ससंध्यांशेषु हीयन्ते युगानां धर्मसिद्धयः इत्येषा प्रतिसिद्धिर्वै कीर्तितैषा क्रमेण तु
चतुर्युगानां सर्वेषाम् अनेनैव तु साधनम् एषा चतुर्युगावृत्तिर् आ सहस्राद् गुणीकृता
ब्रह्मणस्तदहः प्रोक्तं रात्रिश्चैतावती स्मृता अनार्जवं जडीभावो भूतानाम् आ युगक्षयात्
एतदेव तु सर्वेषां युगानां लक्षणं स्मृतम् एषां चतुर्युगाणां च गुणिता ह्येकसप्ततिः
क्रमेण परिवृत्ता तु मनोरन्तरम् उच्यते चतुर्युगे यथैकस्मिन् भवतीह यदा तु यत्
तथा चान्येषु भवति पुनस्तद्वै यथाक्रमम् सर्गे सर्गे यथा भेदा उत्पद्यन्ते तथैव तु
पञ्चविंशत्परिमिता न न्यूना नाधिकास् तथा तथा कल्पा युगैः सार्धं भवन्ति सह लक्षणैः
मन्वन्तराणां सर्वेषाम् एतदेव तु लक्षणम्
यथा युगानां परिवर्तनानि चिरप्रवृत्तानि युगस्वभावात् तथा तु संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः
इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः अतीतानागतानां हि सर्वमन्वन्तरेषु वै
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि च व्याख्यातानि न संदेहः कल्पः कल्पेन चैव हि
अनागतेषु तद्वच्च तर्कः कार्यो विजानता मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह
तुल्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत देवा ह्यष्टविधा ये च ये च मन्वन्तरेश्वराः
ऋषयो मनवश्चैव सर्वे तुल्यप्रयोजनाः एवं वर्णाश्रमाणां तु प्रविभागो युगे युगे
युगस्वभावश् च तथा विधत्ते वै तदा प्रभुः वर्णाश्रमविभागाश् च युगानि युगसिद्धयः
युगानां परिमाणं ते कथितं हि प्रसङ्गतः वदामि देवीपुत्रत्वं पद्मयोनेः समासतः
पुनः ससर्ज भगवान् प्रभ्रष्टाः पूर्ववत्प्रजाः सहस्रयुगपर्यन्ते प्रभाते तु पितामहः
एवं परार्धे विप्रेन्द्र द्विगुणे तु तथा गते तदा धराम्भसि व्याप्ता ह्य् आपो वह्नौ समीरणे
वह्निः समीरणश्चैव व्योम्नि तन्मात्रसंयुतः इन्द्रियाणि दशैकं च तन्मात्राणि द्विजोत्तम
अहङ्कारमनुप्राप्य प्रलीनास्तत्क्षणादहो अभिमानस्तदा तत्र महान्तं व्याप्य वै क्षणात्
महानपि तथा व्यक्तं प्राप्य लीनो ऽभवद्द्विज अव्यक्तं स्वगुणैः सार्धं प्रलीनमभवद्भवे
ततः सृष्टिरभूत्तस्मात् पूर्ववत्पुरुषाच्छिवात् अथ सृष्टास्तदा तस्य मनसा तेन मानसाः
न व्यवर्धन्त लोके ऽस्मिन् प्रजाः कमलयोनिना वृद्ध्यर्थं भगवान्ब्रह्मा पुत्रैर्वै मानसैः सह
दुश्चरं विचचारेशं समुद्दिश्य तपः स्वयम् तुष्टस्तु तपसा तस्य भवो ज्ञात्वा स वाञ्छितम्
ललाटमध्यं निर्भिद्य ब्रह्मणः पुरुषस्य तु पुत्रस्नेहमिति प्रोच्य स्त्रीपुंरूपो ऽभवत्तदा
तस्य पुत्रो महादेवो ह्य् अर्धनारीश्वरो ऽभवत् ददाह भगवान्सर्वं ब्रह्माणं च जगद्गुरुम्
अथार्धमात्रां कल्याणीम् आत्मनः परमेश्वरीम् बुभुजे योगमार्गेण वृद्ध्यर्थं जगतां शिवः
तस्यां हरिं च ब्रह्माणं ससर्ज परमेश्वरः विश्वेश्वरस्तु विश्वात्मा चास्त्रं पाशुपतं तथा
तस्माद्ब्रह्मा महादेव्याश् चांशजश् च हरिस् तथा अण्डजः पद्मजश्चैव भवाङ्गभव एव च
एतत्ते कथितं सर्वम् इतिहासं पुरातनम् परार्धं ब्रह्मणो यावत् तावद्भूतिः समासतः