प्रजास्ता वै ततः सर्वाः परस्परभयार्दिताः व्याकुलाश् च परिभ्रान्तास् त्यक्त्वा दारान् गृहाणि च
स्वान्प्राणान् अनपेक्षन्तो निष्कारुण्याः सुदुःखिताः नष्टे श्रौते स्मार्तधर्मे परस्परहतास्तदा
निर्मर्यादा निराक्रान्ता निःस्नेहा निरपत्रपाः नष्टे धर्मे प्रतिहताः ह्रस्वकाः पञ्चविंशकाः
हित्वा पुत्रांश् च दारांश् च विवादव्याकुलेन्द्रियाः अनावृष्टिहताश्चैव वार्तामुत्सृज्य दूरतः
प्रत्यन्तानुपसेवन्ते हित्वा जनपदान् स्वकान् सरित्सागरकूपांस्ते सेवन्ते पर्वतांस् तथा
मधुमांसैर्मूलफलैर् वर्तयन्ति सुदुःखिताः चीरपत्राजिनधरा निष्क्रिया निष्परिग्रहाः
वर्णाश्रमपरिभ्रष्टाः संकटं घोरमास्थिताः एवं कष्टमनुप्राप्ता अल्पशेषाः प्रजास्तदा
जराव्याधिक्षुधाविष्टा दुःखान्निर्वेदमानसाः विचारणा तु निर्वेदात् साम्यावस्था विचारणा
साम्यावस्थात्मको बोधः संबोधाद्धर्मशीलता अरूपशमयुक्तास्तु कलिशिष्टा हि वै स्वयम्
अहोरात्रात्तदा तासां युगं तु परिवर्तते चित्तसंमोहनं कृत्वा तासां वै सुप्तमत्तवत्
भाविनो ऽर्थस्य च बलात् ततः कृतमवर्तत प्रवृत्ते तु ततस्तस्मिन् पुनः कृतयुगे तु वै
उत्पन्नाः कलिशिष्टास्तु प्रजाः कार्तयुगास्तदा तिष्ठन्ति चेह ये सिद्धा अदृष्टा विचरन्ति च
सप्त सप्तर्षिभिश्चैव तत्र ते तु व्यवस्थिताः ब्रह्मक्षत्रविशः शूद्रा बीजार्थं ये स्मृता इह
कलिजैः सह ते सर्वे निर्विशेषास्तदाभवन् तेषां सप्तर्षयो धर्मं कथयन्तीतरे ऽपि च
वर्णाश्रमाचारयुतं श्रौतं स्मार्तं द्विधा तु यम् ततस्तेषु क्रियावत्सु वर्धन्ते वै प्रजाः कृते
श्रौतस्मार्तकृतानां च धर्मे सप्तर्षिदर्शिते केचिद्धर्मव्यवस्थार्थं तिष्ठन्तीह युगक्षये
मन्वन्तराधिकारेषु तिष्ठन्ति मुनयस्तु वै यथा दावप्रदग्धेषु तृणेष्विह ततः क्षितौ
वनानां प्रथमं वृष्ट्या तेषां मूलेषु संभवः तथा कार्तयुगानां तु कलिजेष्विह संभवः
एवं युगाद्युगस्येह संतानं तु परस्परम् वर्तते ह व्यवच्छेदाद् यावन्मन्वन्तरक्षयः
सुखमायुर्बलं रूपं धर्मो ऽर्थः काम एव च युगेष्वेतानि हीयन्ते त्रींस्त्रीन् पादान् क्रमेण तु
ससंध्यांशेषु हीयन्ते युगानां धर्मसिद्धयः इत्येषा प्रतिसिद्धिर्वै कीर्तितैषा क्रमेण तु
चतुर्युगानां सर्वेषाम् अनेनैव तु साधनम् एषा चतुर्युगावृत्तिर् आ सहस्राद् गुणीकृता
ब्रह्मणस्तदहः प्रोक्तं रात्रिश्चैतावती स्मृता अनार्जवं जडीभावो भूतानाम् आ युगक्षयात्
एतदेव तु सर्वेषां युगानां लक्षणं स्मृतम् एषां चतुर्युगाणां च गुणिता ह्येकसप्ततिः
क्रमेण परिवृत्ता तु मनोरन्तरम् उच्यते चतुर्युगे यथैकस्मिन् भवतीह यदा तु यत्
तथा चान्येषु भवति पुनस्तद्वै यथाक्रमम् सर्गे सर्गे यथा भेदा उत्पद्यन्ते तथैव तु
पञ्चविंशत्परिमिता न न्यूना नाधिकास् तथा तथा कल्पा युगैः सार्धं भवन्ति सह लक्षणैः
मन्वन्तराणां सर्वेषाम् एतदेव तु लक्षणम्
यथा युगानां परिवर्तनानि चिरप्रवृत्तानि युगस्वभावात् तथा तु संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः
इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः अतीतानागतानां हि सर्वमन्वन्तरेषु वै