उक्ता नदी भवस्वेति उत्ससर्ज वृषध्वजः ततः सा दिव्यतोया च पूर्णासितजला शुभा
पद्मोत्पलवनोपेता प्रावर्तत महानदी तामाह च महादेवो नदीं परमशोभनाम्
यस्माज्जटोदकादेव प्रवृत्ता त्वं महानदी तस्माज्जटोदका पुण्या भविष्यसि सरिद्वरा
त्वयि स्नात्वा नरः कश्चित् सर्वपापैः प्रमुच्यते ततो देव्या महादेवः शिलादतनयं प्रभुः
पुत्रस्ते ऽयमिति प्रोच्य पादयोः संन्यपातयत् सा मामाघ्राय शिरसि पाणिभ्यां परिमार्जती
पुत्रप्रेम्णाभ्यषिञ्चच्च स्रोतोभिस्तनयैस्त्रिभिः पयसा शङ्खगौरेण देवदेवं निरीक्ष्य सा
तानि स्रोतांसि त्रीण्यस्याः स्रोतस्विन्यो ऽभवंस्तदा नदीं त्रिस्रोतसं देवो भगवानवदद्भवः
त्रिस्रोतसं नदीं दृष्ट्वा वृषः परमहर्षितः ननाद नादात्तस्माच्च सरिदन्या ततो ऽभवत्
वृषध्वनिरिति ख्याता देवदेवेन सा नदी जांबूनदमयं चित्रं सर्वरत्नमयं शुभम्
स्वं देवश्चाद्भुतं दिव्यं निर्मितं विश्वकर्मणा मुकुटं चाबबन्धेशो मम मूर्ध्नि वृषध्वजः
कुण्डले च शुभे दिव्ये वज्रवैडूर्यभूषिते आबबन्ध महादेवः स्वयमेव महेश्वरः
मां तथाभ्यर्चितं व्योम्नि दृष्ट्वा मेघैः प्रभाकरः मेघांभसा चाभ्यषिञ्चच् छिलादनम् अथो मुने
तस्याभिषिक्तस्य तदा प्रवृत्ता स्रोतसा भृशम् यस्मात् सुवर्णान्निःसृत्य नद्येषा सम्प्रवर्तते
स्वर्णोदकेति तामाह देवदेवस्त्रियंबकः जाम्बूनदमयाद्यस्माद् द्वितीया मुकुटाच्छुभा
प्रावर्तत नदी पुण्या ऊचुर् जम्बूनदीति ताम् एतत्पञ्चनदं नाम जप्येश्वरसमीपगम्
यः पञ्चनदमासाद्य स्नात्वा जप्येश्वरेश्वरम् पूजयेच्छिवसायुज्यं प्रयात्येव न संशयः
अथ देवो महादेवः सर्वभूतपतिर्भवः देवीमुवाच शर्वाणीम् उमां गिरिसुतामजाम्
देवी नन्दीश्वरं देवम् अभिषिञ्चामि भूतपम् गणेन्द्रं व्याहरिष्यामि किं वा त्वं मन्यसे ऽव्यये
तस्य तद्वचनं श्रुत्वा भवानी हर्षितानना स्मयन्ती वरदं प्राह भवं भूतपतिं पतिम्
सर्वलोकाधिपत्यं च गणेशत्वं तथैव च दातुमर्हसि देवेश शैलादिस्तनयो मम
ततः स भगवाञ्शर्वः सर्वलोकेश्वरेश्वरः सस्मार गणपान् दिव्यान् देवदेवो वृषध्वजः
स्मरणादेव रुद्रस्य सम्प्राप्ताश् च गणेश्वराः सर्वे सहस्रहस्ताश् च सहस्रायुधपाणयः
त्रिनेत्राश् च महात्मानस् त्रिदशैरपि वन्दिताः कोटिकालाग्निसंकाशा जटामुकुटधारिणः
दंष्ट्राकरालवदना नित्या बुद्धाश् च निर्मलाः कोटिकोटिगणैस्तुल्यैर् आत्मना च गणेश्वराः असंख्याता महात्मानस् तत्राजग्मुर्मुदा युताः
गायन्तश् च द्रवन्तश् च नृत्यन्तश् च महाबलाः मुखाडम्बरवाद्यानि वादयन्तस्तथैव च
रथैर्नागैर्हयैश्चैव सिंहमर्कटवाहनाः विमानेषु तथारूढा हेमचित्रेषु वै गणाः
भेरीमृदङ्गकाद्यैश् च पणवानकगोमुखैः वादित्रैर्विविधैश्चान्यैः पटहैरेकपुष्करैः
भेरीमुरजसंनादैर् आडम्बरकडिण्डिमैः मर्दलैर्वेणुवीणाभिर् विविधैस्तालनिःस्वनैः
दर्दुरैस्तलघातैश् च कच्छपैः पणवैरपि वाद्यमानैर्महायोगा आजग्मुर्देवसंसदम्
ते गणेशा महासत्त्वाः सर्वदेवेश्वरेश्वराः प्रणम्य देवं देवीं च इदं वचनम् अब्रुवन्