पुरस्तादसृजद्देवः सनन्दं सनकं तथा सनातनं मुनिश्रेष्ठा नैष्कर्म्येण गताः परम्
मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् दक्षमत्रिं वसिष्ठं च सो ऽसृजद्योगविद्यया
नवैते ब्रह्मणः पुत्रा ब्रह्मज्ञा ब्राह्मणोत्तमाः ब्रह्मवादिन एवैते ब्रह्मणः सदृशाः स्मृताः
संकल्पश्चैव धर्मश् च ह्य् अधर्मो धर्मसंनिधिः द्वादशैव प्रजास्त्वेता ब्रह्मणो ऽव्यक्तजन्मनः
ऋभुं सनत्कुमारं च ससर्जादौ सनातनः तावूर्ध्वरेतसौ दिव्यौ चाग्रजौ ब्रह्मवादिनौ
कुमारौ ब्रह्मणस् तुल्यौ सर्वज्ञौ सर्वभाविनौ वक्ष्ये भार्याकुलं तेषां मुनीनामग्रजन्मनाम्
समासतो मुनिश्रेष्ठाः प्रजासम्भूतिमेव च शतरूपां तु वै राज्ञीं विराजमसृजत्प्रभुः
स्वायम्भुवात्तु वै राज्ञी शतरूपा त्वयोनिजा लेभे पुत्रद्वयं पुण्या तथा कन्याद्वयं च सा
उत्तानपादो ह्यवरो धीमाञ्ज्येष्ठः प्रियव्रतः ज्येष्ठा वरिष्ठा त्वाकूतिः प्रसूतिश्चानुजा स्मृता
उपयेमे तदाकूतिं रुचिर्नाम प्रजापतिः प्रसूतिं भगवान्दक्षो लोकधात्रीं च योगिनीम्
दक्षिणासहितं यज्ञम् आकूतिः सुषुवे तथा दक्षिणा जनयामास दिव्या द्वादश पुत्रिकाः
प्रसूतिः सुषुवे दक्षाच् चतुर्विंशतिकन्यकाः श्रद्धां लक्ष्मीं धृतिं पुष्टिं तुष्टिं मेधां क्रियां तथा
बुद्धिं लज्जां वपुःशान्तिं सिद्धिं कीर्तिं महातपाः ख्यातिं शान्तिं च सम्भूतिं स्मृतिं प्रीतिं क्षमां तथा
संनतिं चानसूयां च ऊर्जां स्वाहां सुरारणिम् स्वधां चैव महाभागां प्रददौ च यथाक्रमम्
श्रद्धाद्याश्चैव कीर्त्यन्तास् त्रयोदश सुदारिकाः धर्मं प्रजापतिं जग्मुः पतिं परमदुर्लभाः
उपयेमे भृगुर्धीमान् ख्यातिं तां भार्गवारणिम् सम्भूतिं च मरीचिस्तु स्मृतिं चैवाङ्गिरा मुनिः
प्रीतिं पुलस्त्यः पुण्यात्मा क्षमां तां पुलहो मुनिः क्रतुश् च संनतिं धीमान् अत्रिस्तां चानसूयकाम्
ऊर्जां वसिष्ठो भगवान् वरिष्ठो वारिजेक्षणाम् विभावसुस् तथा स्वाहां स्वधां वै पितरस् तथा
पुत्रीकृता सती या सा मानसी शिवसम्भवा दक्षेण जगतां धात्री रुद्रमेवास्थिता पतिम्
अर्धनारीश्वरं दृष्ट्वा सर्गादौ कनकाण्डजः विभजस्वेति चाहादौ यदा जाता तदाभवत्
तस्याश्चैवांशजाः सर्वाः स्त्रियस्त्रिभुवने तथा एकादशाविधा रुद्रास् तस्य चांशोद्भवास् तथा
स्त्रीलिङ्गमखिलं सा वै पुंलिङ्गं नीललोहितः तं दृष्ट्वा भगवान् ब्रह्मा दक्षमालोक्य सुव्रताम्
भजस्व धात्रीं जगतां ममापि च तवापि च पुन्नाम्नो नरकात्त्राति इति पुत्रीत्विहोक्तितः
प्रशस्ता तव कान्तेयं स्यात् पुत्री विश्वमातृका तस्मात् पुत्री सती नाम्ना तवैषा च भविष्यति
एवमुक्तस्तदा दक्षो नियोगाद्ब्रह्मणो मुनिः लब्ध्वा पुत्रीं ददौ साक्षात् सतीं रुद्राय सादरम्
धर्मस्य पत्न्यः श्रद्धाद्याः कीर्तिता वै त्रयोदश तासु धर्मप्रजां वक्ष्ये यथाक्रममनुत्तमम्
कामो दर्पो ऽथ नियमः संतोषो लोभ एव च श्रुतस्तु दण्डः समयो बोधश्चैव महाद्युतिः
अप्रमादश् च विनयो व्यवसायो द्विजोत्तमाः क्षेमं सुखं यशश्चैव धर्मपुत्राश् च तासु वै
धर्मस्य वै क्रियायां तु दण्डः समय एव च अप्रमादस् तथा बोधो बुद्धेर्धर्मस्य तौ सुतौ
तस्मात्पञ्चदशैवैते तासु धर्मात्मजास्त्विह भृगुपत्नी च सुषुवे ख्यातिर्विष्णोः प्रियां श्रियम्