विप्राणां कर्म दोषेण प्रजानां जायते भयम् नाधीयन्ते तदा वेदान् न यजन्ति द्विजातयः
उत्सीदन्ति नराश्चैव क्षत्रियाश् च विशः क्रमात् शूद्राणां मन्त्रयोगेन संबन्धो ब्राह्मणैः सह
भवतीह कलौ तस्मिञ् शयनासनभोजनैः राजानः शूद्रभूयिष्ठा ब्राह्मणान् बाधयन्ति ते
भ्रूणहत्या वीरहत्या प्रजायन्ते प्रजासु वै शूद्राश् च ब्राह्मणाचाराः शूद्राचाराश् च ब्राह्मणाः
राजवृत्तिस्थिताश् चौराश् चौराचाराश् च पार्थिवाः एकपत्न्यो न शिष्यन्ति वर्धिष्यन्त्यभिसारिकाः
वर्णाश्रमप्रतिष्ठानो जायते नृषु सर्वतः तदा स्वल्पफला भूमिः क्वचिच्चापि महाफला
अरक्षितारो हर्तारः पार्थिवाश् च शिलाशन शूद्रा वै ज्ञानिनः सर्वे ब्राह्मणैरभिवन्दिताः
अक्षत्रियाश् च राजानो विप्राः शूद्रोपजीविनः आसनस्था द्विजान्दृष्ट्वा न चलन्त्यल्पबुद्धयः
ताडयन्ति द्विजेन्द्रांश् च शूद्रा वै स्वल्पबुद्धयः आस्ये निधाय वै हस्तं कर्णं शूद्रस्य वै द्विजाः
नीचस्येव तदा वाक्यं वदन्ति विनयेन तम् उच्चासनस्थान् शूद्रांश् च द्विजमध्ये द्विजर्षभ
ज्ञात्वा न हिंसते राजा कलौ कालवशेन तु पुष्पैश् च वासितैश्चैव तथान्यैर् मङ्गलैः शुभैः
शूद्रानभ्यर्चयन्त्यल्पश्रुतभाग्यबलान्विताः न प्रेक्षन्ते गर्विताश् च शूद्रा द्विजवरान् द्विज
सेवावसरम् आलोक्य द्वारे तिष्ठन्ति वै द्विजाः वाहनस्थान् समावृत्य शूद्राञ्शूद्रोपजीविनः
सेवन्ते ब्राह्मणास्तत्र स्तुवन्ति स्तुतिभिः कलौ तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः
यतयश् च भविष्यन्ति बहवो ऽस्मिन्कलौ युगे पुरुषाल्पं बहुस्त्रीकं युगान्ते समुपस्थिते
निन्दन्ति वेदविद्यां च द्विजाः कर्माणि वै कलौ कलौ देवो महादेवः शङ्करो नीललोहितः
प्रकाशते प्रतिष्ठार्थं धर्मस्य विकृताकृतिः ये तं विप्रा निषेवन्ते येन केनापि शङ्करम्
कलिदोषान् विनिर्जित्य प्रयान्ति परमं पदम् श्वापदप्रबलत्वं च गवां चैव परिक्षयः
साधूनां विनिवृत्तिश् च वेद्या तस्मिन्युगक्षये तदा सूक्ष्मो महोदर्को दुर्लभो दानमूलवान्
चातुराश्रमशैथिल्ये धर्मः प्रतिचलिष्यति अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः
युगान्तेषु भविष्यन्ति स्वरक्षणपरायणाः अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः
प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे चित्रवर्षी तदा देवो यदा प्राहुर्युगक्षयम्
सर्वे वणिग्जनाश्चापि भविष्यन्त्यधमे युगे कुशीलचर्याः पाषण्डैर् वृथारूपैः समावृताः
बहुयाजनको लोको भविष्यति परस्परम् नाव्याहृतक्रूरवाक्यो नार्जवी नानसूयकः
न कृते प्रतिकर्ता च युगक्षीणे भविष्यति निन्दकाश्चैव पतिता युगान्तस्य च लक्षणम्
नृपशून्या वसुमती न च धान्यधनावृता मण्डलानि भविष्यन्ति देशेषु नगरेषु च
अल्पोदका चाल्पफला भविष्यति वसुंधरा गोप्तारश्चाप्यगोप्तारः सम्भविष्यन्त्यशासनाः
हर्तारः परवित्तानां परदारप्रधर्षकाः कामात्मानो दुरात्मानो ह्य् अधमाः साहसप्रियाः
प्रनष्टचेष्टनाः पुंसो मुक्तकेशाश् च शूलिनः जनाः षोडशवर्षाश् च प्रजायन्ते युगक्षये
शुक्लदन्ताजिनाक्षाश् च मुण्डाः काषायवाससः शूद्रा धर्मं चरिष्यन्ति युगान्ते समुपस्थिते