नष्टा चैव स्मृतिर्दिव्या येन केनापि कारणात् मानुष्यमास्थितं दृष्ट्वा पिता मे लोकपूजितः
विललापातिदुःखार्तः स्वजनैश् च समावृतः जातकर्मादिकाश्चैव चकार मम सर्ववित्
शालङ्कायनपुत्रो वै शिलादः पुत्रवत्सलः उपदिष्टा हि तेनैव ऋक्शाखा यजुषस् तथा
सामशाखासहस्रं च साङ्गोपाङ्गं महामुने आयुर्वेदं धनुर्वेदं गान्धर्वं चाश्वलक्षणम्
हस्तिनां चरितं चैव नराणां चैव लक्षणम् सम्पूर्णे सप्तमे वर्षे ततो ऽथ मुनिसत्तमौ
मित्रावरुणनामानौ तपोयोगबलान्वितौ तस्याश्रमं गतौ दिव्यौ द्रष्टुं मां चाज्ञया विभोः
ऊचतुश् च महात्मानौ मां निरीक्ष्य मुहुर्मुहुः तात नन्द्ययमल्पायुः सर्वशास्त्रार्थपारगः
न दृष्टमेवमाश्चर्यम् आयुर्वर्षादतः परम् इत्युक्तवति विप्रेन्द्रः शिलादः पुत्रवत्सलः
समालिङ्ग्य च दुःखार्तो रुरोदातीव विस्वरम् हा पुत्र पुत्र पुत्रेति पपात च समन्ततः
अहो बलं दैवविधेर् विधातुश्चेति दुःखितः तस्य चार्तस्वरं श्रुत्वा तदाश्रमनिवासिनः
निपेतुर्विह्वलात्यर्थं रक्षाश्चक्रुश् च मङ्गलम् तुष्टुवुश् च महादेवं त्रियंबकमुमापतिम्
हुत्वा त्रियंबकेनैव मधुनैव च संप्लुताम् दूर्वामयुतसंख्यातां सर्वद्रव्यसमन्विताम्
पिता विगतसंज्ञश् च तथा चैव पितामहः विचेष्टश् च ललापासौ मृतवन्निपपात च
मृत्योर् भीतो ऽहम् अचिराच् छिरसा चाभिवन्द्य तम् मृतवत्पतितं साक्षात् पितरं च पितामहम्
प्रदक्षिणीकृत्य च तं रुद्रजाप्यरतो ऽभवम् हृत्पुण्डरीके सुषिरे ध्यात्वा देवं त्रियंबकम्
त्र्यक्षं दशभुजं शान्तं पञ्चवक्त्रं सदाशिवम् सरितश्चान्तरे पुण्ये स्थितं मां परमेश्वरः
तुष्टो ऽब्रवीन्महादेवः सोमः सोमार्धभूषणः वत्स नन्दिन्महाबाहो मृत्योर्भीतिः कुतस्तव
मयैव प्रेषितौ विप्रौ मत्समस्त्वं न संशयः वत्सैनत्तव देहं च लौकिकं परमार्थतः
नास्त्येव दैविकं दृष्टं शिलादेन पुरा तव देवैश् च मुनिभिः सिद्धैर् गन्धर्वैर्दानवोत्तमैः
पूजितं यत्पुरा वत्स दैविकं नन्दिकेश्वर संसारस्य स्वभावो ऽयं सुखं दुःखं पुनः पुनः
नृणां योनिपरित्यागः सर्वथैव विवेकिनः एवमुक्त्वा तु मां साक्षात् सर्वदेवमहेश्वरः
कराभ्यां सुशुभाभ्यां च उभाभ्यां परमेश्वरः पस्पर्श भगवान् रुद्रः परमार्तिहरो हरः
उवाच च महादेवस् तुष्टात्मा वृषभध्वजः निरीक्ष्य गणपांश्चैव देवीं हिमवतः सुताम्
समालोक्य च तुष्टात्मा महादेवः सुरेश्वरः अजरो जरया त्यक्तो नित्यं दुःखविवर्जितः
अक्षयश्चाव्ययश्चैव सपिता ससुहृज्जनः ममेष्टो गणपश्चैव मद्वीर्यो मत्पराक्रमः
इष्टो मम सदा चैव मम पार्श्वगतः सदा मद्बलश्चैव भविता महायोगबलान्वितः
एवमुक्त्वा च मां देवो भगवान् सगणस्तदा कुशेशयमयीं मालां समुन्मुच्यात्मनस्तदा
आबबन्ध महातेजा मम देवो वृषध्वजः तयाहं मालया जातः शुभया कण्ठसक्तया
त्र्यक्षो दशभुजश्चैव द्वितीय इव शङ्करः तत एव समादाय हस्तेन परमेश्वरः
उवाच ब्रूहि किं ते ऽद्य ददामि वरमुत्तमम् ततो जटाश्रितं वारि गृहीत्वा चातिनिर्मलम्