कथितं शङ्करस्य तु सर्वात्मभावं रुद्रस्य स्वरूपं वक्तुमर्हसि
भूर्भुवः स्वर्महश्चैव जनः साक्षात्तपस् तथा सत्यलोकश् च पातालं नरकार्णवकोटयः
तारकाग्रहसोमार्का ध्रुवः सप्तर्षयस् तथा वैमानिकास्तथान्ये च तिष्ठन्त्यस्य प्रसादतः
अनेन निर्मितास्त्वेवं तदात्मानो द्विजर्षभाः समष्टिरूपः सर्वात्मा संस्थितः सर्वदा शिवः
सर्वात्मानं महात्मानं महादेवं महेश्वरम् न विजानन्ति संमूढा मायया तस्य मोहिताः
तस्य देवस्य रुद्रस्य शरीरं वै जगत्त्रयम् तस्मात्प्रणम्य तं वक्ष्ये जगतां निर्णयं शुभम्
पुरा वः कथितं सर्वं मयाण्डस्य यथा कृतिः भुवनानां स्वरूपं च ब्रह्माण्डे कथयाम्यहम्
पृथिवी चान्तरिक्षं च स्वर्महर्जन एव च तपः सत्यं च सप्तैते लोकास्त्वण्डोद्भवाः शुभाः
अधस्तादत्र चैतेषां द्विजाः सप्त तलानि तु महातलादयस्तेषां अधस्तान्नरकाः क्रमात्
महातलं हेमतलं सर्वरत्नोपशोभितम् प्रासादैश् च विचित्रैश् च भवस्यायतनैस् तथा
अनन्तेन च संयुक्तं मुचुकुन्देन धीमता नृपेण बलिना चैव पातालस्वर्गवासिना
शैलं रसातलं विप्राः शार्करं हि तलातलम् पीतं सुतलमित्युक्तं वितलं विद्रुमप्रभम्
सितं हि अतलं तच्च तलं यच्च सितेतरम् क्ष्मायास्तु यावद्विस्तारो ह्य् अधस्तेषां च सुव्रताः
तलानां चैव सर्वेषां तावत्संख्या समाहिता सहस्रयोजनं व्योम दशसाहस्रमेव च
लक्षं सप्तसहस्रं हि तलानां सघनस्य तु व्योम्नः प्रमाणं मूलं तु त्रिंशत्साहस्रकेण तु
सुवर्णेन मुनिश्रेष्ठास् तथा वासुकिना शुभम् रसातलमिति ख्यातं तथान्यैश् च निषेवितम्
विरोचनहिरण्याक्षनरकाद्यैश् च सेवितम् तलातलमिति ख्यातं सर्वशोभासमन्वितम्
वैनायकादिभिश्चैव कालनेमिपुरोगमैः पूर्वदेवैः समाकीर्णं सुतलं च तथापरैः
वितलं दानवाद्यैश् च तारकाग्निमुखैस् तथा महान्तकाद्यैर् नागैश् च प्रह्लादेनासुरेण च
वितलं चात्र विख्यातं कम्बलाश्वनिषेवितम् महाकुम्भेन वीरेण हयग्रीवेण धीमता