यजुर्वेदमहाग्रीवम् अथर्वहृदयं विभुम् प्रधानपुरुषातीतं प्रलयोत्पत्तिवर्जितम्
तमसा कालरुद्राख्यं रजसा कनकाण्डजम् सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम्
प्रधानावयवं व्याप्य सप्तधाधिष्ठितं क्रमात् पुनः षोडशधा चैव षड्विंशकम् अजोद्भवम्
सर्गप्रतिष्ठासंहारलीलार्थं लिङ्गरूपिणम् प्रणम्य च यथान्यायं वक्ष्ये लिङ्गोद्भवं शुभम्
ईशानकल्पवृत्तान्तम् अधिकृत्य महात्मना ब्रह्मणा कल्पितं पूर्वं पुराणं लैङ्गम् उत्तमम्
ग्रन्थकोटिप्रमाणं तु शतकोटिप्रविस्तरे चतुर्लक्षेण संक्षिप्ते व्यासैः सर्वान्तरेषु वै
व्यस्तेष्टा दशधा चैव ब्रह्मादौ द्वापरादिषु लिङ्गमेकादशं प्रोक्तं मया व्यासाच्छ्रुतं च तत्
अस्यैकादशसाहस्रे ग्रन्थमानमिह द्विजाः तस्मात्संक्षेपतो वक्ष्ये न श्रुतं विस्तरेण यत्
चतुर्लक्षेण संक्षिप्ते कृष्णद्वैपायनेन तु अत्रैकादशसाहस्रैः कथितो लिङ्गसम्भवः
सर्गः प्राधानिकः पश्चात् प्राकृतो वैकृतानि च अण्डस्यास्य च सम्भूतिर् अण्डस्यावरणाष्टकम्
अण्डोद्भवत्वं शर्वस्य रजोगुणसमाश्रयात् विष्णुत्वं कालरुद्रत्वं शयनं चाप्सु तस्य च
प्रजापतीनां सर्गश् च पृथिव्युद्धरणं तथा ब्रह्मणश् च दिवारात्रम् आयुषो गणनं पुनः
सवनं ब्रह्मणश्चैव युगकल्पश् च तस्य तु दिव्यं च मानुषं वर्षम् आर्षं वै ध्रौव्यमेव च
पित्र्यं पितॄणां सम्भूतिर् धर्मश्चाश्रमिणां तथा अवृद्धिर्जगतो भूयो देव्याः शक्त्युद्भवस्तथा
स्त्रीपुम्भावो विरिञ्चस्य सर्गो मिथुनसम्भवः आख्याष्टकं हि रुद्रस्य कथितं रोदनान्तरे
ब्रह्मविष्णुविवादश् च पुनर्लिङ्गस्य सम्भवः शिलादस्य तपश्चैव वृत्रारेर्दर्शनं तथा
प्रार्थना योनिजस्याथ दुर्लभत्वं सुतस्य तु शिलादशक्रसंवादः पद्मयोनित्वमेव च
भवस्य दर्शनं चैव तिष्येष्वाचार्यशिष्ययोः व्यासावताराश् च तथा कल्पमन्वन्तराणि च
कल्पत्वं चैव कल्पानाम् आख्याभेदेष्वनुक्रमात् कल्पेषु कल्पे वाराहे वाराहत्वं हरेस् तथा
मेघवाहनकल्पस्य वृत्तान्तं रुद्रगौरवम् पुनर्लिङ्गोद्भवश्चैव ऋषिमध्ये पिनाकिनः
लिङ्गस्याराधनं स्नानविधानं शौचलक्षणम् वाराणस्याश् च माहात्म्यं क्षेत्रमाहात्म्यवर्णनम्
भुवि रुद्रालयानां तु संख्या विष्णोर्गृहस्य च अन्तरिक्षे तथाण्डे ऽस्मिन् देवायतनवर्णनम्
दक्षस्य पतनं भूमौ पुनः स्वारोचिषे ऽन्तरे दक्षशापश् च दक्षस्य शापमोक्षस्तथैव च
कैलासवर्णनं चैव योगः पाशुपतस् तथा चतुर्युगप्रमाणं च युगधर्मः सुविस्तरः
संध्यांशकप्रमाणं च संध्यावृत्तं भवस्य च श्मशाननिलयश्चैव चन्द्ररेखासमुद्भवः
उद्वाहः शंकरस्याथ पुत्रोत्पादनमेव च मैथुनातिप्रसङ्गेन विनाशो जगतां भयम्
शापः सत्या कृतो देवान्पुरा विष्णुं च पालितम् शुक्रोत्सर्गस्तु रुद्रस्य गाङ्गेयोद्भव एव च
ग्रहणादिषु कालेषु स्नाप्य लिङ्गं फलं तथा क्षुब्धधी च विवादश् च दधीचोपेन्द्रयोस् तथा
उत्पत्तिर्नन्दिनाम्ना तु देवदेवस्य शूलिनः पतिव्रतायाश्चाख्यानं पशुपाशविचारणा
प्रवृत्तिलक्षणं ज्ञानं निवृत्त्यधिकृता तथा वसिष्ठतनयोत्पत्तिर् वासिष्ठानां महात्मनाम्