सम्भाराणि तथान्यानि विविधानि बहून्यपि समन्तान् निन्युर् अव्यग्रा गणपा देवसंमताः
ततो देवाश् च सेन्द्राश् च नारायणमुखास् तथा मुनयो भगवान्ब्रह्मा नवब्रह्माण एव च
देवैश् च लोकाः सर्वे ते ततो जग्मुर्मुदा युताः तेष्वागतेषु सर्वेषु भगवान्परमेश्वरः
सर्वकार्यविधिं कर्तुम् आदिदेश पितामहम् पितामहो ऽपि भगवान् नियोगादेव तस्य तु
चकार सर्वं भगवान् अभिषेकं समाहितः अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषेचयत्
ततो विष्णुस्ततः शक्रो लोकपालास्तथैव च अभ्यषिञ्चन्त विधिवद् गणेन्द्रं शिवशासनात्
ऋषयस्तुष्टुवुश्चैव पिता महपुरोगमाः स्तुतवत्सु ततस्तेषु विष्णुः सर्वजगत्पतिः
शिरस्यञ्जलिमादाय तुष्टाव च समाहितः प्राञ्जलिः प्रणतो भूत्वा जयशब्दं चकार च
ततो गणाधिपाः सर्वे ततो देवास्ततो ऽसुराः एवं स्तुतश्चाभिषिक्तो देवैः सब्रह्मकैस्तदा
उद्वाहश् च कृतस्तत्र नियोगात्परमेष्ठिनः मरुतां च सुता देवी सुयशाख्या बभूव या
लब्धं शशिप्रभं छत्रं तया तत्र विभूषितम् चामरे चामरासक्तहस्ताग्रैः स्त्रीगणैर्युता
सिंहासनं च परमं तया चाधिष्ठितं मया अलंकृता महालक्ष्म्या मुकुटाद्यैः सुभूषणैः
लब्धो हारश् च परमो देव्याः कण्ठगतस् तथा वृषेन्द्रश् च सितो नागः सिंहः सिंहध्वजस् तथा
रथश् च हेमच्छत्रं च चन्द्रबिंबसमप्रभम् अद्यापि सदृशः कश्चिन् मया नास्ति विभुः क्वचित्
सान्वयं च गृहीत्वेशस् तथा संबन्धिबान्धवैः आरुह्य वृषमीशानो मया देव्या गतः शिवः
तदा देवीं भवं दृष्ट्वा मया च प्रार्थयन् गणैः मुनिदेवर्षयः सिद्धा आज्ञां पाशुपतीं द्विजाः
अथाज्ञां प्रददौ तेषाम् अर्हाणाम् आज्ञया विभोः नन्दिको नगजाभर्तुस् तेषां पाशुपतीं शुभाम्
तस्माद्धि मुनयो लब्ध्वा तदाज्ञां मुनिपुङ्गवात् भवभक्तास्तदा चासंस् तस्मादेवं समर्चयेत्
नमस्कारविहीनस्तु नाम उद्गिरयेद्भवे ब्रह्मघ्नदशसंतुल्यं तस्य पापं गरीयसम्
तस्मात्सर्वप्रकारेण नमस्कारादिमुच्चरेत् आदौ कुर्यान्नमस्कारं तदन्ते शिवतां व्रजेत्
सूत सुव्यक्तमखिलं कथितं शङ्करस्य तु सर्वात्मभावं रुद्रस्य स्वरूपं वक्तुमर्हसि
भूर्भुवः स्वर्महश्चैव जनः साक्षात्तपस् तथा सत्यलोकश् च पातालं नरकार्णवकोटयः
तारकाग्रहसोमार्का ध्रुवः सप्तर्षयस् तथा वैमानिकास्तथान्ये च तिष्ठन्त्यस्य प्रसादतः
अनेन निर्मितास्त्वेवं तदात्मानो द्विजर्षभाः समष्टिरूपः सर्वात्मा संस्थितः सर्वदा शिवः
सर्वात्मानं महात्मानं महादेवं महेश्वरम् न विजानन्ति संमूढा मायया तस्य मोहिताः
तस्य देवस्य रुद्रस्य शरीरं वै जगत्त्रयम् तस्मात्प्रणम्य तं वक्ष्ये जगतां निर्णयं शुभम्
पुरा वः कथितं सर्वं मयाण्डस्य यथा कृतिः भुवनानां स्वरूपं च ब्रह्माण्डे कथयाम्यहम्
पृथिवी चान्तरिक्षं च स्वर्महर्जन एव च तपः सत्यं च सप्तैते लोकास्त्वण्डोद्भवाः शुभाः
अधस्तादत्र चैतेषां द्विजाः सप्त तलानि तु महातलादयस्तेषां अधस्तान्नरकाः क्रमात्
महातलं हेमतलं सर्वरत्नोपशोभितम् प्रासादैश् च विचित्रैश् च भवस्यायतनैस् तथा