वेदशाखाप्रणयनं धर्माणां संकरस् तथा वर्णाश्रमपरिध्वंसः कामद्वेषौ तथैव च
द्वापरे तु प्रवर्तन्ते रागो लोभो मदस् तथा वेदो व्यासैश्चतुर्धा तु व्यस्यते द्वापरादिषु
एको वेदश्चतुष्पादस् त्रेतास्विह विधीयते संक्षयादायुषश्चैव व्यस्यते द्वापरेषु सः
ऋषिपुत्रैः पुनर्भेदा भिद्यन्ते दृष्टिविभ्रमैः मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः
संहिता ऋग्यजुःसाम्नां संहन्यन्ते मनीषिभिः सामान्या वैकृताश्चैव द्रष्टृभिस्तैः पृथक्पृथक्
ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च अन्ये तु प्रस्थितास्तान्वै केचित्तान्प्रत्यवस्थिताः
इतिहासपुराणानि भिद्यन्ते कालगौरवात् ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा
भविष्यं नारदीयं च मार्कण्डेयमतः परम् आग्नेयं ब्रह्मवैवर्तं लैङ्गं वाराहमेव च
वामनाख्यं ततः कूर्मं मात्स्यं गारुडमेव च स्कान्दं तथा च ब्रह्माण्डं तेषां भेदः प्रकथ्यते
लैङ्गम् एकादशविधं प्रभिन्नं द्वापरे शुभम् मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनो ऽङ्गिराः
यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती पराशरव्यासशङ्खलिखिता दक्षगौतमौ
शातातपो वसिष्ठश् च एवमाद्यैः सहस्रशः अवृष्टिर्मरणं चैव तथा व्याध्याद्युपद्रवाः
वाङ्मनःकर्मजैर् दुःखैर् निर्वेदो जायते ततः निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा
विचारणाच्च वैराग्यं वैराग्याद्दोषदर्शनम् दोषाणां दर्शनाच्चैव द्वापरे ज्ञानसंभवः
एषा रजस्तमोयुक्ता वृत्तिर् वै द्वापरे स्मृता आद्ये कृते तु धर्मो ऽस्ति स त्रेतायां प्रवर्तते
द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे
तिष्ये मायामसूयां च वधं चैव तपस्विनाम् साधयन्ति नरास्तत्र तमसा व्याकुलेन्द्रियाः
कलौ प्रमादको रोगः सततं क्षुद्भयानि च अनावृष्टिभयं घोरं देशानां च विपर्ययः
न प्रामाण्यं श्रुतेरस्ति नृणां चाधर्मसेवनम् अधार्मिकास्त्वनाचारा महाकोपाल्पचेतसः
अनृतं ब्रुवते लुब्धास् तिष्ये जाताश् च दुष्प्रजाः दुरिष्टैर्दुरधीतैश् च दुराचारैर्दुरागमैः
विप्राणां कर्म दोषेण प्रजानां जायते भयम् नाधीयन्ते तदा वेदान् न यजन्ति द्विजातयः
उत्सीदन्ति नराश्चैव क्षत्रियाश् च विशः क्रमात् शूद्राणां मन्त्रयोगेन संबन्धो ब्राह्मणैः सह
भवतीह कलौ तस्मिञ् शयनासनभोजनैः राजानः शूद्रभूयिष्ठा ब्राह्मणान् बाधयन्ति ते
भ्रूणहत्या वीरहत्या प्रजायन्ते प्रजासु वै शूद्राश् च ब्राह्मणाचाराः शूद्राचाराश् च ब्राह्मणाः
राजवृत्तिस्थिताश् चौराश् चौराचाराश् च पार्थिवाः एकपत्न्यो न शिष्यन्ति वर्धिष्यन्त्यभिसारिकाः
वर्णाश्रमप्रतिष्ठानो जायते नृषु सर्वतः तदा स्वल्पफला भूमिः क्वचिच्चापि महाफला
अरक्षितारो हर्तारः पार्थिवाश् च शिलाशन शूद्रा वै ज्ञानिनः सर्वे ब्राह्मणैरभिवन्दिताः
अक्षत्रियाश् च राजानो विप्राः शूद्रोपजीविनः आसनस्था द्विजान्दृष्ट्वा न चलन्त्यल्पबुद्धयः
ताडयन्ति द्विजेन्द्रांश् च शूद्रा वै स्वल्पबुद्धयः आस्ये निधाय वै हस्तं कर्णं शूद्रस्य वै द्विजाः
नीचस्येव तदा वाक्यं वदन्ति विनयेन तम् उच्चासनस्थान् शूद्रांश् च द्विजमध्ये द्विजर्षभ