वैराग्यं ब्रह्मणो वक्ष्ये तमोद्भूतं समासतः नारायणो ऽपि भगवान् द्विधा कृत्वात्मनस्तनुम्
ससर्ज सकलं तस्मात् स्वाङ्गादेव चराचरम् ततो ब्रह्माणमसृजद् ब्रह्मा रुद्रं पितामहः
मुने कल्पान्तरे रुद्रो हरिं ब्रह्माणम् ईश्वरम् ततो ब्रह्माणमसृजन् मुने कल्पान्तरे हरिः
नारायणं पुनर्ब्रह्मा ब्रह्माणं च पुनर्भवः तदा विचार्य वै ब्रह्मा दुःखं संसार इत्यजः
सर्गं विसृज्य चात्मानम् आत्मन्येव नियोज्य च संहृत्य प्राणसञ्चारं पाषाण इव निश्चलः
दशवर्षसहस्राणि समाधिस्थो ऽभवत्प्रभुः अधोमुखं तु यत्पद्मं हृदि संस्थं सुशोभनम्
पूरितं पूरकेणैव प्रबुद्धं चाभवत्तदा तदूर्ध्ववक्त्रम् अभवत् कुम्भकेन निरोधितम्
तत्पद्मकर्णिकामध्ये स्थापयामास चेश्वरम् तदोमिति शिवं देवम् अर्धमात्रापरं परम्
मृणालतन्तुभागैकशतभागे व्यवस्थितम् यमी यमविशुद्धात्मा नियम्यैवं हृदीश्वरम्
यमपुष्पादिभिः पूज्यं याज्यो ह्ययजदव्ययम् तस्य हृत्कमलस्थस्य नियोगाच्चांशजो विभुः
ललाटमस्य निर्भिद्य प्रादुरासीत्पितामहात् लोहितो ऽभूत् स्वयं नीलः शिवस्य हृदयोद्भवः
वह्नेश्चैव तु संयोगात् प्रकृत्य पुरुषः प्रभुः नीलश् च लोहितश्चैव यतः कालाकृतिः पुमान्
नीललोहित इत्युक्तस् तेन देवेन वै प्रभुः ब्रह्मणा भगवान्कालः प्रीतात्मा चाभवद्विभुः
सुप्रीतमनसं देवं तुष्टाव च पितामहः नामाष्टकेन विश्वात्मा विश्वात्मानं महामुने
नमस्ते भगवन् रुद्र भास्करामिततेजसे नमो भवाय देवाय रसायाम्बुमयाय ते
शर्वाय क्षितिरूपाय सदा सुरभिणे नमः ईशाय वायवे तुभ्यं संस्पर्शाय नमो नमः
पशूनां पतये चैव पावकायातितेजसे भीमाय व्योमरूपाय शब्दमात्राय ते नमः
महादेवाय सोमाय अमृताय नमो ऽस्तु ते उग्राय यजमानाय नमस्ते कर्मयोगिने
यः पठेच्छृणुयाद्वापि पैतामहमिमं स्तवम् रुद्राय कथितं विप्राञ् श्रावयेद्वा समाहितः
अष्टमूर्तेस्तु सायुज्यं वर्षादेकादवाप्नुयात् एवं स्तुत्वा महादेवम् अवैक्षत पितामहः
तदाष्टधा महादेवः समातिष्ठत्समन्ततः तदा प्रकाशते भानुः कृष्णवर्त्मा निशाकरः
क्षितिर्वायुः पुमानंभः सुषिरं सर्वगं तथा तदाप्रभृति तं प्राहुर् अष्टमूर्तिरितीश्वरम्
अष्टमूर्तेः प्रसादेन विरञ्चिश्चासृजत्पुनः सृष्ट्वैतद् अखिलं ब्रह्मा पुनः कल्पान्तरे प्रभुः
सहस्रयुगपर्यन्तं संसुप्ते च चराचरे प्रजाः स्रष्टुमनास् तेपे तत उग्रं तपो महत्
तस्यैवं तप्यमानस्य न किंचित्समवर्तत ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ततस्तेभ्यो ऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन्
सर्वांस्तानग्रजान्दृष्ट्वा भूतप्रेतनिशाचरान् अनिन्दत तदा देवो ब्रह्मात्मानम् अजो विभुः
जहौ प्राणांश् च भगवान् क्रोधाविष्टः प्रजापतिः ततः प्राणमयो रुद्रः प्रादुरासीत्प्रभोर्मुखात्
अर्धनारीश्वरो भूत्वा बालार्कसदृशद्युतिः तदैकादशधात्मानं प्रविभज्य व्यवस्थितः
अर्धेनांशेन सर्वात्मा ससर्जासौ शिवामुमाम् सा चासृजत्तदा लक्ष्मीं दुर्गां श्रेष्ठां सरस्वतीम्