तस्याश्चैवांशजाः सर्वाः स्त्रियस्त्रिभुवने तथा एकादशाविधा रुद्रास् तस्य चांशोद्भवास् तथा
स्त्रीलिङ्गमखिलं सा वै पुंलिङ्गं नीललोहितः तं दृष्ट्वा भगवान् ब्रह्मा दक्षमालोक्य सुव्रताम्
भजस्व धात्रीं जगतां ममापि च तवापि च पुन्नाम्नो नरकात्त्राति इति पुत्रीत्विहोक्तितः
प्रशस्ता तव कान्तेयं स्यात् पुत्री विश्वमातृका तस्मात् पुत्री सती नाम्ना तवैषा च भविष्यति
एवमुक्तस्तदा दक्षो नियोगाद्ब्रह्मणो मुनिः लब्ध्वा पुत्रीं ददौ साक्षात् सतीं रुद्राय सादरम्
धर्मस्य पत्न्यः श्रद्धाद्याः कीर्तिता वै त्रयोदश तासु धर्मप्रजां वक्ष्ये यथाक्रममनुत्तमम्
कामो दर्पो ऽथ नियमः संतोषो लोभ एव च श्रुतस्तु दण्डः समयो बोधश्चैव महाद्युतिः
अप्रमादश् च विनयो व्यवसायो द्विजोत्तमाः क्षेमं सुखं यशश्चैव धर्मपुत्राश् च तासु वै
धर्मस्य वै क्रियायां तु दण्डः समय एव च अप्रमादस् तथा बोधो बुद्धेर्धर्मस्य तौ सुतौ
तस्मात्पञ्चदशैवैते तासु धर्मात्मजास्त्विह भृगुपत्नी च सुषुवे ख्यातिर्विष्णोः प्रियां श्रियम्
धातारं च विधातारं मेरोर्जामातरौ सुतौ प्रभूतिर्नाम या पत्नी मरीचेः सुषुवे सुतौ
पूर्णमासं तु मारीचं ततः कन्याचतुष्टयम् तुष्टिर्ज्येष्ठा च वै दृष्टिः कृषिश्चापचितिस् तथा
क्षमा च सुषुवे पुत्रान् पुत्रीं च पुलहाच्छुभाम् कर्दमं च वरीयांसं सहिष्णुं मुनिसत्तमाः
तथा कनकपीतां स पीवरीं पृथिवीसमाम् प्रीत्यां पुलस्त्यश् च तथा जनयामास वै सुतान्
दत्तोर्णं वेदबाहुं च पुत्रीं चान्यां दृषद्वतीम् पुत्राणां षष्टिसाहस्रं संनतिः सुषुवे शुभा
क्रतोस्तु भार्या सर्वे ते वालखिल्या इति श्रुताः सिनीवालीं कुहूं चैव राकां चानुमतिं तथा
स्मृतिश् च सुषुवे पत्नी मुनेश्चाङ्गिरसस् तथा लब्धानुभावमग्निं च कीर्तिमन्तं च सुव्रता
अत्रेर्भार्यानसूया वै सुषुवे षट्प्रजास्तु याः तास्वेका कन्यका नाम्ना श्रुतिः सा सूनुपञ्चकम्
सत्यनेत्रो मुनिर्भव्यो मूर्तिरापः शनैश्चरः सोमश् च वै श्रुतिः षष्ठी पञ्चात्रेयास्तु सूनवः
ऊर्जा वसिष्ठाद्वै लेभे सुतांश् च सुतवत्सला ज्यायसी पुण्डरीकाक्षान् वासिष्ठान् वरलोचना
रजः सुहोत्रो बाहुश् च सवनश्चानघस् तथा सुतपाः शुक्र इत्येते मुनेर्वै सप्त सूनवः
यश्चाभिमानी भगवान् भवात्मा पैतामहो वह्निरसुः प्रजानाम् स्वाहा च तस्मात्सुषुवे सुतानां त्रयं त्रयाणां जगतां हिताय
पवमानः पावकश् च शुचिरग्निश् च ते स्मृताः निर्मथ्यः पवमानस्तु वैद्युतः पावकः स्मृतः
शुचिः सौरस्तु विज्ञेयः स्वाहापुत्रास्त्रयस्तु ते पुत्रैः पौत्रैस्त्विहैतेषां संख्या संक्षेपतः स्मृता
विसृज्य सप्तकं चादौ चत्वारिंशन्नवैव च इत्येते वह्नयः प्रोक्ताः प्रणीयन्ते ऽध्वरेषु च
सर्वे तपस्विनस्त्वेते सर्वे व्रतभृतः स्मृताः प्रजानां पतयः सर्वे सर्वे रुद्रात्मकाः स्मृताः
अयज्वानश् च यज्वानः पितरः प्रीतिमानसाः अग्निष्वात्ताश् च यज्वानः शेषा बर्हिषदः स्मृताः
मेनां तु मानसीं तेषां जनयामास वै स्वधा अग्निष्वात्तात्मजा मेना मानसी लोकविश्रुता
असूत मेना मैनाकं क्रौञ्चं तस्यानुजामुमाम् गङ्गां हैमवतीं जज्ञे भवाङ्गाश्लेषपावनीम्
धरणीं जनयामास मानसीं यज्ञयाजिनीम् स्वधा सा मेरुराजस्य पत्नी पद्मसमानना