ततः स भगवाञ्शर्वः सर्वलोकेश्वरेश्वरः सस्मार गणपान् दिव्यान् देवदेवो वृषध्वजः
स्मरणादेव रुद्रस्य सम्प्राप्ताश् च गणेश्वराः सर्वे सहस्रहस्ताश् च सहस्रायुधपाणयः
त्रिनेत्राश् च महात्मानस् त्रिदशैरपि वन्दिताः कोटिकालाग्निसंकाशा जटामुकुटधारिणः
दंष्ट्राकरालवदना नित्या बुद्धाश् च निर्मलाः कोटिकोटिगणैस्तुल्यैर् आत्मना च गणेश्वराः असंख्याता महात्मानस् तत्राजग्मुर्मुदा युताः
गायन्तश् च द्रवन्तश् च नृत्यन्तश् च महाबलाः मुखाडम्बरवाद्यानि वादयन्तस्तथैव च
रथैर्नागैर्हयैश्चैव सिंहमर्कटवाहनाः विमानेषु तथारूढा हेमचित्रेषु वै गणाः
भेरीमृदङ्गकाद्यैश् च पणवानकगोमुखैः वादित्रैर्विविधैश्चान्यैः पटहैरेकपुष्करैः
भेरीमुरजसंनादैर् आडम्बरकडिण्डिमैः मर्दलैर्वेणुवीणाभिर् विविधैस्तालनिःस्वनैः
दर्दुरैस्तलघातैश् च कच्छपैः पणवैरपि वाद्यमानैर्महायोगा आजग्मुर्देवसंसदम्
ते गणेशा महासत्त्वाः सर्वदेवेश्वरेश्वराः प्रणम्य देवं देवीं च इदं वचनम् अब्रुवन्
भगवन्देवदेवेश त्रियंबक वृषध्वज किमर्थं च स्मृता देव आज्ञापय महाद्युते
किं सागराञ्शोषयामो यमं वा सह किङ्करैः हन्मो मृत्युसुतां मृत्युं पशुवद्धन्म पद्मजम्
बद्ध्वेन्द्रं सह देवैश् च सह विष्णुं च वायुना आनयामः सुसंक्रुद्धा दैत्यान्वा सह दानवैः
कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया कस्य वाद्योत्सवो देव सर्वकामसमृद्धये
तांस्तथावादिनः सर्वान् गणेशान् सर्वसंमतान् उवाच देवः सम्पूज्य कोटिकोटिशतान्प्रभुः
शृणुध्वं यत्कृते यूयम् इहाहूता जगद्धिताः श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशङ्किताः
नन्दीश्वरो ऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः विप्रो ऽयं नायकश्चैव सेनानीर् वः समृद्धिमान्
तमिमं मम संदेशाद् यूयं सर्वे ऽपि संमताः सेनान्यम् अभिषिञ्चध्वं महायोगपतिं पतिम्
एवमुक्ता भगवता गणपाः सर्व एव ते एवमस्त्विति संमन्त्र्य संभारानाहरंस्ततः
तस्य सर्वाश्रयं दिव्यं जांबूनदमयं शुभम् आसनं मेरुसंकाशं मनोहरम् उपाहरन्
नैकस्तंभमयं चापि चामीकरवरप्रभम् मुक्तादामावलम्बं च मणिरत्नावभासितम्
स्तंभैश् च वैडूर्यमयैः किङ्किणीजालसंवृतम् चारुरत्नकसंयुक्तं मण्डपं विश्वतोमुखम्
कृत्वा विन्यस्य तन्मध्ये तदासनवरं शुभम् तस्याग्रतः पादपीठं नीलवज्रावभासितम्
चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ सम्पूर्णौ परमाम्भोभिर् अरविन्दावृताननौ
कलशानां सहस्रं तु सौवर्णं राजतं तथा ताम्रजं मृन्मयं चैव सर्वतीर्थाम्बुपूरितम्
वासोयुगं तथा दिव्यं गन्धं दिव्यं तथैव च केयूरे कुण्डले चैव मुकुटं हारमेव च
छत्रं शतशलाकं च वालव्यजनमेव च दत्तं महात्मना तेन ब्रह्मणा परमेष्ठिना
शङ्खहाराङ्गगौरेण पृष्ठेनापि विराजितम् व्यजनं चन्द्रशुभ्रं च हेमदण्डं सुचामरम्
ऐरावतः सुप्रतीको गजावेतौ सुपूजितौ मुकुटं काञ्चनं चैव निर्मितं विश्वकर्मणा
कुण्डले चामले दिव्ये वज्रं चैव वरायुधम् जांबूनदमयं सूत्रं केयूरद्वयमेव च