तस्मादायुर्बलं रूपं कलिं प्राप्य प्रहीयते तदा त्वल्पेन कालेन सिद्धिं गच्छन्ति मानवाः
धन्या धर्मं चरिष्यन्ति युगान्ते द्विजसत्तमाः श्रुतिस्मृत्युदितं धर्मं ये चरन्त्यनसूयकाः
त्रेतायां वार्षिको धर्मो द्वापरे मासिकः स्मृतः यथाक्लेशं चरन्प्राज्ञस् तदह्ना प्राप्नुते कलौ
एषा कलियुगावस्था संध्यांशं तु निबोध मे युगे युगे च हीयन्ते त्रींस्त्रीन्पादांस्तु सिद्धयः
युगस्वभावाः संध्यास्तु तिष्ठन्तीह तु पादशः संध्यास्वभावाः स्वांशेषु पादशस्ते प्रतिष्ठिताः
एवं संध्यांशके काले सम्प्राप्ते तु युगान्तिके तेषां शास्ता ह्यसाधूनां भूतानां निधनोत्थितः
गोत्रे ऽस्मिन्वै चन्द्रमसो नाम्ना प्रमितिरुच्यते मानवस्य तु सो ऽंशेन पूर्वं स्वायंभुवे ऽन्तरे
समाः स विंशतिः पूर्णाः पर्यटन्वै वसुंधराम् अनुकर्षन् स वै सेनां सवाजिरथकुञ्जराम्
प्रगृहीतायुधैर्विप्रैः शतशो ऽथ सहस्रशः स तदा तैः परिवृतो म्लेच्छान् हन्ति सहस्रशः
स हत्वा सर्वशश्चैव राज्ञस्ताञ्शूद्रयोनिजान् पाखण्डांस्तु ततः सर्वान् निःशेषं कृतवान् प्रभुः
नात्यर्थं धार्मिका ये च तान् सर्वान् हन्ति सर्वतः वर्णव्यत्यासजाताश् च ये च ताननुजीविनः
प्रवृत्तचक्रो बलवान् म्लेच्छानामन्तकृत्स तु अधृष्यः सर्वभूतानां चचाराथ वसुंधराम्
मानवस्य तु सो ऽंशेन देवस्येह विजज्ञिवान् पूर्वजन्मनि विष्णोस्तु प्रमितिर्नाम वीर्यवान्
गोत्रतो वै चन्द्रमसः पूर्णे कलियुगे प्रभुः द्वात्रिंशे ऽभ्युदिते वर्षे प्रक्रान्तो विंशतिः समाः
विनिघ्नन्सर्वभूतानि शतशो ऽथ सहस्रशः कृत्वा बीजावशेषां तु पृथिवीं क्रूरकर्मणः
परस्परनिमित्तेन कोपेनाकस्मिकेन तु स साधयित्वा वृषलान् प्रायशस् तान् अधार्मिकान्
गङ्गायमुनयोर्मध्ये स्थितिं प्राप्तः सहानुगः ततो व्यतीते काले तु सामात्यः सहसैनिकः
उत्साद्य पार्थिवान् सर्वान् म्लेच्छांश्चैव सहस्रशः तत्र संध्यांशके काले सम्प्राप्ते तु युगान्तिके
स्थितास्वल्पावशिष्टासु प्रजास्विह क्वचित्क्वचित् अप्रग्रहास्ततस्ता वै लोभाविष्टास्तु कृत्स्नशः
उपहिंसन्ति चान्योन्यं प्रणिपत्य परस्परम् अराजके युगवशात् संशये समुपस्थिते
प्रजास्ता वै ततः सर्वाः परस्परभयार्दिताः व्याकुलाश् च परिभ्रान्तास् त्यक्त्वा दारान् गृहाणि च
स्वान्प्राणान् अनपेक्षन्तो निष्कारुण्याः सुदुःखिताः नष्टे श्रौते स्मार्तधर्मे परस्परहतास्तदा
निर्मर्यादा निराक्रान्ता निःस्नेहा निरपत्रपाः नष्टे धर्मे प्रतिहताः ह्रस्वकाः पञ्चविंशकाः
हित्वा पुत्रांश् च दारांश् च विवादव्याकुलेन्द्रियाः अनावृष्टिहताश्चैव वार्तामुत्सृज्य दूरतः
प्रत्यन्तानुपसेवन्ते हित्वा जनपदान् स्वकान् सरित्सागरकूपांस्ते सेवन्ते पर्वतांस् तथा
मधुमांसैर्मूलफलैर् वर्तयन्ति सुदुःखिताः चीरपत्राजिनधरा निष्क्रिया निष्परिग्रहाः
वर्णाश्रमपरिभ्रष्टाः संकटं घोरमास्थिताः एवं कष्टमनुप्राप्ता अल्पशेषाः प्रजास्तदा
जराव्याधिक्षुधाविष्टा दुःखान्निर्वेदमानसाः विचारणा तु निर्वेदात् साम्यावस्था विचारणा
साम्यावस्थात्मको बोधः संबोधाद्धर्मशीलता अरूपशमयुक्तास्तु कलिशिष्टा हि वै स्वयम्
अहोरात्रात्तदा तासां युगं तु परिवर्तते चित्तसंमोहनं कृत्वा तासां वै सुप्तमत्तवत्