पूर्वमाराधितो विप्र ब्रह्मणाहं तपोधन तपसा चावतारार्थं मुनिभिश् च सुरोत्तमैः
तव पुत्रो भविष्यामि नन्दिनाम्ना त्वयोनिजः पिता भविष्यसि मम पितुर्वै जगतां मुने
एवमुक्त्वा मुनिं प्रेक्ष्य प्रणिपत्य स्थितं घृणी सोमः सोमोपमः प्रीतस् तत्रैवान्तरधीयत
लब्धपुत्रः पिता रुद्रात् प्रीतो मम महामुने यज्ञाङ्गणं महत्प्राप्य यज्ञार्थं यज्ञवित्तमः
तदङ्गणादहं शंभोस् तनुजस्तस्य चाज्ञया संजातः पूर्वमेवाहं युगान्ताग्निसमप्रभः
ववर्षुस्तदा पुष्करावर्तकाद्या जगुः खेचराः किन्नराः सिद्धसाध्याः शिलादात्मजत्वं गते मय्युपेन्द्रः ससर्जाथ वृष्टिं सुपुष्पौघमिश्राम्
मां दृष्ट्वा कालसूर्याभं जटामुकुटधारिणम् त्र्यक्षं चतुर्भुजं बालं शूलटङ्कगदाधरम्
वज्रिणं वज्रदंष्ट्रं च वज्रिणाराधितं शिशुम् वज्रकुण्डलिनं घोरं नीरदोपमनिःस्वनम्
ब्रह्माद्यास्तुष्टुवुः सर्वे सुरेन्द्रश् च मुनीश्वराः नेदुः समन्ततः सर्वे ननृतुश्चाप्सरोगणाः
ऋषयो मुनिशार्दूल ऋग्यजुःसामसंभवैः मन्त्रैर्माहेश्वरैः स्तुत्वा सम्प्रणेमुर्मुदान्विताः
ब्रह्मा हरिश् च रुद्रश् च शक्रः साक्षाच्छिवांबिका जीवश्चेन्दुर्महातेजा भास्करः पवनो ऽनलः
ईशानो निरृतिर्यक्षो यमो वरुण एव च विश्वेदेवास् तथा रुद्रा वसवश् च महाबलाः
लक्ष्मीः साक्षाच्छची ज्येष्ठा देवी चैव सरस्वती अदितिश् च दितिश्चैव श्रद्धा लज्जा धृतिस् तथा
नन्दा भद्रा च सुरभी सुशीला सुमनास् तथा वृषेन्द्रश् च महातेजा धर्मो धर्मात्मजस् तथा
आवृत्य मां तथालिङ्ग्य तुष्टुवुर्मुनिसत्तम शिलादो ऽपि मुनिर्दृष्ट्वा पिता मे तादृशं तदा
प्रीत्या प्रणम्य पुण्यात्मा तुष्टावेष्टप्रदं सुतम् भगवन्देवदेवेश त्रियंबक ममाव्यय
पुत्रो ऽसि जगतां यस्मात् त्राता दुःखाद्धि किं पुनः रक्षको जगतां यस्मात् पिता मे पुत्र सर्वग
अयोनिज नमस्तुभ्यं जगद्योने पितामह पिता पुत्र महेशान जगतां च जगद्गुरो
वत्स वत्स महाभाग पाहि मां परमेश्वर त्वयाहं नन्दितो यस्मान् नन्दी नाम्ना सुरेश्वर
तस्मान्नन्दय मां नन्दिन् नमामि जगदीश्वरम् प्रसीद पितरौ मे ऽद्य रुद्रलोकं गतौ विभो
पितामहश् च भो नन्दिन् नवतीर्णे महेश्वरे ममैव सफलं लोके जन्म वै जगतां प्रभो
अवतीर्णे सुते नन्दिन् रक्षार्थं मह्यमीश्वर तुभ्यं नमः सुरेशान नन्दीश्वर नमो ऽस्तु ते
पुत्र पाहि महाबाहो देवदेव जगद्गुरो पुत्रत्वमेव नन्दीश मत्वा यत्कीर्तितं मया
त्वया तत्क्षम्यतां वत्स स्तवस्तव्य सुरासुरैः यः पठेच्छृणुयाद्वापि मम पुत्रप्रभाषितम्
श्रावयेद्वा द्विजान् भक्त्या मया सार्धं स मोदते एवं स्तुत्वा सुतं बालं प्रणम्य बहुमानतः
मुनीश्वरांश् च सम्प्रेक्ष्य शिलाद उवाच सुव्रतः पश्यध्वं मुनयः सर्वे महाभाग्यं ममाव्ययः
नन्दी यज्ञाङ्गणे देवश् चावतीर्णो यतः प्रभुः मत्समः कः पुमांल्लोके देवो वा दानवो ऽपि वा
एष नन्दी यतो जातो यज्ञभूमौ हिताय मे
मया सह पिता हृष्टः प्रणम्य च महेश्वरम् उटजं स्वं जगामाशु निधिं लब्ध्वेव निर्धनः
यदागतो ऽहमुटजं शिलादस्य महामुने तदा वै दैविकं रूपं त्यक्त्वा मानुष्यम् आस्थितः