वामां रौद्रीं महामायां वैष्णवीं वारिजेक्षणाम् कलां विकिरिणीं चैव कालीं कमलवासिनीम्
बलविकरिणीं देवीं बलप्रमथिनीं तथा सर्वभूतस्य दमनीं ससृजे च मनोन्मनीम्
तथान्या बहवः सृष्टास् तया नार्यः सहस्रशः रुद्रैश्चैव महादेवस् ताभिस्त्रिभुवनेश्वरः
सर्वात्मनश् च तस्याग्रे ह्य् अतिष्ठत्परमेश्वरः मृतस्य तस्य देवस्य ब्रह्मणः परमेष्ठिनः
घृणी ददौ पुनः प्राणान् ब्रह्मपुत्रो महेश्वरः ब्रह्मणः प्रददौ प्राणान् आत्मस्थांस्तु तदा प्रभुः
प्रहृष्टो ऽभूत्ततो रुद्रः किंचित्प्रत्यागतासवम् अभ्यभाषत देवेशो ब्रह्माणं परमं वचः
मा भैर्देव महाभाग विरिञ्च जगतां गुरो मयेह स्थापिताः प्राणास् तस्मादुत्तिष्ठ वै प्रभो
श्रुत्वा वचस्ततस्तस्य स्वप्नभूतं मनोगतम् पितामहः प्रसन्नात्मा नेत्रैः फुल्लाम्बुजप्रभैः
ततः प्रत्यागतप्राणः समुदैक्षन् महेश्वरम् स उद्वीक्ष्य चिरं कालं स्निग्धगंभीरया गिरा
उवाच भगवान् ब्रह्मा समुत्थाय कृताञ्जलिः भो भो वद महाभाग आनन्दयसि मे मनः
को भवान् अष्टमूर्तिर् वै स्थित एकादशात्मकः तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः
स्पृशन्कराभ्यां ब्रह्माणं सुखाभ्यां स सुरारिहा मां विद्धि परमात्मानम् एनां मायामजामिति
एते वै संस्थिता रुद्रास् त्वां रक्षितुमिहागताः ततः प्रणम्य तं ब्रह्मा देवदेवमुवाच ह
कृताञ्जलिपुटो भूत्वा हर्षगद्गदया गिरा भगवन्देवदेवेश दुःखैराकुलितो ह्यहम्
संसारान्मोक्तुमीशान मामिहार्हसि शङ्कर ततः प्रहस्य भगवान् पितामहमुमापतिः
तदा रुद्रैर्जगन्नाथस् तया चान्तर्दधे विभुः तस्माच्छिलाद लोकेषु दुर्लभो वै त्वयोनिजः
मृत्युहीनः पुमान्विद्धि समृत्युः पद्मजो ऽपि सः किंतु देवेश्वरो रुद्रः प्रसीदति यदीश्वरः
न दुर्लभो मृत्युहीनस् तव पुत्रो ह्ययोनिजः मया च विष्णुना चैव ब्रह्मणा च महात्मना
अयोनिजं मृत्युहीनम् असमर्थं निवेदितुम् एवं व्याहृत्य विप्रेन्द्रम् अनुगृह्य च तं घृणी
देवैर्वृतो ययौ देवः सितेनेभेन वै प्रभुः
गते पुण्ये च वरदे सहस्राक्षे शिलाशनः आराधयन्महादेवं तपसातोषयद्भवम्
अथ तस्यैवमनिशं तत्परस्य द्विजस्य तु दिव्यं वर्षसहस्रं तु गतं क्षणमिवाद्भुतम्
वल्मीकेनावृताङ्गश् च लक्ष्यः कीटगणैर्मुनिः वज्रसूचीमुखैश्चान्यै रक्तकीटैश् च सर्वतः
निर्मांसरुधिरत्वग् वै निर्लेपः कुड्यवत् स्थितः अस्थिशेषो ऽभवत्पश्चात् तममन्यत शङ्करः
यदा स्पृष्टो मुनिस्तेन करेण च स्मरारिणा तदैव मुनिशार्दूलश् चोत्ससर्ज क्लमं द्विजः
तपतस्तस्य तपसा प्रभुस्तुष्टाथ शङ्करः तुष्टस्तवेत्यथोवाच सगणश्चोमया सह
तपसानेन किं कार्यं भवतस्ते महामते ददामि पुत्रं सर्वज्ञं सर्वशास्त्रार्थपारगम्
ततः प्रणम्य देवेशं स्तुत्वोवाच शिलाशनः हर्षगद्गदया वाचा सोमं सोमविभूषणम्
भगवन्देवदेवेश त्रिपुरार्दन शङ्कर अयोनिजं मृत्युहीनं पुत्रमिच्छामि सत्तम
पूर्वमाराधितः प्राह तपसा परमेश्वरः शिलादं ब्रह्मणा रुद्रः प्रीत्या परमया पुनः